शिवद्वास्त्रिंशोपचारपूजन

शिवद्वास्त्रिंशोपचारपूजन

१ ध्यानम् -- ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतंसं रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात् स्तुतममरगणैर्व्याघ्रकृतिं वसानं विश्वाद्यं विश्ववन्द्यं निखिलभयहरं पञ्चवक्त्रं त्रिनेत्रम् ॥ वन्दे देव उमापतिं सुरगुरुं वन्दे जगत्कारणं वन्दे पन्नगभूषणं मृगधरं,वन्दे पशूनां पतिम् । वन्दे सूर्यशशाङ्कवह्निनयनं,वन्दे मुकुन्दप्रियं वन्दे भक्तजनाश्रयं च वरदं,वन्दे शिवं शङ्करम् ॥ सिंहासनं कनकरत्नमणि प्रभास्वत् छत्रध्वजा लसित चामर तोरणाढ्यम् । बालार्क कोटि सदृशं कनकाम्बराढ्यं श्री विश्वनाथ तव ध्यानपरं करिष्ये ॥ २ आवाहनम् -- गन्धर्व किन्नर महर्षि सुरेन्द्रवृन्दैः संसेव्यमान मनिशं वृषभावरूढम् । आवाहयामि गिरिजासहितं प्रसन्नं भक्त्या सुखागतमहं शिरसा नमामि ॥ ३ आसनम् -- सिंहासनं कनकरत्न मणि- प्रभास्वत् छत्रध्वजा लसित चामर तोरणाढ्यम् । बालार्क कोटि सदृशं कनकाम्बराढ्यं श्री विश्वनाथ ! मनसैव मयाऽर्पितं ते ॥ ४ पाद्यम् -- दूर्वाङ्कुराम्बुज-मनोहर-पुष्पयुक्तं शुद्धं जलं सुरभि चूर्ण-समन्वितं च । सौवर्ण-पात्र-विलसत् पदयोर्विशुद्धं पाद्यं गृहाण जगदीश मयाऽर्पितं ते ॥ ५ अर्घ्यम् -- दुर्वायवाक्षत सुगन्धि हिरण्य रत्नं दर्भाम्बुजं त्रिपथगा जल पुष्प युक्तम् । सौवर्ण पात्र रचितं फल युक्तमर्घ्यं त्वं स्वीकुरुष्व मनसार्पितमिन्दुमौलै ॥ ६-आचमनीयम् -- गङ्गाजलैरमृत माधुरतामुपन्नै- रेलालविङ्ग शुभगन्ध मनोभिरामम् । गौरीपते कनकपात्र घृतं मया ते भक्त्यार्पितं सुचिरमाचमनं गृहाण ॥ ७ स्नानम् -- दिव्यदृमेन्धन- समिध्ध - हुताशनाप्तैः शुद्धोदकैः सविमलैश्च समुद्रजैश्च । गौरीपते परिगृहाण यथा सुखेन स्नानम्मयैव विधिना विधिवत् प्रदिष्टम् ॥ ८ पयः स्नानम्-- दिव्योषधि द्रवभवं नवनीतपूर्णं क्षीराब्धिसम्भृत सुधाधिकधामधारम् । स्वर्धेनु सम्भवमपूर्व- सुमिष्ठमेतं स्नानाय शुद्ध मुररीकुरु देवदुग्धम् ॥ ९ दधि स्नानम् -- कर्पूर-कुन्द-कुमुदेन्दु-करावदन्तं मल्लि प्रफुल्ल- कुसुमाकर- कान्ति कान्तम् । स्नानाय शुद्ध रसराज सुकोमलार्चिः स्निग्धं शुभं दधि दयानिधयेऽर्पयामि ॥ १० घृत स्नानम् -- तेजोमयेन तपन द्युतिपावितेन गव्येन भव्य विविधिना परमन्त्रितेन । वह्नौ सृतेन रचयामि रसावृतेन भौमामृते न च घृतेन तवाभिषेकम् ॥ ११ मधु स्नानम् -- नानाविधौषधि लता-रस-सम्भृतान्तं माधुर्यमिष्टममृतं प्रतिमं गुणेन । माणिक्य पात्र सम पूरित भक्ति पूर्ण - मङ्गी कुरुष्व मधु देव महेश शम्भो ॥ १२ शर्करा स्नानम् -- पूरणेक्षुसागर समुद्र भव याऽति निम्ना मुक्ताफलद्रुम- सुधाधिकया महिम्ना । सर्वाङ्ग शोधनविधौ वरया त्रिनेत्र सुस्नाहि सिद्ध वर शर्करया महेश ॥ १३ गन्धोदक स्नानम् -- कङ्कोल कुण्ड्मल दलैल- लवङ्ग मिश्रं जातिफला मध -सुगन्धि समन्वितं च । कर्पूर केसर सुगन्धिभिरिन्दुमौलै स्नानाय शुद्धतरगन्धमिदं गृहाण ॥ १४ उद्वर्तन स्नानम् -- जातिजपा कनक पङ्कज मोगराद्यै- रन्यैश्च काल भव पुष्प समन्विते च । भक्त्या मया सुमनसैव सुवासितं च गौरीपते सुरभि तैलमिदं गृहाण ॥ १५ शुद्धोदक स्नानम् -- श्री जाह्नवी जलमयं सरसं सुधाव- च्चैला लविङ्ग शुभगन्ध मनोभिरामम् ॥ गौरीपते कनकपात्रधृतं मया ते स्नानं गृहाण जगदीश मयाऽर्पितं ते ॥ १६ वस्त्रम् -- कौशेय-वस्त्र युगलं कनकैर्विचित्रं बालार्क कोटि सदृशं च मनोभिरामम् । भक्त्या मयार्पितमिदं परिधाय शम्भो सिंहासने त्वमुपविश्य गृहाण पूजाम् ॥ १७ यज्ञोपवीतम् -- दत्तम्मया सुमनसा वचसा करेण यद् ब्रह्मचर्यसमयं परमं पवित्रम् । यद् धर्मकर्म निलयं परमायुषं च यज्ञोपवीत मुररीकुरु विश्वनाथ ॥ १८ गन्धम्- चन्दनम् -- यद् श्रेष्ठमस्ति मलयाचल चन्दनानां कर्पूर केसर- सुगन्धि-रसेन घृष्टम् । आमोद -मान मनिशं मनसा धृतं च श्री चन्दनं त्व मुररी कुरु दीनबन्धो ॥ १९ अक्षतान् -- श्वेतेरखण्डित-मनोहर शालीबीजैः संक्षालितैः शुचिजलैश्च सुगन्धिमिश्रैः । त्वामर्चयामि भगवन् मनसा महेशं गौरीपते मयि निधेहि कृपाकटाक्ष ॥ -२० पुष्पम् -- पुन्नाग जाति बकुलाब्ज रसाल पुष्पै- र्बिल्व प्रवालैस्तुलसी समन्वितैः । श्री पारिजातादि- समुद् भवैश्च करोमि पूजां भगवन् गृहाण ॥ २१ पुष्पमाला-- सेवन्तिका- बकुल चम्पक पाटलाब्जैः पुन्नाग जाति-करवीर- रसाल पुष्पैः । बिल्व प्रवाल-तुलसीदल-मालतीभि स्त्वां पूजयामि जगदीश्वर मे प्रसीद ॥ २२ परिमल सौभाग्य द्रव्य -- श्वेताबिरेण सहितं शुभ रक्त चूर्णं सिन्दूरचूर्ण विपुलान्वित पीतचूर्णम् । कर्पूर केसर सुगन्धि सुवासितं च सौभाग्यचूर्ण मुररीकुरु दीनबन्धो ॥ २३ धूपम् -- कालागरोश्च घृतमिश्रित गुग्गुलस्य धूपो मया विरचितो भवतः पुरस्तात् । आघ्रायतां शुचि मनोहर गन्ध पूर्णं तूर्णं विनाशय महेश्वर मोहजालम् ॥ २४ दीपम् -- पूर्णे घृतेन गिरिजेश सुवर्णपात्रे कौसुम्भ सूत्र- द्रढ वर्ति विराजमानः ॥ दीपः पुरस्तव मया रचितो य एष शीघ्रं विनाशयतु मे दुरितान्धकारम् ॥ २५ नैवेद्यम् -- जिह्वा सुधा-कनकपात्र विराजमानं मन्त्रादिकं मधुर शाक-फलावलीढम् । पञ्चामृत प्लुतमनेकविधं रसौघं सङ्कल्पितं त्व मुररीकुरु दीनबन्धो ॥ २६- मुखशुद्ध्यर्थे फलं कलिङ्ग कोशातक संयुतानि जम्बीर नारिङ्ग- समन्वितानि । सुनारिकेलानि च दाडिमानि फलानि ते देव समर्पयामि ॥ २७ मुखवासार्थे ताबूलम् -- पूगैः स चूर्ण खदीरैर्नवजाति पत्रै- र्जातिफलादिक लविङ्ग समन्वितैश्च । ताम्बूल वीटकमिदं मनसा धृतं यत् तत् स्वीकुरु प्रमथनाथ महेश शम्भो ॥ २८ दक्षिणा -- विभावसोर्बीजमिदं हिरण्यद्रव्यं दिव्यं प्रकाशं विधिगर्भ संस्थम् । गृहाण भूताधिपते महेश मुद्रार्पणं वै मनसार्पितं ते ॥ २९ प्रदक्षिणाम् -- पदे पदे या परिपूजकेभ्यः सद्योश्वमेधादि फलं ददाति । तां सर्व पापक्षय हेतुभूतां, प्रदक्षिणां मे परितः करोमि ॥ ३० मन्त्र पुष्पाञ्जलिम् -- चरणकमल युग्मं पङ्कजैः पूजयित्वा कनककमलमालां कण्ठदेशेऽर्पयित्वा । शिरसि विनिहितोयं मन्त्रपुष्पाञ्जलिस्ते हृदयकमलमध्ये देव हर्षं तनोतु ॥ ३१ नमस्कारः -- शान्तं पद्मासनस्थं शशिधरमुकुटं पञ्चवक्त्रं त्रिनेत्रं शूलं वज्रं च खड्गं परशुमभयदं दक्षिणाङ्गे वहन्तम् । नागं पाशं च घण्टां डमरुकसहितं चाङ्कुशं वामभागे नानालङ्कारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ पीठं यस्याः धरित्री जलधरकलशा लिङ्गमाकाशमूर्तिः नक्षत्रं पुष्पमाला ग्रहगणकुसुमं नेत्रचन्द्रार्कवह्निः । कुक्षौ सप्तसमुद्रं भुजगिरिशिखरं सप्तपातालपादं वेदं वक्त्रं षडङ्गं दशदिशिवसनं दिव्यलिङ्गं नमामि ॥ पाताले चान्तरिक्षे दशदिशिवदने सर्वशैले समुद्रे । भस्मे काष्ठे च लोष्ठे क्षिति जलपवने स्थावरे जङ्गमेवा ॥ बीजे सर्वौषधिनां असुरसुरपतौ पुष्पपत्रे तृणाग्रे । एको व्यापी शिवोऽहमिति वदति हरिर्नास्ति देवो द्वितीयः ॥ कण्ठे यस्य विराजते हि गरलं शीर्षै च मन्दाकिनी वामाङ्के गिरिजाननं कटितटे शार्दूलचर्माम्बरम् । माया यस्य रुणाद्धि विश्वमखिलं तस्मै नमः शम्भवे जम्बुवज्जलबिन्दुवज्जलजवज्जम्बालवज्जालवत् ॥ शिवं शान्तं शुद्धं प्रकटमकलङ्कं श्रुतितनुं महेशानं शम्भुं सकलसुरसंसेव्यचरणम् । गिरीशं गौरीशं भवभयहरं निष्कलमजं महादेवं वन्दे प्रणत जनतापोपशमनम् ॥ गिरीशं गणेशं गले नीलवर्णं गजेन्द्राधिरूढं गुणातीतरूपम् । भवं भास्वरं भस्मना भूषिताङ्गं भवानी कलत्रं भजे पञ्चवक्त्रम् ॥ ३२ क्षमापना -- करचरणकृतं वाक्कायजं कर्मजं वा श्रवणनयनजं वा मानसं वाऽपराधम् । विहितमविहितं वा सर्वमेतत् क्षमस्व जय जय करुणाब्धे श्रीमहादेव शम्भो ॥ Proofread by Sunder Hattangadi
% Text title            : Shiva Puja with 32 parts
% File name             : shivadvAtriMshopachArapUjana.itx
% itxtitle              : shivadvAtriMshopachArapUjana
% engtitle              : shivadvAtriMshopachArapUjana
% Category              : shiva, pUjA
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : svara
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sunder Hattangadi
% Latest update         : August 4, 2019
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org