शिवदर्शविग्रहवर्णनम् २
(शिवरहस्यान्तर्गते उग्राख्ये)
(द्विजेन शिवदर्शने)
अनन्तसोमसूर्याग्निप्रतिमं वृषभध्वजम् ।
कर्पूरगौरं सानन्दमुमासंश्लिष्टविग्रहम् ॥ ३५०॥
चन्द्रार्कवह्रिनयनं चन्द्रशेखरमीश्वरम् ।
मुक्तादामपरीताङ्गं दुकूलवसनान्वितम् ॥ ३५१॥
भ्राजत्भाललसन्नेत्रं भ्राजद्भूतिविभूषणम् ।
रुद्राक्षमालासंवीतं मुक्तामालासमावृतम् ॥ ३५२॥
रत्नकेयूरकटकरत्नपट्टविराजितम् ।
नानारत्नपरिभ्राजन्मुकुटोद्भासिमस्तकम् ॥ ३५३॥
वीज्यमानमनन्तैश्च व्यजनैश्चामरैस्तथा ।
अनन्तरत्नप्रत्युप्तसिह्मासनविराजितम् ॥ ३५४॥
मन्दहाससमाक्रान्तपूर्णेन्दुवदनं प्रभुम् ।
अनन्तप्रमथैः सेव्यं ब्रह्मविष्ण्वादिभिस्तथा ॥ ३५५॥
॥ इति शिवरहस्यान्तर्गते द्विजेन शिवदर्शने शिवदर्शविग्रहवर्णनं २ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २५। ३५०-३५५॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 25 . 350-355..
Notes:
A brief account of appearance of Śiva शिव to Dvija द्विज.
Proofread by Ruma Dewan