शिवार्यास्तुतिः
ॐ श्रीगणेशाय नमः ।
द्रुतकनकभासुराङ्गं कुमुदवनीबन्धुपाकचूडालम् ।
स्मेरलवमञ्जुलास्यं शैलसुताश्लिष्टमाश्रये देवम् ॥ १॥
करुणारसार्द्रनयनं करधृतविज्ञानमुद्रमतिभद्रम् ।
न्यग्रोधमूलभवनं न्यक्कृतनतमोहमानमामीशम् ॥ २॥
गाङ्गेयद्रवलहरीप्रौढतनुच्छायसुन्दरमुदारम् ।
हैमवतीरसनिर्भरनयनासेचनकनैजलावण्यम् ॥ ३॥
उद्यद्बहुविद्युद्गणहृद्यजटानद्धनिर्जरधुनीकम् ।
अङ्गजतनुभङ्गकलासङ्गतनिटिलाक्षतुङ्गभूमानम् ॥ ४॥
शम्भो तावकविनुतौ विगलद्गर्वो हि भारतीजानिः ।
स्तुतिकाङ्क्षा मम तनुते ग्राव्णां तरणस्य जलनिधौ समताम् ॥ ५॥
विधिमाधवदुरधिगमं शीर्षं चरणं च तावकं गदितम् ।
वेद्यो भवसि कथं मे निटिलगता भाग्यरेखिका कीदृक् ॥ ६॥
गूढार्थैर्भव वेदैरर्थप्रवणैः पुराणवचनैस्त्वाम् ।
पुरुषमतिदुर्निरूप्यैस्तन्त्रैः शक्नोमि कथमहं वेत्तुम् ॥ ७॥
क्षित्यादि कार्यमखिलं सदधिष्ठानं सकर्तृकं गदितम् ।
कर्ता नैव जडः स्यादाद्यः शम्भो श्रुतीरितस्त्वमिति ॥ ८॥
उत्पादकोऽसि जगतामकरोस्तरलं तु मामकं हृदयम् ।
गौरीपते कथं त्वं ध्येयो भूयाः किमस्ति मयि दोषः ॥ ९॥
चापल्यादैन्द्रियकाद् ध्यातुं शक्नोमि नाद्य तव मूर्तिम् ।
अन्ते सविधकृतान्ते शम्भो शक्ष्यामि कथमहं श्रान्तः ॥ १०॥
कृतकेतरवचनाञ्चलपटलीपेटीनिगूढनिहितं ते ।
नगजाजाने जानेऽमानं महिमानमिह कथं मूढः ॥ ११॥
पूर्णं चिद्धनमेकं त्वामिन्द्रं वरुणमर्कमीशानम् ।
मायावञ्चितहृदया ब्रुवते वागिति सनातनी ब्रूते ॥ १२॥
उल्लङ्घ्य तावकाज्ञामुडुपतिशकलावतंस रचितागाः ।
भवशततापग्लपितः शरणं त्वामेव निस्त्रपः प्रापम् ॥ १३॥
अगतिमधुना वराकं श्रान्तं नितरां भवाब्धिपतितं माम् ।
तारय कटाक्षनावा करुणावरुणालयोऽसि विश्वेश ॥। १४॥
अन्तर्यामिणमाह त्वामेवाकृतकभारती यस्मात् ।
ज्ञातमहो हतहृदयं वारितमपि तेन मद्वशं नैति ॥ १५॥
अमवोऽसि देव यत् त्वं वेत्सि भवोद्दामयातनां नातः ।
दीनपरिदेवनं मे श्रुत्वापि त्रातुमुद्यतो नाद्य ॥ १६॥
पतितमपि पादपतितं पावनचरितं तनोषि गुणभरितम् ।
आद्यतमावद्यतमो हृद्यनवद्याद्य वारयाच्छिद्य ॥ १७॥
अर्वाङ्गीकुरुषे तामार्यामुन्मत्तशेखरो यस्मात् ।
ऊरीकृत्यावसि मां कामिनमिति किं नु धैर्यमवलम्बे ॥ १८॥
श्रुत्यञ्चलमञ्चगतो मां चलमनसं विहाय नगजेश ।
वञ्चयसि किं चरेयं चञ्चासदृशस्वकिञ्चनः किञ्च ॥ १९॥
रक्षितुमखिलाध्यक्ष त्र्यक्ष सुदक्षोऽप्युपेक्षसेऽपक्षम् ।
नेक्षे रक्षकमितरं मात्रोपेक्ष्यं किमीक्षते पथिकः ॥ २०॥
दूने सुकृतविहीने वृजिनविताने गिरीश धृतमाने ।
करुणां निधेहि दीने न शिवाजाने विधानमिह जाने ॥ २१॥
कतिवारं नतिवाकं श्रुतिशतनुत पतितपावन ब्रूयाम् ।
लीलाशतलोलाखिलपालाहतकाल पालयाभीलात् ॥ २२॥
धीरे जलधिगभीरे करुणासारे परीतसुरवारे ।
गौरे विषयविदूरे जलधरचिकुरे हरे मनो मेऽस्तु ॥ २३॥
शूरे संवित्सारे क्षितिभृदगारे फणीन्द्रकृतहारे ।
मस्तकधृतजलपूरे सर्वोदारे ममास्तु नतिवाकः ॥ २४॥
इति श्रीशिवार्यास्तुतिः समाप्ता ।
(४४)
Proofread by Sivakumar Thyagarajan Iyer