शिवढुण्ढिप्रोक्तं शिवलिङ्गार्चनमहिमकथनम्
शिवदुण्ढिः -
शिवस्वरूपाणि किलामलानि लिङ्गानि सर्वाणि शिवार्चनं च ।
लिङ्गे कृतं सर्वदमित्यवैमि लिङ्गार्चनेनापि समो न धर्मः ॥ ३५॥
अपारपुण्यैः शिवपूजनेषु भक्तिर्भवाम्भोधिविनाशनाय ।
भविष्यतीति स्फुटमेव मन्ये न तेन धर्मेण समोऽस्ति धर्मः ॥ ३६॥
संसाराघकुलाम्बुराशिरसकृत् कम्पं विधत्ते
मुहुः कालोऽपि त्रिपुरारिपूजनरतो बिल्वीदलैः कोमलैः ।
लिङ्गे तुङ्गसरित्तरङ्गनिकरव्याप्ते सकृद्वा सुराः
सर्वे तत्पदपूजनाय सततं कुर्वन्ति यत्नं मुदा ॥ ३७॥
लिङ्गाराधनमेव केवलमुमाकान्तप्रियं मुक्तिदं
मन्ये पापहरं च सन्ततमिदं बिल्वीदलैः कोमलैः ।
कर्तव्यं सकृदेव वा सभसितर्जेतुं यमं शाम्भवं
सम्प्राप्तुं पदमप्यपारविभवं सत्यं त्रिसत्यं परम् ॥ ३८॥
भस्मालङ्कृतदेहमर्चकमुमाकान्तस्य बिल्वीदलैः
दृष्ट्वा पापमहाम्बुराशिकुलमप्यामूललूनं भवेत् ।
दुःखाब्धिः प्रलयं प्रयात्यपि भटाः कालस्य दूरं परं
यान्त्येवाशु शिवार्चनोद्यतमतिस्तस्मात् सुरैः पूज्यते ॥ ३९॥
लिङ्गाराधनपुण्यराशिजफलं वक्तुं न शक्ताः सुराः
सेन्द्रोपेन्द्रपुरोगमा अपि तथा सिद्धाः प्रसिद्धा अपि ।
गन्धर्वा अपि किन्नरा अपि गणैर्ज्ञेयोऽथवा न त्वया
वेदैर्वा गिरिशः परं सुखरो जानाति तत्त्वं परम् ॥ ४०॥
अभ्यर्चितानि लिङ्गानि दृष्ट्वा वा परया मुदा ।
देहान्ते शाङ्करं स्थानं प्राप्नुवन्ति न संशयः ॥ ४१॥
प्रातः पूजितमालोक्य शिवलिङ्गं शिवात्मकम् ।
भवेद्रात्रिकृतैः पापैर्विमुक्तो विविधैरपि ॥ ४२॥
लिङ्गं मध्याह्नकालेऽपि पूजितं यस्तु पश्यति ।
स पूर्वाह्णकृतैः पापैः सर्वैरपि विमुच्यते ॥ ४३॥
प्रदोषकाले यः पश्येत् शिवलिङ्गं समर्चितम् ।
स सप्तकल्पपर्यन्तकृतैः पापैर्विमुच्यते ॥ ४४॥
यत् पुण्यं जायते भक्त्या शिवलिङ्गावलोकने ।
तत्पुण्यमन्तरहितं भुक्तिमुक्तिफलप्रदम् ॥ ४५॥
॥ इति शिवरहस्यान्तर्गते शिवढुण्ढिप्रोक्तं शिवलिङ्गार्चनमहिमकथनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ४६। ३५-४५ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 46. 35-45 ..
Proofread by Ruma Dewan