शिवार्तिक्यम् १
हालहलविषपानं त्रिपुराणां मथनं
नाथ कथङ्कारमहं कुर्यां तत्कथनं
चरितममितमन्धकमुखजगदहितक्रथनं
यदलङ्कृतये तत्तद्धतशिरसां ग्रथनं
जय जय शिशुशशिशेखर शिव ! । कामाराते !
ज्ञातमिदं परमेश्वर करुणा स्फारा ते । ध्रुव०॥ १॥
उपमन्यव ईशकृतं दुग्धोदधिदानं
काश्यां दीयत एव प्राणिभ्यो ज्ञानं
दस्युरितः शिरसि पदं दत्वापि विमानं
बहुमतमिदमेव सतां कीर्तिसुधापानम् । जय जय ॥ २॥
नाम्न्यस्त्वादर ईश ग्रीष्म इव व्यजने
बालस्य क्रीडन इव वा भवतो भजने
मामुद्धर मा(१) मुद्धर! । नश्यतु में भजने
भक्तमयूरघन त्वं परिगणय स्वजने । जय जय ॥ ३॥
इति श्रीरामनन्दनमयूरेश्वरकृतं शिवार्तिक्यं सम्पूर्णम् ।
१। तव भजने मे मुदानन्दो मा नश्यतु । तव भजने मे रतिः सदास्त्वित्यर्थः
Proofread by Rajesh Thyagarajan