शिवदर्शविग्रहवर्णनम् १
(शिवरहस्यान्तर्गते उग्राख्ये)
(भिल्लेन शिवदर्शने)
इत्युक्तं तद्वचः श्रुत्वा दृष्ट्वा तद्धैर्यमीश्वरः ।
प्रत्यक्षोऽभूत्तदा साम्बो भिल्लाय करुणानिधिः ॥ ४५९॥
स भिल्लः करुणासिन्धुं ददर्श वृषभध्वजम् ।
कोटिसूर्यौघसङ्काशमुमालिङ्गत विग्रहम् ॥ ४६०॥
सोमसूर्याग्निनयनं सोमार्धकृतशेखरम् ।
नीलकण्ठं विरूपाक्षं भस्मोद्धूलितविग्रहम् ॥ ४६१॥
जटामण्डलसंवीतं शूलमुण्डकरं परम् ।
व्याघ्रचर्मपरीधानं प्रमथौघनिषेवितम् ॥ ४६२॥
बिल्वमालासमाक्रान्तमुक्तामालाविराजितम् ।
करुणारसपूर्णाक्षं महोक्षोपरि सस्थितम् ॥ ४६३॥
मन्दस्मिताननं देवं वराभीतिलसत्करम् ।
शङ्खकर्पूरकुन्देन्दुधवलं भुवनेश्वरम् ॥ ४६४॥
॥ इति शिवरहस्यान्तर्गते भिल्लेन शिवदर्शने शिवदर्शविग्रहवर्णनं १ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २३। ४५९-४६४॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . 459-464..
Notes:
A brief account of appearance of Śiva शिव to Bhilla भिल्ल.
Proofread by Ruma Dewan