शिवभक्तिकल्पलतिकास्तोत्रम्

शिवभक्तिकल्पलतिकास्तोत्रम्

श्रीगणेशाय नमः ॥ श्रीकान्तपद्मजमुखैर्हृदि चिन्तनीयं श्रीमत्क्व शङ्कर भगवच्चरणारविन्दम् । क्वाहं तदेतदुपसेवितुमीहमानो हा हन्त कस्य न भवाम्युपहासपात्रम् ॥ १॥ अद्राक्षमङ्घ्रिकमलं न तवेति यन्मे दुःखं यदप्यनवमृश्य दुरात्मतां स्वाम् । पादाम्बुजं तव दिदृक्ष इतीदृगागः पातोऽनले प्रतिकृतिर्गिरिशैतयोर्मे ॥ २॥ दौरात्म्यतो मम भवत्पददर्शनेच्छा मन्तुस्तथापि तव सा भजनात्मिकेति । स्यादीशितुर्मयि दयैव दयामकार्षी- रश्मादिभिः प्रहृतवत्सु न किं विभो त्वम् ॥ ३॥ दुःखानलोदरनिपातनधूर्वहेष्वे- ष्वर्थाङ्गनासुतमुखेष्वनुराग आगः । स्यात्ते रुषे तव दयालुतया त्वदान- त्याद्यैर्विभो तदवधूय बिभर्षि चास्मान् ॥ ४॥ ईशान रक्षितुमिमान् यदपेक्षसे त्वं नत्यादिकं तदपनेतुमतिप्रसङ्गम् । किं हीयते तदनुपाधिकृपालुता ते संवित्सुखस्य न हि ते प्रियमप्रियं वा ॥ ५॥ अप्याहरप्रहरसंहरवाग्वदस्य त्राताऽस्युपात्तममुना मम नाम हीति । एवं विभो तनुभृतामवनेऽप्युपाया- न्वेषी कथं परमकारुणिकोऽसि न त्वम् ॥ ६॥ त्राता दयाजलनिधिः स्मृतिमात्रलभ्यः क्षन्ताऽऽगसामिति भवद्यशसा हृतात्मा । स्वामस्मरन्बत मलीमसतामलज्जो भक्तिं भवत्यभिलषामि धिगस्तु यन्माम् ॥ ७॥ शर्माप्तिरार्तिविहतिश्च भवत्प्रसादं शम्भो विना न हि नृणां स च नान्तरा याम् । यस्यां विधिः श्वभुगपि क्षमते समं तां त्वद्भक्तिमिच्छतु न कः स्वविनाशभीरुः ॥ ८॥ भक्तिर्विभात्ययि महत्यपरं तु फल्ग्वि- त्येवं ग्रहो ननु भवत्कृपयैव लभ्यः । लब्धस्त्वसौ फलममुष्य लभे न किं वा तां हन्त ते तदयशो मम हृद्रुजा च ॥ ९॥ त्वद्भक्त्यसम्भवशुचं प्रतिकारशून्या- मन्तर्वहन्निखिलमीश सुखं च दुःखम् । उद्बन्धलग्न इव दुःखतयैव मन्ये सन्ताम्यतीति मयि हन्त कदा दयेथाः ॥ १०॥ भक्तिं भवत्यविहतां वहतस्तु तद्वि- शेषोपलम्भविरहाहितमस्तु दुःखम् । तस्याः प्रतीपततिभिर्हतिजं कथं वा दुःखं सहे मयि कदेश कृपा भवेत्ते ॥ ११॥ लग्नः कृतान्तवदनेऽस्मि लभे च नाद्या- प्यच्छां रतिं त्वयि शिवेत्यवसीदतो मे । त्वद्विस्मृतिं कुविषयाभिरतिप्रचारै- स्तन्वन् हि मां हसपदं तनुषे ब्रुवे किम् ॥ १२॥ बद्धस्पृहं रुचिरकाञ्चनभूषणादौ बालं फलादिभिरिव त्वयि भक्तियोगे । आशाभराकुलमहो करुणानिधे मा- मर्थान्तरैर्हृतधियं कुरुषे किमेवम् ॥ १३॥ तिक्तग्रहोऽधिमधुरं मधुरग्रहोऽधि- तिक्तं यथा भुजगदष्टतनोस्तथाहम् । त्वय्यस्तरक्तिरितरत्र तु गाढमग्नः शोच्योऽश्मनोऽपि हि भवामि किमन्यदीश ॥ १४॥ त्वत्संस्मृतित्वदभिधानसमीरणादि- सम्भावनास्पदममी मम सन्तु शोकाः । मा सन्तु च त्वदनुषक्तिमुषः प्रहर्षा मां त्वत्पुरःस्थितिपुषेश दृशाऽनुपश्य ॥ १५॥ सम्पातनं ननु सुखेषु निपातनं वा दुःखेष्वथान्यदपि वा भवदेकतानम् । यत्कल्पयेर्ननु धिया शिव तद्विधेहि नावैम्यहं मम हितं शरणं गतस्त्वाम् ॥ १६॥ दुःखं प्रदित्सुरयि मे यदि न प्रदद्या दुःखापहं पुरहर त्वयि भक्तियोगम् । त्वद्भक्त्यलाभपरिचिन्तनसम्भवं मे दुःखं प्रदेहि तव कः पुनरत्र भारः ॥ १७॥ भक्त्या त्वयीश कति नाश्रुपरीतदृष्ट्या सञ्जातगद्गदगिरोत्पुलकाङ्गयष्ट्या । धन्याः पुनन्ति भुवनं मम सा न हीति दुःखेऽपि का नु तव दुर्लभताविधित्सा ॥ १८॥ त्वद्भक्तिरेतदनवाप्तिशुगप्युदारा श्रीः सा च तावकजनाश्रयणे च लभ्या । उल्लङ्घ्य तावकजनान् हि तदर्थनाग- स्त्वय्याः सहस्व तदिदं भगवन्नमस्ते ॥ १९॥ सेवा त्वदाश्रयवतां प्रणयश्च तेषु सिद्ध्येद्दृढो मम यथाऽऽशु तथा दयार्द्राम् । दृष्टिं तवार्पय मयीश दयाम्बुराशे मैवं विभो विमुखता मयि दीनबन्धो ॥ २०॥ गौरीसखं हिमकरप्रभमम्बुदाभं श्रीजानि वा शिववपुस्तव तज्जुषो ये । ते त्वां श्रिता वहसि मूर्घ्नि तदङ्घ्रिरेणुं तत्सेवनं मम कथं नु दयां विना ते ॥ २१॥ त्वद्भक्तिकल्पलतिकां कृपयार्पयेश मच्चित्तसीम्नि भवदीयकथासुधाभिः । तां वर्धय त्वदनुरागफलाढ्यमौलिं तन्मूल एव खलु मुक्तिफलं चकास्ति ॥ २२॥ निःस्वो धनागम इव त्वदुपाश्रितानां सन्दर्शने प्रमुदितस्त्वयि सान्द्रहार्दः । आलोकयन् जगदशेषमिदं भवन्तं कार्यस्त्वयेश कृपयाहमपास्तखेदः ॥ २३॥ यो भक्तिकल्पलतिकाभिधमिन्दुमौले- रेतं स्तवं पठति तस्य तदैव देवः । तुष्टः स्वभक्तिमखिलेष्टदुहं ददाति यां प्राप्य नारदमुखैरुपयाति साम्यम् ॥ २४॥ इति श्री श्रीधरवेङ्केटेशार्य कृतौ शिवभक्तिकल्पलतिकास्तोत्रं सम्पूर्णम् ॥ Proofread by PSA Easwaran, Rajani Arjun Shankar
% Text title            : shivabhaktikalpalatikAstotram
% File name             : shivabhaktikalpalatikAstotram.itx
% itxtitle              : shivabhaktikalpalatikAstotram (shrIdharaveNkaTesha virachitam)
% engtitle              : shivabhaktikalpalatikAstotram
% Category              : shiva, shrIdhara-venkaTesha
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : abhinavanRisiMhabhAratIsvAmi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran, Rajani Arjun Shankar
% Description-comments  : Brihatstotraratnakara 1, Narayana Ram Acharya, Nirnayasagar, stotrasankhyA 211 page 224 (Brhatstotraratna Kara Vol I)
% Indexextra            : (Scan)
% Latest update         : July 30, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org