ऋषिगौतमप्रोक्तं शिवार्चने घृतकम्बलमहिमवर्णनम्
(शिवरहस्यान्तर्गते उग्राख्ये)
गौतमः (आह)
शिवार्चनात्परो धर्मो नास्ति नास्ति जग्रत्रये ।
ऐश्वर्यदं तथा मोक्षप्रदं शङ्करपूजनम् ॥ १९२॥
महेशपूजनादन्यन्नास्त्येवैश्वर्यमुक्तिदम् ।
सत्यमेतत्पुनः सत्यमिति वेदा वदन्ति हि ॥ १९३॥
यमर्थं हृदि सङ्कल्प्य यः पूजयति शङ्करम् ।
स तमर्थमवाप्नोति सत्यं सत्यमिति श्रुतिः ॥ १९४॥
शिवलिङ्गार्चनेनैव भुक्त्वा भोगाननेकधा ।
मुक्तिं च प्राप्नुवन्त्येव शिवार्चनपरायणाः ॥ १९५॥
अखण्डमतुलं द्रव्यं यस्य यावदपेक्षितम् ।
ततोऽप्यधिकमैश्वर्यं प्राप्तव्यं शिवपूजया ॥ १९६॥
माघे मासि महादेवे यः कुर्याद्घृतकम्बलम् ।
स भुक्त्वा सकलान्भोगानन्ते मोक्षं च विन्दति ॥ १९७॥
नरा भूपतयो जाता घृतकम्बलदानतः ।
जातिस्मराश्च ते जाता मुक्ताश्चान्ते शिवार्चनात् ॥ १९८॥
॥ इति शिवरहस्यान्तर्गते ऋषिगौतमप्रोक्तं शिवार्चने घृतकम्बलमहिमवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । १९२-१९८॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 192-198..
Notes:
Ṛṣi Gautama ऋषि गौतम iterates about offering of the Ghṛtakambalam घृतकम्बलम् during Māgha māsa माघ मास for worship of Śiva शिव.
Ghṛtakambalam घृतकम्बलम् procedure finds detailed mention in the Adhyāyaḥ 26 अध्यायः २६ of ŚivaRahasyam Saptamāṁśaḥ शिवरहस्यम् सप्तमांशः and in the Kāmika Āgama कामिक आगम.
The Adhyāyaḥ 26 अध्यायः २६ of ŚivaRahasyam Saptamāṁśaḥ शिवरहस्यम् सप्तमांशः has several other details about Śivapūjāsādhanāni शिवपूजासाधनानि.
Proofread by Ruma Dewan