शिवध्यानम्
समाहितेन मनसा ध्यात्वैवं परमेश्वरम् । १(१)
ध्यायेत्सदाशिवं साक्षाद्देवं सकलनिष्कलम् ॥ २(२)॥
शुद्धस्फटिकसङ्काशं त्रिनेत्रं शीतलद्युतिम् ।
विद्युद्वलयसङ्काशं जटामकुटभूषितम् ॥ ३॥
शार्दूलचर्मवसनं किञ्चिस्स्मितमुखाम्बुजम् ।
रक्तपद्मनदलप्रख्यपाणिपादतलाधरम् ॥ ४॥
सर्वलक्षणसम्पन्नं सर्वाभरणभूषितम् ।
दिव्यायुधधरैर्युक्तं (दिव्यायुधधरं देवं) दिव्यगन्धानुलेपनम् ॥ ५॥
पञ्चवक्त्रं दशभुजमिन्दुखण्डशिखा(शिरो)मणिम् ।
अस्य पूर्वमुखं सौम्यं बालसूर्यसमच्छविम्(समचछवि) ॥ ६॥
त्रिलोचनारविन्दाढ्यं सोमधामर्धशेखरम् ।
दक्षिणं नीलजीमूतसमानरुचिरप्रभम् ॥ ७॥
भ्रुकुटीकुटिलं घोरं रक्तवृत्तत्रिलोचनम् ।
दंष्ट्राकरालं विलसत्स्फुरिताधरपल्लवम् ॥ ८॥
(दंष्ट्राकरालेन्दुलसत्स्फुरिताधरपल्लवम्) ॥ ८॥
उत्तरं विद्रुमप्रख्यं नीलालकविभूषितम् ।
सविलासं त्रिणयनं चञ्चच्चन्द्रकलाधरम् ॥ ९॥
पश्चिमं सूर्यचन्द्राभं लोचनत्रितयोज्ज्वलम्(ज्वलम्) ।
चन्द्ररेखाधरं सौम्यं मन्दस्मितमनोहरम् ॥ १०॥
पञ्चमं स्फटिकप्रख्यमिन्दुरेखाकलाधरम् ।
अतीव सौम्यमुत्फुल्लसोमसूर्यानलाक्षिकम् ॥ ११॥
(अतीव सौम्यमुत्फुल्लसोमसूर्याग्निचक्षुषम्) ॥ ११॥
दक्षिणे शूलपरशुं वज्रखड्गानलोज्वलम् ।
सव्ये परश्युनाराचघण्टापाशाङ्कुशोज्ज्वलम्(ज्वलम्) ॥ १२॥
निवृत्या जानुसम्बद्धमानाभेश्च प्रतिष्ठया ।
आकण्ठं विद्यया तद्वदाललाटं तु शान्तया ॥ १३॥
तदूर्ध्वं शान्त्यतीताख्यकलया(ऽ)पारया तथा ।
पञ्चोर्ध्वं (पञ्चोर्ध्व) व्यापकं तस्मात्कलापञ्चकविग्रहम् ॥ १४॥
ईशानमुत्कटं (ईशानमकुटं) देवं पुरुषास्यं महेश्वरम् ।
अघोरहृदयं तद्वद्वामगुह्यं सदाशिवम् ॥ १५॥
सद्योजातपदं मूर्तिमष्टत्रिंशत्कलामयम् ।
मातृकामयमीशानं पञ्चब्रह्ममयं तथा ॥ १६॥
ओङ्काराख्यमयं चैव हंसशक्त्या समायुतम् ।
पञ्चाक्षरमयं देवं षडक्षरमयं तथा ॥ १७॥
॥ इति शिवरहस्यान्तर्गते भवाख्ये शिवध्यानम् ॥
- ॥ श्रीशिवरहस्यम् । भवाख्यः द्वितीयांशः । अध्यायः ५ । १-१७॥
- .. shrIshivarahasyam . bhavAkhyaH dvitIyAMshaH . adhyAyaH 5 . 1-17..
Notes:
Selected verses pertaining to ŚivadhyānaM शिवध्यानम्
that form a part of the worship of Śiva शिव,
are presented here.
Proofread by Ruma Dewan