शिवभक्तेन द्विजप्रति शिवार्चनोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
शिवभक्तः उवाच
(अतः) शिवैकशरणो भव त्व द्विजसत्तम ।
शिवैकशरणानां तु नास्त्येव यमयातना ॥ १५६॥
बिभेति शाङ्करं दृष्ट्वा यमोऽपि सततं द्विज ।
अतो भज महादेवं भक्त्या भस्मविभूषितः ॥ १५७॥
समर्चय महादेवं रुद्राक्षाभरणोज्ज्वलः ।
जाबालोक्तविधानेन त्रिपुण्ड्रं कुरु सादरम् ॥ १५८॥
शिवार्चनं यथा नित्यं भस्मरुद्राक्षधारणम् ।
कर्तव्यं श्रद्धया नित्यमप्रमादेन सर्वथा ॥ १५९॥
निधनेत्यादि ये मन्त्रा नमोऽन्ताः पापनाशकाः ।
तैरन्वहं पूजनीयो लिङ्गरूपी सदाशिवः ॥ १६०॥
नित्यमार्द्रैरनार्द्रैर्वा बिल्वपत्रैर्महेश्वरम् ।
पूजय त्वं त्रिकालं च भक्तिश्रद्धापुरःसरम् ॥ १६१॥
बिल्वपत्राणि शुद्धानि स्वतः पर्युषितान्यपि ।
शङ्करार्पणयोग्यानि भवन्ति द्विजसत्तम ॥ १६२॥
सुवर्णबिल्वपत्रं च रत्नं च रजतं तथा ।
न हि पर्युषितं विप्र शुद्धमेव स्वयं यतः ॥ १६३॥
अर्चितान्यपि बिल्वानि प्रक्षाल्य च पुनः पुनः ।
शङ्करार्पणयोग्यानि नूतनानीव सर्वदा ॥ १६४॥
शुष्क त्रुटितमार्द्रं वा बिल्वपत्रं शिवप्रियम् ।
तस्मादर्चय यत्नेन बिल्वपत्रैः सदाशिवम् ॥ १६५॥
महापापविनिर्मुक्तो भविष्यसि न संशयः ॥ १६६॥
॥ इति शिवरहस्यान्तर्गते शिवभक्तेन द्विजप्रति शिवार्चनोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २०। १५६-१६६॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 20 . 156-166..
Notes:
A Śivabhakta शिवभक्त gives Upadeśa उपदेश to a Divja द्विज about merits of worshiping Śiva शिव.
Proofread by Ruma Dewan