शिवार्यास्तुतिः

शिवार्यास्तुतिः

ॐ श्रीगणेशाय नमः । द्रुतकनकभासुराङ्गं कुमुदवनीबन्धुपाकचूडालम् । स्मेरलवमञ्जुलास्यं शैलसुताश्लिष्टमाश्रये देवम् ॥ १॥ करुणारसार्द्रनयनं करधृतविज्ञानमुद्रमतिभद्रम् । न्यग्रोधमूलभवनं न्यक्कृतनतमोहमानमामीशम् ॥ २॥ गाङ्गेयद्रवलहरीप्रौढतनुच्छायसुन्दरमुदारम् । हैमवतीरसनिर्भरनयनासेचनकनैजलावण्यम् ॥ ३॥ उद्यद्बहुविद्युद्गणहृद्यजटानद्धनिर्जरधुनीकम् । अङ्गजतनुभङ्गकलासङ्गतनिटिलाक्षतुङ्गभूमानम् ॥ ४॥ शम्भो तावकविनुतौ विगलद्गर्वो हि भारतीजानिः । स्तुतिकाङ्क्षा मम तनुते ग्राव्णां तरणस्य जलनिधौ समताम् ॥ ५॥ विधिमाधवदुरधिगमं शीर्षं चरणं च तावकं गदितम् । वेद्यो भवसि कथं मे निटिलगता भाग्यरेखिका कीदृक् ॥ ६॥ गूढार्थैर्भव वेदैरर्थप्रवणैः पुराणवचनैस्त्वाम् । पुरुषमतिदुर्निरूप्यैस्तन्त्रैः शक्नोमि कथमहं वेत्तुम् ॥ ७॥ क्षित्यादि कार्यमखिलं सदधिष्ठानं सकर्तृकं गदितम् । कर्ता नैव जडः स्यादाद्यः शम्भो श्रुतीरितस्त्वमिति ॥ ८॥ उत्पादकोऽसि जगतामकरोस्तरलं तु मामकं हृदयम् । गौरीपते कथं त्वं ध्येयो भूयाः किमस्ति मयि दोषः ॥ ९॥ चापल्यादैन्द्रियकाद् ध्यातुं शक्नोमि नाद्य तव मूर्तिम् । अन्ते सविधकृतान्ते शम्भो शक्ष्यामि कथमहं श्रान्तः ॥ १०॥ कृतकेतरवचनाञ्चलपटलीपेटीनिगूढनिहितं ते । नगजाजाने जानेऽमानं महिमानमिह कथं मूढः ॥ ११॥ पूर्णं चिद्धनमेकं त्वामिन्द्रं वरुणमर्कमीशानम् । मायावञ्चितहृदया ब्रुवते वागिति सनातनी ब्रूते ॥ १२॥ उल्लङ्घ्य तावकाज्ञामुडुपतिशकलावतंस रचितागाः । भवशततापग्लपितः शरणं त्वामेव निस्त्रपः प्रापम् ॥ १३॥ अगतिमधुना वराकं श्रान्तं नितरां भवाब्धिपतितं माम् । तारय कटाक्षनावा करुणावरुणालयोऽसि विश्वेश ॥। १४॥ अन्तर्यामिणमाह त्वामेवाकृतकभारती यस्मात् । ज्ञातमहो हतहृदयं वारितमपि तेन मद्वशं नैति ॥ १५॥ अमवोऽसि देव यत् त्वं वेत्सि भवोद्दामयातनां नातः । दीनपरिदेवनं मे श्रुत्वापि त्रातुमुद्यतो नाद्य ॥ १६॥ पतितमपि पादपतितं पावनचरितं तनोषि गुणभरितम् । आद्यतमावद्यतमो हृद्यनवद्याद्य वारयाच्छिद्य ॥ १७॥ अर्वाङ्गीकुरुषे तामार्यामुन्मत्तशेखरो यस्मात् । ऊरीकृत्यावसि मां कामिनमिति किं नु धैर्यमवलम्बे ॥ १८॥ श्रुत्यञ्चलमञ्चगतो मां चलमनसं विहाय नगजेश । वञ्चयसि किं चरेयं चञ्चासदृशस्वकिञ्चनः किञ्च ॥ १९॥ रक्षितुमखिलाध्यक्ष त्र्यक्ष सुदक्षोऽप्युपेक्षसेऽपक्षम् । नेक्षे रक्षकमितरं मात्रोपेक्ष्यं किमीक्षते पथिकः ॥ २०॥ दूने सुकृतविहीने वृजिनविताने गिरीश धृतमाने । करुणां निधेहि दीने न शिवाजाने विधानमिह जाने ॥ २१॥ कतिवारं नतिवाकं श्रुतिशतनुत पतितपावन ब्रूयाम् । लीलाशतलोलाखिलपालाहतकाल पालयाभीलात् ॥ २२॥ धीरे जलधिगभीरे करुणासारे परीतसुरवारे । गौरे विषयविदूरे जलधरचिकुरे हरे मनो मेऽस्तु ॥ २३॥ शूरे संवित्सारे क्षितिभृदगारे फणीन्द्रकृतहारे । मस्तकधृतजलपूरे सर्वोदारे ममास्तु नतिवाकः ॥ २४॥ इति श्रीशिवार्यास्तुतिः समाप्ता । (४४) Proofread by Sivakumar Thyagarajan Iyer
% Text title            : Shivarya Stuti
% File name             : shivAryAstutiH.itx
% itxtitle              : shivAryAstutiH
% engtitle              : shivAryAstutiH
% Category              : shiva, stuti
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan Iyer
% Description/comments  : 44 in Stotrasamuchchaya 1, Edited by Pandit K. Parameshwara Aithal
% Indexextra            : (Scan)
% Latest update         : September 23, 2023
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org