ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशम् २
(शिवरहस्यान्तर्गते उग्राख्ये)
अगस्त्यः
अतो यं काममुद्दिश्य यः शिवम्पूजयिष्यति ।
स तं काममवाप्नोति ततोऽधिकमपि ध्रुवम् ॥ ७४०॥
येऽर्चयन्ति महादेवं सावधानेन सन्ततम् ।
ते समृद्धा भवन्त्येव पुत्रदारधनादिभिः ॥ ७४१॥
अप्राप्यं नास्ति शैवेन्द्र श्रीमहादेवपूजया ।
श्रीमहादेवमाराध्य को वा न सुखमेधते ॥ ७४२॥
नित्यमव्यभिचारिण्या भक्त्या पूज्योमहेश्वरः ।
दुर्लभा तादृशी भक्तिर्यतः सर्वार्थदायिनी ॥ ७४३॥
किं कामधेनुभिर्विप्र किं कल्पतरुकोटिभिः ।
यदि भक्तिर्महादेवे सर्वसम्पत्प्रदायिनी ॥ ७४४॥
यदि भक्तिर्महादेवे भक्तितरव्यभिचारिणी ।
तदेन्द्रोपेन्द्रचन्द्राद्या गणनीया न सर्वथा ॥ ७४५॥
सम्प्राप्य शाम्भवीं भक्ति गणयिष्यति कः सुरान् ।
शिवेतरामराः सर्वे यतः शङ्करकिङ्कराः ॥ ७४६॥
देवोत्तमं महादेवमाश्रित्याप्यन्यदैवतम् ।
कः समाराधयेत्प्राज्ञो धनीनिर्धनिनो धनम् ॥ ७४७॥
येऽभिवाञ्छन्ति सततमैहिकामुष्मिकं फलम् ।
तेषां सदा शिवादन्यः पूज्यो न भवति ध्रुवम् ॥ ७४८॥
॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं शिवार्चनोपदेशं २ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । ७४०-७४८॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . 740-748..
Notes:
Ṛṣi Agastya ऋषि अगस्त्य; delivers Upadeśa उपदेश as an iteration about worshiping Śiva शिव.
Proofread by Ruma Dewan