देवान्प्रति देविप्रोक्तं शिवज्ञानोपदेशम् १
देवाः -
त्वया सम्मोहितास्सर्वे न जानीमो महेश्वरम् ।
सर्वदेवसमं ज्ञात्वा कारणानां च कारणम् ॥ २४॥
पतीनां पतिमीशानं चेतनानां च चेतनम् ।
तस्यैव विरहात्सर्वे तृणमेतत्पुरोगतम् ॥ २५॥
जगत्सृष्ट्यन्तकार्येषु स्फीतावपि महेश्वरि ।
किञ्चित्कर्तुमनीशाहि त्वां प्रपन्नास्सदाम्बिके ॥ २६॥
नमस्तेऽस्तु जगन्मातः प्रसन्ना भव नस्सदा ।
त्वयावृतमिदं सर्वं त्वया सम्पाल्यते जगत् ॥ २७॥
त्वय्येवान्ते लयं याति सदेवासुरमानुषम् ।
त्वं शक्तिः परमा देवी महेशार्धाङ्गभागिनी ॥ २८॥
त्वत्प्रसादेन सर्वेषां मोहनाशो भवेच्छिवे ।
सर्वत्र रूढा शक्तिस्त्वं माया मायी महेश्वरः ॥ २९॥
त्वां प्रपन्ना वयंसर्वे मोहितास्तवमायया ।
इत्युक्त्वा ब्रह्मविष्ण्वाद्याः प्रणम्य भुवि दण्डवत् ॥ ३०॥
अथोत्थाय नभोमध्यं ददृशुस्सर्व एव ते ।
नीलतोयदमध्यस्थविद्युल्लेखेवभासुराम् ॥ ३१॥
निष्टप्तकनकाभासां सर्वाभरणभूषिताम् ।
बालेन्दुबद्धमुकुटां सोमधामसमाननाम् ॥ ३२॥
नीलेन्दीवरनेत्रान्तां पवित्राकृतिसुन्दराम् ।
दृष्ट्वा पुनः प्रणम्येशीं रक्ष रक्षेति चाब्रुवन् ॥ ३३॥
- -
देवानां वचनं श्रुत्वा ह्युमोवाच सुरांस्तदा ।
प्रगल्भधीरमधुरं देवाज्ञानविनाशनम् ॥ ३४॥
- -
देव्युवाच -
एष ब्रह्मैष आत्मा प्रणवपदगतो मातृमात्रादिहीनो
मायी मायात्वहं वै शक्तिरस्मीह देवाः ।
सर्वेशश्शक्तिमांश्च प्रकृतिपरवशो विश्वमेतद्विचित्रं
विश्वोद्भूताभवन्तस्सकलभवहरं तम्भजध्वं महेशम् ॥ ३५॥
यतो वै हरिब्रह्मरुद्रेन्द्रपूर्वं प्रजातास्थ यस्मिंस्थिता एव नूनम् ।
भवद्भिस्ततं लोकजालं किलेदं प्रपद्यध्वमीशं भजध्वं महेशम् ॥ ३६॥
शक्तिस्त्वहं यस्य जगत्समग्रं करोमि लीलामिषतां भवद्भिः ।
भवप्रसादेन भवैकमोचनं ममैव शक्तिं शरणं प्रयात ॥ ३७॥
न तस्य कार्यं करणं शिवस्य सनातनो नित्यशुद्धः पुराणः ।
यन्मायया मोहितास्थ प्रजेशास्तस्यैवेतद्विरहात्सर्वमेवम् ॥ ३८॥
व्यर्थं भूयात्तार्णकस्योपमानात्सर्वे देवा रुद्रमीशानमारात् ।
द्रुतं तमिष्टं गगनान्तरस्थं सर्वेन्द्रियेणोपरतं भजध्वम् ॥ ३९॥
स्कन्दः -
इत्युक्त्वा सा जगन्माता तिरोधत्त सुरान्प्रति ।
देवा देव्युदितं श्रुत्वा सर्वे प्राञ्जलयस्तदा ॥ ४०॥
विभूतिभूषितैर्गात्रैस्त्रिपुण्ड्रपरिशोभिताः ।
कृत्वा व्रतं पाशुपतं कृतलिङ्गार्चनास्सुराः ॥ ४१॥
रुद्राध्यायजपेनैव पञ्चाक्षरपरास्सदा ।
पञ्चास्यध्यानसंसक्तास्संवत्सरमतन्द्रिताः ॥ ४२॥
अदृष्ट्वैव महादेवं जगतां जननीमपि ।
ऊर्ध्वबाहव ईशानं तुष्टुवुः परमेश्वरम् ॥ ४३॥
भक्त्या त्वनन्यया देवाः प्रबद्धकरसम्पुटाः ।
रौद्रैरृक्सामसम्भूतैस्तथाधर्वशिरोगतैः ॥ ४४॥
देव्युवाच -
प्रणवप्रवणेषु ते कृपाणा भीतिविनास्य सुकृतैकरमार्णवेषु ।
निर्वाणकारणभवार्णवकर्णधारत्वद्वाच्यशब्दमभिधातृगणाश्श्रयामः ॥ ४५॥
त्वामग्निमीळ इति मौलिऋचाभिधत्ते वेदोदितस्तदितरस्त्विषमूर्जमाह ।
त्वामन्धसाम्पतिमनुत्तममीशितारं साम्नादिमेऽप्यवनहेतुमथाग्निमाह ॥ ४६॥
त्वां शम्भुवञ्जलमयं तनुवं तवेश साक्षादधर्वणगिरा प्रकटाष्टमूर्ते ।
नीरूपवर्णकथने तव ते निवृत्ता वेदाश्चतस्त्रकमहाशिखशाखभेदाः ॥ ४७॥
वाचा मनस्त्वतिगतं भगवन्तमेव भक्त्या तवाष्टगणितैस्तनुभिस्स्तुवन्ति ॥ ४८॥
॥ इति शिवरहस्यान्तर्गते माहेश्वराख्ये देवान्प्रति देविप्रोक्तं शिवज्ञानोपदेशम् १॥
- ॥ श्रीशिवरहस्यम् । माहेश्वराख्यः प्रथमांशः । अध्यायः ५३ - देवकृतदेवीस्तुतिः । २४-४८॥
- .. shrIshivarahasyam . mAheshvarAkhyaH prathamAMshaH . adhyAyaH 53 - devakRRitadevIstutiH . 24-48..
Notes:
Deva-s देवाः eulogize Devī देवी; and upon being beseeched by them, She obliges them with Śivajñānam शिवज्ञानम् that they sought.
Encoded and proofread by Ruma Dewan