शिवार्तिक्यम् २
(*)
गौरीकान्तं नौमि सदा निर्जरदान्तं । ध्रुव०॥
कामारातिं पावकभालं जनपालं
मायालीलं चन्द्रकलारञ्जितमौलिं
योगातीतं योगिभिरन्तःस्तुतिगीतम् । गौरी०॥ १॥
गङ्गामालं दानवकालं मुनिपालं
देवाधीशं व्यालकुलालङ्कृतवेषं
क्षोणीनाथं वारणचार्माम्बरकायम् । गौरी०॥ २॥
नानावाद्यैस्ताण्डवकाले सुरसङ्घैः
नागादैः सामकलाभिस्तुतिपूज्यैः
सर्वोपायं वारणदत्ताम्बरकायम् । गौरी०॥ ३॥
नानारूपै . . . . . नानाभुवनानि
सूक्ष्मासूक्ष्मैः स्थूलतरास्थूलतरैः ।
लालितपालितदीनं दिनदशपालम् । गौरी०॥ ४॥
पाशबाणैः संयुतं खेलन्तमनन्तं
दीक्षाभङ्गं दक्षिणकान्तं कृतवन्तं
वेदैः शास्त्रैर्वन्दितपादं सुरमोदम् । गौरी०॥ ५॥
क्षोणीपालं वारिमयं त . . . . . ।
तेजोरूपं चन्द्रमयं सूर्यमयं चार्कं
तारामार्गैः सोमकलाक्षं त्रिपुरान्तम् । गौरी०॥ ६॥
भूतानन्दं मर्दितभस्मासुरकन्दं
वाराणस्या सेवितविश्वेश्वरपादं
यन्त्रैस्तीर्थैर्मन्त्रैः परैर्मानसगीतम् । गौरी०॥ ७॥
प्रातःकाले शङ्करमालारुचि . . मेतं
* अस्य मयूरकृतित्वे सन्देग्धि नश्चेतः ।
रामानन्दे जल्पति कान्तं रमणीयं
भुक्रवाभोगं वञ्चति योगाङ्कितगम्यं
स्नानं शम्भो मत्तमयूरेश्वरवृन्दम् । गौरी०॥ ८॥
इति श्रीरामनन्दनमयूरेश्वरकृतं शिवार्तिक्यं सम्पूर्णम् ।
नेदं कविलिखिते ग्रन्थसमूहे समुलभ्यते न वान्यैरपि तत्समकालिकैः कुत्रापि निर्दिश्यते । प्रायश्चाशुद्धं च त्रुटितं च यथा काव्यसङ्ग्रहे मुद्रितं तथैवास्माभिः ।
Proofread by Rajesh Thyagarajan