शिवक्षेत्राणिवर्णनम्
ईश्वरः -
सप्तजन्मकृतैः पापैस्तरक्षणादेव मुच्यते ।
भूम्यामेतन्नासिकाख्यं क्षेत्रमासीन्मनोरमे ॥ १७॥
तस्मान्नासात्र्यम्बकाख्यं वर्णयन्ति पुराविदः । (तस्मान्नासां त्र्यम्बकाख्यां)
अविमुक्तं च भूस्थानं हालास्यं द्वादशान्तकम् ॥ १८॥
श्रीशैलोज्जयिनी देवि नेत्रे मम मनोरमे ।
ओङ्कारः कण्ठममलं श्रवणे कुण्डलीश्वरम् ॥ १९॥
केदारं चैव कल्याणि अन्यान्यङ्गानि सत्तमे ।
भूमण्डलगतानीह शिवक्षेत्राणि शङ्करि ॥ २०॥
द्विसप्ततिसहस्राणि नाडीजातं ममाङ्गने ।
श्रीमच्चिदम्बरं देवि हृद्यं यन्मम सद्म तत् ॥ २१॥
तत्राहं सर्वदा देवि निवसामि स्वरूपतः ।
त्वया च गणपैः सार्धं स्कन्दविघ्नेश्वरेण च ॥ २२॥
चिदम्बरमिति प्रोक्तं वेदवेदान्तसंस्तुतम् ।
मां सर्वे तत्र नृत्यन्तं वर्णयन्ति मुनीश्वराः ॥ २३॥
॥ इति शिवरहस्यान्तर्गते शिवगौरीसंवादे शिवक्षेत्राणिवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः २२॥
- .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 22..
Notes:
Shiva outlines to Gauri; various Shiva Kshetra-s that also include the Jyotirlinga-s, as parts of His body - of which Chidambaram is like His Heart.
The shloka numbers are maintained per the source text.
Proofread by Ruma Dewan