नन्दिकेश्वरप्रोक्तं शिवधर्मशिवमूर्तिभेदवर्णनम्
किं वक्तव्यं मया देवाः त्रिनेत्रस्याद्भुतं खलु ।
चरित्रं तत्पवित्रं हि पवित्राणां विशेषतः ॥ १॥
हरस्यामरवीरस्य रङ्केष्वप्यविशङ्कया ।
अनुग्रहस्तदोग्राणां परमानन्दसाधनम् ॥ २॥
स्वतन्त्रः स महादेवो यं पश्यति दयार्णवः ।
तेन तीर्णः स संसारपापनक्राकरः खलु ॥ ३॥
प्रभुचित्तानुसारेण किङ्कराणां तु वर्तनम् ।
अन्यथा विपरीत स्यात् इति निश्चितमेव हि ॥ ४॥
तदुक्तिरेव वेदार्थो वेदवक्ता स एव हि ।
प्रामाण्यमपि वेदानां न स्वतः परमार्थतः ॥ ५॥
परन्तु शिववाक्यत्वस्वरूपेणेति निश्चितम् ।
वेदास्तु शिववाक्यानि प्रामाण्यं तेषु सर्वथा ॥ ६॥
धर्मतत्त्वं महेशेन ज्ञायते नामरैरपि ।
किन्नरैर्वा न गन्धर्वैः नराणां तत्र का कथा ॥ ७॥
नित्यं सर्वज्ञमूर्तित्वादष्टमूर्तिः परं स्वतः ।
जानाति तत्त्वधर्माणां सर्वेषामपि वस्तुतः ॥ ८॥
अयमेतादृशो धर्मः फलमस्येदनित्यपि ।
जानाति भगवान् शम्भुः साम्बः संसारमोचकः ॥ ९॥
तन्मायया परं विश्वं मोहितं तच्चराचरम् ।
संसारे पातयत्येव पुनः पुनरनेकधा ॥ १०॥
अहो महेश्वरैश्वर्यमपारमतुलं खलु ।
तत्केन ज्ञायते लोके वेदैर्न ज्ञायते यतः ॥ ११॥
तदुक्तवचनैर्वेदैः तद्रूपावगमः कथम् ।
अस्मदुक्तेन वाक्येन नास्मद्ज्ञानं यथा तथा ॥ १२॥
वेदान्तगोचरं रूपं सच्चिदानन्दलक्षणम् ।
तदस्माभिः कथं ज्ञेयं दुर्ज्ञेयत्वावधारणात् ॥ १३॥
ये लीलाविग्रहः शम्भोः तेऽवनन्तास्तथाविधाः ।
तद्ज्ञानमप्यशक्यं हि सर्वथैव स्वभावतः ॥ १४॥
एकैको विग्रहस्तस्य नास्मन्नयनगोचरः ।
तेजःपुञ्जसमाक्रान्ताः तेजःपुञ्जाः स्वभावतः ॥ १५॥
द्विबाहवो विग्रहास्तु कोटिशः परमात्मनः ।
तस्यैव कोटिशस्तावत् ते चतुर्बाहवः पराः ॥ १६॥
केचिदष्टभुजास्तस्य केचिद्दशबाहवः ।
सहस्रबाहवः केचित् (-) केचिदर्बुदबाहवः ॥ १७॥
-(केचित्ते लक्षबाहवः । ते कोटिबाहवः केचित्)
परार्धबाहवः केचित् महादेवस्य विग्रहाः ।
दिव्याभरणसम्पन्नाः ते सर्वे मेरुसन्निभाः ॥ १८॥
दुकूलसंवृताः सर्वे दिव्यचन्दनचर्चिताः ।
उमार्धविग्रहाः सर्वे त्रिशूलवरबाहवः ॥ १९॥
ते सर्वे चन्द्ररेखाङ्काः नीलकण्ठाः कपर्दिनः ।
कैलासभुवनागारं व्याप्य सर्वे व्यवस्थिताः ॥ २०॥
परमानन्दसम्पूर्णाः ते सर्वेऽपि कृपार्णवाः ।
तत्प्रभावार्णवान्तस्तु न वेदैरपि शस्यते ॥ २१॥
तद्ज्ञानमस्मदादीनां सुतरामपि दुर्लभम् ।
एतेषां विग्रहाणां तु सर्वेषां मूलविग्रहः ॥ २२॥
चिद्धनः शिव एवेति तद्ज्ञानमतिदुर्लभम् ।
तत्र द्विबाहुरीशानविग्रहो दृश्यते मया ॥ २३॥
कथञ्चिद्धोरतपसा कृपयाऽपि शिवस्य मे ।
शिवया स यदा युक्तः तदा तद्दर्शनं परम् ॥ २४॥
कुमारस्य गणेशस्य तदन्येषां तु दुर्लभम् ।
स विहारार्थमायाति यदा बहिरुमां विना ॥ २५॥
तदा सकरुणापूरो हरो लोचनगोचरः ।
तस्यैव लीलया सृष्टिः स्थितिः संहार इत्यपि ॥ २६॥
स कथञ्चिद्वेदवाक्यैः विरूपाक्षो निरूपितः ।
तदाज्ञावशगं सर्वमिदं ब्रह्माण्डमण्डलम् ॥ २७॥
वाति वातस्ततो भीतः शङ्करादुग्रशासनात् ।
उग्रोग्रशासनादेव भीतः सूर्योऽप्युदेत्ययम् ॥ २८॥
भीषास्मादग्निरिन्द्रश्च मृत्युर्धावति पञ्चमः ।
एतादृशं महादेवं सर्वश्रुत्यन्तसंस्तुतम् ॥ २९॥
स्मृत्वाऽपि मुच्यते घोरैः अपारैरघसागरैः ।
अर्चनं स्मरणं ध्यानं वन्दनं कीर्तन तथा ॥ ३०॥
जपोऽपि शिवलिङ्गाग्रे शिवस्यानन्तमुच्यते ॥ ३१॥
शिवचरणसरोजाभ्यर्चनध्यानदानस्मरणभजनगानाराधनालापनाद्यैः ।
अनुपदमनुधावन्त्यादरादिन्दिराद्याः कनकरुचिरदण्डाखण्डचण्डातपत्रैः ॥ ३२॥
॥ इति शिवरहस्यान्तर्गते नन्दिकेश्वरप्रोक्तं शिवधर्मशिवमूर्तिभेदवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः २८। ६२-९३ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 28. 62-93 ..
Proofread by Ruma Dewan