शिवज्ञानबोधः

शिवज्ञानबोधः

स्त्रीपुंनपुंसकादित्वाज्जगतः कार्यदर्शनात् । अस्ति कर्ता स हृत्वैतत्सृजत्यस्मात्प्रभुर्हरः ॥ १॥ (जगतः कर्तास्ति कार्यदर्शनात् स्त्रीपुंनपुंसजादित्वात् स एतत् हृत्वा पुनः सृजति अस्मात् हरः प्रभुः ।) अन्यः सन्व्याप्तितोऽनन्यः कर्ता कर्मानुसारतः । करोति संसृतिं पुंसामाज्ञया समवेतया ॥ २॥ नेतितो ममतोद्रेकादक्षोपरतिबोधतः । स्वापे निर्भोगतो बोधे बोद्धृत्वादस्त्यणुस्तनौ ॥ ३॥ आत्मान्तःकरणादन्योऽप्यन्वितो मन्त्रिभूपवत् । अवस्थापञ्चकस्थोऽतो मलरुद्धस्वदृक्क्रियः ॥ ४॥ विदन्त्यक्षाणि पुंसाऽर्थान्न स्वयं सोऽपि शम्भुना । तद्विकारी शिवश्वेन्न कान्तोऽयोवत्स तं नयेत् ॥ ५॥ अदृश्यं चेदसद्भावो दृश्यं चेज्जडिमा भवेत् । शम्भोस्तद्व्यतिरेकेण ज्ञेयं रूपं विदुर्बुधाः ॥ ६॥ नाचिच्चित्सन्निधौ किं तु न वित्तस्ते उभे सिथः । प्रपञ्चशिवयोर्वेत्ता यः स आत्मा तयोः पृथक् ॥ ७॥ स्थित्वा सहेन्द्रियव्याधैस्त्वां न वेत्सीति बोधितः । मुक्त्वौतान्गुरुणाऽनन्यो धन्यः प्राप्नोति तत्पदम् ॥ ८॥ चिद्दृशात्मनि दृष्ट्वेशं त्यक्त्वा वृत्तिमरीचिकाम् । लब्ध्वा शिवपदच्छायां ध्यायेत्पञ्चाक्षरीं सुधीः ॥ ९॥ शिवेनैक्यं गतः सिद्धस्तदधीनस्ववृत्तिकः । मलमायाद्यसंस्पृष्टो भवति स्वानुभूतिमान् ॥ १०॥ दृशोर्दर्शयिता चात्मा तस्य दर्शयिता शिवः । तस्मात्तस्मिन्परां भक्तिं कुर्यादात्मोपकारके ॥ ११॥ मुक्त्यै प्राप्य सतस्तेषां भजेद्वेषं शिवालयम् । एवं विद्याच्छिवज्ञानबोधे शैवार्थनिर्णयम् ॥ १२॥ इति श्रीमद् शिवाग्र योगी विरचितः शिवज्ञानबोधः सम्पूर्णः । Encoded and proofread by Vani V
% Text title            : Shiva Jnanabodhah
% File name             : shivajnAnabdhaH.itx
% itxtitle              : shivajnAnabdhaH (shivAgra yogI virachitaH)
% engtitle              : shivajnAnabdhaH
% Category              : shiva
% Location              : doc_shiva
% Sublocation           : shiva
% Author                : shivAgra yogI
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vani V
% Proofread by          : Vani V
% Indexextra            : (Tamil)
% Latest update         : January 31, 2022
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org