शिवभक्त्यार्थ प्रार्थना
भोगाङ्गानि विनश्वराणि भगवन् प्राज्यानि राज्यान्यपि
श्रीमृत्युञ्जय सर्वथापि निधयः सापायशङ्काश्रयाः ।
शङ्कातङ्कनिवारकं निरधिकं कालान्तकं केवलं
त्वां मन्ये तत एव सा त्वयि सदा भक्तिममास्तु स्थिरा ॥ १॥
गोक्षीरे मधुशर्करादिमधुरद्रव्येषु जिह्वा यथा
लोला तद्वदुमापते शिवमहादेवेति नामामृते ।
लीला सन्ततमस्तु चित्तमपि मे त्वत्पादपद्मे मुदा
भृङ्गत्वं समुपेत्य तिष्टतु वरः सोऽयं वराणां वरः ॥ २॥
प्राप्य प्रोषितभर्तृकेव रमणं भाजु यथा पद्मिनी
शीतां कुमुदं सुधामिव नरो राज्यानि राजाधमः ।
सुश्रोत्रं बधिरोऽन्धकः सुनयनं पङ्गुः पदक्षेपणं
वाणीं मूक इवान्तकान्तक पदं पुष्टं प्रहृष्टं पुनः ॥ ३॥
प्राप्येवोषरभूतले जलमतिश्रान्तो वसन्तं पिको
वन्ध्या पुत्रमघक्षयं मुनिजनश्चन्द्रं चकेराङ्गना ।
मेघं चातकबालकः शिवपुरीं विश्वेश्वराराधकः
प्राप्यानन्दममन्दमिन्दुमुकुटं मन्मानसं लालसम् ॥ ४॥
मच्चित्तं मकरन्दपाननिरतो भृङ्गो मरन्दं यथा
कामी सुन्दरकामिनीमिव धनं निःस्वोः यथा बालकः ।
स्तन्यं मेधमिवाङ्कुरः शिव तथा त्वन्नामसङ्कीतनं
लब्ध्वा तुष्यतु पुष्टमस्तु सततं याचे न चान्यान् वरान् ॥ ५॥
शम्भो त्वच्चरणारविन्दमधुना दष्टं पुनर्मे कदा
देयं दशनमिन्दुशेखर दयासिन्धो यदा नेक्षितम् ।
त्वत्पादाम्बुजमादरेण न तदा ग्राह्यं जलं वा कथं
मामाज्ञापय दर्शनाय भगवन् सायं प्रगे वा प्रभो ॥ ६॥
एतस्मादधिको वरद मे नापेक्षितः सर्वथा
शर्वोऽयं शपथः शिवाचरणयोः त्वत्पादपद्मेऽपि मे ।
अन्यत् किं मदपेक्षितं शिवपदाम्भोजे भजे सन्ततं
तन्मात्र मदपेक्षितं हृदयमप्यत्रान्वहं सादरम् ॥ ७॥
॥ इति शिवरहस्यान्तर्गते शिवभक्त्यार्थ प्रार्थना सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २१। २०-२६ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 21. 20-26 ..
Proofread by Ruma Dewan