ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशम् १
(शिवरहस्यान्तर्गते उग्राख्ये)
अगस्त्यः
पुण्यपुण्यं धर्मधर्मं मङ्गलानां च मङ्गलम् ।
पावनं पवनानां च जप शैवं षडक्षरम् ॥ २३९॥
शिवलिङ्गं बिल्वपत्रैः पूजयस्वान्वहं मुदा ।
तत्पूजया महद्भाग्यं प्राप्तव्यं नात्र संशयः ॥ २४०॥
न प्राप्यते महद्भाग्यं शिवलिङ्गार्चनं विना ।
अतोऽन्वहं प्रयत्नेन लिङ्गे पूजय शङ्करम् ॥ २४१॥
जगत्यां सन्ति यावन्तो भाग्यवन्तो धनाश्रयाः ।
तावन्तो गिरिजाकान्तं नितान्तं पूजयन्ति हि ॥ २४२॥
विना यज्ञमनायासमुपेन्द्रेन्द्रादयः शिवम् ।
समभ्यर्च्य महद्भाग्यं लब्ध्वा तिष्ठन्ति सन्ततम् ॥ २४३॥
शिवलिङ्गार्चनेनैव विष्णुत्वं प्राप केशवः ।
ब्रह्मत्वमपि सम्प्राप ब्रह्मा शङ्करपूजया ॥ २४४॥
इन्द्रत्वमिन्द्रः सम्प्राप श्रीमहादेवपूजया ।
वायुः सम्प्राप वायुत्वं श्रीमहादेवपूजया ॥ २४५॥
न विष्णुत्वादिदातान्यो विना देवोत्तमं शिवम् ।
सत्यमेतत्पुनः सत्यमुद्धृत्य भुञ्जमुच्यते ॥ २४६॥
विष्णुर्यदर्चनादर्च्यंस्तमेव गिरिजापतिम् ।
पूजयस्वातियत्नेन सर्वसम्पत्प्रदं प्रभुम् ॥ २४७॥
शिवलिङ्गे शिवं नित्यं पूजयस्वातियत्नतः ।
प्रतिमापूजनाच्छ्रेष्ठं शिवलिङ्गस्य पूजनम् ॥ २४८॥
शिवलिङ्गार्चन्नाच्छ्रेष्ठमन्यन्नैव हि दृश्यते ॥ २४९॥
॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशं १ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । २३९-२४९॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . 239-249..
Notes:
Ṛṣi Agastya ऋषि अगस्त्य; delivers Upadeśa उपदेश (to Sudatiputra Sanātana सुदतिपुत्र सनातन) about worshiping Śiva शिव.
Proofread by Ruma Dewan