चित्रगुप्तप्रोक्तमं शिवभक्त्युत्कर्षवर्णनम्
चित्रगुप्तः -
शृणु शाम्भवसङ्घानां वार्तां श्रोत्रमनोहराम् ।
यद्वार्ताश्रवणेनापि शिवभक्तिर्दृढा भवेत् ॥ ६१॥
शाम्भवानामयं सङ्घः सुधाराशिरिवाधुना ।
दृष्टोऽध्यानन्दपीयूषमयूखान् जनयत्यहो ॥ ६२॥
क्षणमप्यायुषो नास्य वैयर्थ्यं शिवपूजया ।
आयुः क्षीणमभूदस्य प्रतिक्षणशिवार्चनात् ॥ ६३॥
सुधाधाराभिषेकेण शिवपूजा प्रतिक्षणम् ।
तया क्षणसहस्त्रांशोऽप्यस्य नाभूत् वृथा यम ॥ ६४॥
तेन पुण्येन महता नृत्यन्ति प्रहसन्ति च ।
लिङ्गपूजां च कुर्वन्ति पुनः पुनरिहान्तक ॥ ६५॥
एतत्सङ्गाश्रयाणां तु धनानि विविधानि च ।
जानाति शिवपूजार्थं तेन गायन्ति कोटिशः ॥ ६६॥
एतत्सङ्गसमाश्रयामितधनैरभ्यर्चितः शङ्करो
नित्यं चन्दनबिल्वपल्लवलसन्मन्दारकुन्दादिभिः ।
नैवेद्यैरमितैर्मनोहर महाकर्पूरदीपावली-
सङ्घैरप्यमिते रनुक्षणमतो नृत्यन्ति गायन्ति च ॥ ६७॥
(सङ्घैरप्यमिते अनुक्षणमित्यारभ्य धनैरित्यन्तं)॥ ६७॥
तेषामेव धनैः शिवार्चनमभूत् पञ्चामृतैः शोधितैः
शुद्वैस्तैः कपिलाघृतैरपि सदा धारापि लिङ्गे मुदा ।
विच्छिन्ना न भवत्यनन्तविभवा सा मुक्तिधारा परा
गोक्षीरादिकधारयापि गिरिशः सन्तुष्ट एवान्वहम् ॥ ६८॥
रत्नागारविशेषनिर्मितमहालिङ्गप्रभापूरकैः
तद्द्रव्यैरमितः शिवार्चनफलैः साङ्गैरमोघैरपि ।
तेनैते शिवपूजनोत्सवरसाः स्वानन्दधारावृताः
कल्याणाश्रयपूजनाय सततं नृत्यन्ति गायन्ति च ॥ ६९॥
तत्सङ्घाश्रितवित्तपूजनफलैः तावत्प्रनृत्यन्त्यहो
गायन्त्येव वहन्ति सन्ततममी श्रीरुद्रवीणादराः ।
शम्भो शङ्कर चन्द्रशेखर महादेवेति सप्तस्वर-
व्यापारप्रकरप्रचारनखव्यापारसारादरैः ॥ ७०॥
स्वप्नेऽप्यम्बुजबिल्वपल्लवरसैरभ्यर्चयन्तीश्वरं
निद्रायामपि चित्रमेतदपरं निद्राऽपि तेषां क्षणम् ।
आयुर्वृद्धिमुपैति शङ्करपदाम्भोजार्चनादन्वहं
तस्य क्षीणदशा कदापि न भवत्यर्धेन्दुमौलिस्मृतेः ॥ ७१॥
तेषां तावदपारशङ्करकथापीयूषपानात् तनुः
पीना पीनतराऽपि ते मुहुरुमाकान्ताम्बिकानायकम् ।
स्मृत्वा चेतसि सन्ततं कथमपि त्वामेव देवोत्तमं
मत्वा शङ्करनामधेयसुसुधापानैर्नयामो दिनम् ॥ ७२॥
तेषामायुरनुक्षणं पणगणैर्वेश्यामुखालोकनैः
मद्यस्त्रीपरिसेवनेन चरितं पण्याङ्गणालापनैः ।
तेनाश्राव्यतया नयन्ति दिवसांस्ते मेचकाकारतां
सम्प्राप्यापि मुहुर्मुहुः शिवकथालापोऽपि तैर्न श्रुतः ॥ ७३॥
हा हन्तामितवित्तनाशनकरव्यापारभारादरैः
नीतं तद्दिनमन्धकारिविमुखैः दुःखोपकारादरैः ।
आराध्यः शिव इत्यपारविभवो नैवानुभूतो भवो
भावैः साकमभाषणं च कृतमित्यज्ञः परं क्लिश्यति ॥ ७४॥
अज्ञानाद्गिरिशार्चनं न च कृतं लिङ्गं च नालोकितं
लिङ्गागारमहोत्सवोऽपि न कृतो दृष्टा न दीपावली ।
लिङ्गागारविनिर्मिता विधिवशाद् धूपप्रधूपावली
दृष्टा नृत्यति चिन्तया परमयं सङ्घः परं (सद्यः स्वयं)क्लिश्यति ॥ ७५॥
नानापापविनाशिनी शिवकथा नाकर्णिता न श्रुतं
नामापि स्मरवैरिणः सकरुणः श्रीशूलपाणिः स्वयम् ।
नैवान्तःकरणाम्बुजे स्मृत इति व्यर्थं वयो निर्गतं
