शिवढुण्ढिप्रोक्तं शिवलिङ्गार्चनमहिमकथनम्

शिवढुण्ढिप्रोक्तं शिवलिङ्गार्चनमहिमकथनम्

शिवदुण्ढिः - शिवस्वरूपाणि किलामलानि लिङ्गानि सर्वाणि शिवार्चनं च । लिङ्गे कृतं सर्वदमित्यवैमि लिङ्गार्चनेनापि समो न धर्मः ॥ ३५॥ अपारपुण्यैः शिवपूजनेषु भक्तिर्भवाम्भोधिविनाशनाय । भविष्यतीति स्फुटमेव मन्ये न तेन धर्मेण समोऽस्ति धर्मः ॥ ३६॥ संसाराघकुलाम्बुराशिरसकृत् कम्पं विधत्ते मुहुः कालोऽपि त्रिपुरारिपूजनरतो बिल्वीदलैः कोमलैः । लिङ्गे तुङ्गसरित्तरङ्गनिकरव्याप्ते सकृद्वा सुराः सर्वे तत्पदपूजनाय सततं कुर्वन्ति यत्नं मुदा ॥ ३७॥ लिङ्गाराधनमेव केवलमुमाकान्तप्रियं मुक्तिदं मन्ये पापहरं च सन्ततमिदं बिल्वीदलैः कोमलैः । कर्तव्यं सकृदेव वा सभसितर्जेतुं यमं शाम्भवं सम्प्राप्तुं पदमप्यपारविभवं सत्यं त्रिसत्यं परम् ॥ ३८॥ भस्मालङ्कृतदेहमर्चकमुमाकान्तस्य बिल्वीदलैः दृष्ट्वा पापमहाम्बुराशिकुलमप्यामूललूनं भवेत् । दुःखाब्धिः प्रलयं प्रयात्यपि भटाः कालस्य दूरं परं यान्त्येवाशु शिवार्चनोद्यतमतिस्तस्मात् सुरैः पूज्यते ॥ ३९॥ लिङ्गाराधनपुण्यराशिजफलं वक्तुं न शक्ताः सुराः सेन्द्रोपेन्द्रपुरोगमा अपि तथा सिद्धाः प्रसिद्धा अपि । गन्धर्वा अपि किन्नरा अपि गणैर्ज्ञेयोऽथवा न त्वया वेदैर्वा गिरिशः परं सुखरो जानाति तत्त्वं परम् ॥ ४०॥ अभ्यर्चितानि लिङ्गानि दृष्ट्वा वा परया मुदा । देहान्ते शाङ्करं स्थानं प्राप्नुवन्ति न संशयः ॥ ४१॥ प्रातः पूजितमालोक्य शिवलिङ्गं शिवात्मकम् । भवेद्रात्रिकृतैः पापैर्विमुक्तो विविधैरपि ॥ ४२॥ लिङ्गं मध्याह्नकालेऽपि पूजितं यस्तु पश्यति । स पूर्वाह्णकृतैः पापैः सर्वैरपि विमुच्यते ॥ ४३॥ प्रदोषकाले यः पश्येत् शिवलिङ्गं समर्चितम् । स सप्तकल्पपर्यन्तकृतैः पापैर्विमुच्यते ॥ ४४॥ यत् पुण्यं जायते भक्त्या शिवलिङ्गावलोकने । तत्पुण्यमन्तरहितं भुक्तिमुक्तिफलप्रदम् ॥ ४५॥ ॥ इति शिवरहस्यान्तर्गते शिवढुण्ढिप्रोक्तं शिवलिङ्गार्चनमहिमकथनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ४६। ३५-४५ ॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 46. 35-45 .. Proofread by Ruma Dewan
% Text title            : Shivadhundhiproktam Shivalingarchanamahimakathanam
% File name             : shivaDhuNDhiproktaMshivalingArchanamahimakathanam.itx
% itxtitle              : shivaliNgArchanamahimakathanam shivaDhuNDhiproktam (shivarahasyAntargatam)
% engtitle              : shivaDhuNDhiproktaMshivalingArchanamahimakathanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shivarahasyam | harAkhyaH tRitIyAMshaH | uttarArdham | adhyAyaH 46 | 35-45 ||
% Indexextra            : (Scan)
% Latest update         : January 30, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org