नारदप्रोक्तं शिवधर्मानुवर्णनम्
धर्मैर्पारैः विविधैः यत्फलं लभ्यते जनैः ।
तदीशार्चनसम्प्राप्यं लीलयैव न संशयः ॥ १॥
न बहुद्रव्यविलयो न ह्यायासः शिवार्चने ।
प्राप्यन्ते विपुलान्येव विमलानि फलान्यपि ॥ २॥
बिल्वपल्लवमात्रस्य प्रदाने लिङ्गमस्तके ।
यत्फलं प्राप्यते तत्तु न धर्मान्तरकोटिभिः ॥ ३॥
लिङ्गसृष्टिः कृता पूर्व करुणासागरेण हि ।
त्रिशूलपाणिना सेयमुत्कृष्टा सृष्टिद्भुता ॥ ४॥
पुरा कैलासशिखरे सुखासीनं महेश्वरम् ।
हिरण्यबाहुमीशानं स्वर्णसुन्दरविग्रहम् ॥ ५॥
शरद्राकेश्वराकारदुकूलपरिवेष्टितम् ।
उदारतारहाराणां विहारनिकरं परम् ॥ ६॥
जटाजूटतडित्कोटिनिकटेन्दुकलाधरम् ।
रत्नाभरणशोभाभिः अभितः परिवेष्टितम् ॥ ७॥
त्रिलोचनं नीलकण्ठं सोत्कण्ठं गिरिजानने ।
अप्रमेयमनाद्यन्तं सच्चिदानन्दलक्षणम् ॥ ८॥
परमानन्ददं शान्तं मङ्गलानां च मङ्गलम् ।
पवित्राणां पवित्रं च दैवतानां च दैवतम् ॥ ९॥
अप्रधृष्यं भवं भीमं जरामरणवर्जितम् ।
महामृत्युञ्जयं शर्वं महारुद्रं पिनाकिनम् ॥ १०॥
भक्तानन्दप्रदं भव्यं दिव्यं विषविभूषितम् ।
स्मरणेनापि भक्तानां सर्वाभीष्टप्रदायकम् ॥ ११॥
गौरीविहारनिरतं प्रसन्नवदनं प्रभुम् ।
शम्भुं विलोक्य गिरिजा प्राह तद्वामभागगा ॥ १२॥
॥ इति शिवरहस्यान्तर्गते नारदप्रोक्तं शिवधर्मानुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ३४। २७-३८ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 34. 27-38 ..
Proofread by Ruma Dewan