हा हा हन्त वयो वृथा गतमिति व्यर्थं रुदन्त्यद्य ते ॥ ७६॥
आयुर्व्यर्थमिदं गतं शिवपदं न ध्यातमेवादरात्
लिङ्गे बिल्वदलं प्रसूनममलं गङ्गाजलं वा मुदा ।
न क्षिप्तं न च वीक्षितं च नगरं विश्वेश्वरस्यादरात्
इत्थं ते प्रलपन्ति हन्त बत ते ते तेऽपि ते तेऽपि ते ॥ ७७॥
श्रीविश्वेश्वरलिङ्गमुत्तमतमं श्रीचन्दनेनानर्घैः
पुष्पैर्बिल्वदलैश्च नार्चितमहो क्षीणं वयः सर्वथा ।
हा हन्तामितपातकार्जनरतं चित्तं वयो निर्गतं
किं कर्तव्यमिति प्रतिक्षणममी दुःखातुराः कातराः ॥ ७८॥
श्रीविश्वेश्वरपूजनं च न कृतं द्वित्रैः पवित्रैर्नवैः
बिल्वैः कोमलपल्लवैः जलरुहैर्दूर्वाङ्कुरैर्भस्मना ।
(बिल्वैः कोमलपल्लवैः अभिनवैर्दूर्वाङ्कुरैर्भस्मना)।
नो दृष्टं निकटापदाम्बुजयुगं नाराधितं चन्दनैः
मल्लीमालिकया दुकूलकलिकैरित्यन्वहं दुःखिताः ॥ ७९॥
न स्नातं मणिकर्णिकाम्भसि च वै नोद्धूलितेयं तनुः
भूत्या फालमपि त्रिपुण्ड्ररचनैर्नालङ्कृतं भस्मना ।
रुद्राक्षैश्च न भूषिता तनुरहो व्यर्थं गतं जीवनं
हा हन्तेति बतेति दैवहतमित्येते रुदन्ति स्वतः ॥ ८०॥
वीरेशाय न कल्पितातिरुचिता सा नीरधारा मुहुः
श्रीवीरेश्वरतङ्गलिङ्गमसकृन्नाभ्यर्चितं चन्दनैः ।
सायं न प्रणतं च नेक्षितमहो भूतोपवासैर्निशा
नीता नेति रुदन्ति हन्त सततं ते काल भीत्या तव ॥ ८१॥
काश्यामेव न कालभैरवदिने कालाष्टमीनामके
कृत्वा जागरणं मुहुर्मुहुरयं दृष्टो मया भैरवः ।
कालेशोऽपि न वीक्षितो मुहुरहो हा हन्त हन्तेत्यमी
दुःखेनैव नयन्त्यनुक्षणमहो ते काल भीत्या तव ॥ ८२॥
- -
इति तद्वचनं श्रुत्वा यमो विस्मयमानसः ।
शिवभक्तगणं दृष्ट्वा पूजयामास संस्तुवन् ॥ ८३॥
धन्यं कुलमिदं दृष्टं शिवभक्तायुषां मया ।
धन्यं धन्यमिदं तावत् जीवनं नयनाम्बुजम् ॥ ८४॥
एतदालोकनेनैव विनेयः समयो मया ।
अपूर्वोऽयं शिवगणः शिवनाममहोत्सवः ॥ ८५॥
कथं गायन्ति दिव्यानि शिवनामानि कोटिशः ।
आनन्दोद्बोधकान्येव मुहुर्मुहुरतन्द्रिताः ॥ ८६॥
एते धन्याः परं धन्याः सर्वे तद्वीक्षणादराः ।
धन्यस्तदङ्गवासोऽपि मुक्तिकान्तानुकर्षकः ॥ ८७॥
सङ्गोऽपि तावत् कर्तव्यः तावदेतैः सहान्वहम् ।
एतत्सङ्गानुषङ्गोऽपि भुक्तिमुक्तिप्रदो भवेत् ॥ ८८॥
धन्यं धन्यमिदं शरीरमधुना धन्याङ्गसङ्गादयं
धन्यः शाङ्करसङ्ग इत्यनुगतो ब्रह्मादिदेवस्तुतः ।
अस्माकं गिरिजामनोहरपदाम्भोजार्चनं जायते
बुद्धिः शाङ्करतोत्तमोत्तमतमा मुक्तिप्रदानोद्यमा ॥ ८९॥
(बुद्धिः सिद्धिकरोत्तमोत्तमतमा मुक्तिप्रदानोद्यता)॥ ८९॥
॥ इति शिवरहस्यान्तर्गते चित्रगुप्तप्रोक्तमं शिवभक्त्युत्कर्षवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः ८ -
आयुमूर्तिशिवभक्त्युत्कर्षवर्णनम् । ६१-८९॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 8 -
AyumUrtishivabhaktyutkarShavarNanam . 61-89..
Notes:
Citragupta चित्रगुप्त explains to Yama यम about the merits of worshiping Śiva शिव; and as a result, wonderment and devotion towards Śiva शिव is aroused in Yama यम.
Proofread by Ruma Dewan