शिवक्षेत्रेषु सुन्दरकृता शिवशिवास्तुतयः
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
सुन्दरः उवाच ।
(काञ्चीक्षेत्रे कम्पातटे)
हे कामनाशन हिरण्मयदर्शनाङ्ग
हे व्योमकेश गरलाशन कालकाल ।
हे शाश्वताव्यय विभो मुदिराभकण्ठ
त्वत्सत्प्रभा मम हृदि प्रसरत्ववश्यम् ॥ १४॥
शम्भो रसालवरमूलग कालकाल
हालाहलोत्तमगलामल हस्तशूल ।
भालानलज्वलितकामसुदेहतूल
व्यालोरुमाल परिपाहि जगत्सुमूल ॥ २१॥
देवि त्वं गिरिराजसागर कुलोत्तुङ्गोद चन्द्रोज्ज्वले
(देवि त्वं गिरिराजराजसुकुलोत्तुङ्गाब्धिचन्द्रोज्ज्वले)
नीलेन्दीवरलोचनोरुयुगले नीलालकालङ्कृते ।
पूर्णेन्दुद्युतिकान्तिराजितमुखे बिम्बाधरे कुन्दज-
भ्राजत्कोरकदन्तपङ्क्तिमधुरे कामाक्षि तुभ्यं नमः ॥ २३॥
त्वं मत्तेभमराळराजगमने मत्तेभकुम्भाभजि-
त्कान्तोतुङ्गकुचद्वयीपरियुते व्यालाभवेणीस्फुर-
द्रत्नभ्राजितपद्मपुष्प विलसन्नासालसन्मौक्तिके
मञ्जीरद्वयपादपद्मजरणत्पद्माभपादद्वये ॥ २४॥
काञ्चीकाञ्चितसत्कटीतटयुते हस्तोल्लसत्कङ्कणे ।
कौसुम्भद्युति चञ्चलाङ्गलतिके कामाक्षि तुभ्यं नमः ॥ २५॥
(वृद्धाचले)
भगणाधिपचूडमौलि शम्भो
उगण त्वां गणवृन्दवन्दिताङ्घ्रिम् ।
अरुणाधिपाधुना पदं ते
शरणं यामि शरण्यमिन्दुमौले ॥ २९॥
वरुणालयपारणानतं ते
पदपद्मं मरणेऽपि ये स्मरन्ति ।
तरुणं च भवेद्भवाम्बुधेः
करुणाशालि कटाक्षवीक्षणं ते ॥ ३०॥
(गोपवर्ते)
विद्युत्पिङ्गजटोत्तमाङ्ग सुमहामातङ्गचर्माम्बर
गङ्गातुङ्गतरङ्गसङ्गम महालिङ्गाङ्गसंस्थ प्रभो ।
उक्षाङ्गस्थित कामिनीविलसितस्वार्धाङ्ग कौरङ्गसं-
ल्लक्ष्मालङ्कृतमौलिवीक्षणभवत्पातङ्गनङ्गागते
पादाब्ज दृगपाङ्गतोऽद्यकलये मोक्षश्रिया सङ्गतम् ॥ ३४॥
(पुण्डरीकपुरे)
त्वमङ्घ्रिपाणां पतिरिन्दुमौले
गिरीश इत्येव श्रुतेर्गिरेडितः ।
क्व ते स्तुतिर्वाङ्मनसामगोचरा
न मेऽनुभाव्या पदवीमथाणु ॥ ३७॥
(अभ्रसभान्तरे)
शम्भो बालेन्दुचूडद्युतिविजितदिशास्तोमसीमानुरागं
फुल्लोल्लेखमुखान्तभागकुमुदां स्तोमाविभूमानि ते ।
सामस्तोमगुणभिरामनितरां श्रीवामदेव प्रभो
कामाङ्गोत्थितभस्म रञ्जिततनो मां पाहि साम्ब प्रभो ॥ ५१॥
कालव्यालमुखानलोद्धत महाज्वालादिदग्धं जगत्
त्वत्सोमाञ्चितलोचनेन नितरां पुष्प्येत तुष्येत च ।
पुष्प्यत्त्वत्पदपद्मसंयुतमहामञ्जीर शिञ्जद्ध्वनो
दूरीकर्तुमलं महाधजनितं सन्तापवृन्दं हर ॥ ५२॥
मन्दारवृन्दमकुटीतटपादपद्म-
निर्यन्मरन्दरसलग्नमधुव्रतोऽयम् ।
नान्यं हृदेच्छति सुरान्तरसंविलग्नं
भुग्नं सदा भजति ते पदपद्मलग्नः ॥ ५३॥
संसार सर्पो(घोरो)द्वतसर्पदष्टा
दुष्टा अपि प्रमथनाथ तवेह भावात् ।
शिष्टास्त एव जगति शिपिविष्टनिष्ठा-
निष्ठास्तु ते तनुभृतां स्वत एव धृ(हृ)ष्टाः ॥ ५४॥
कोवा पूजयिता भवेत्कुसुमतो यन्मौलिमूलं हरिः
ब्रह्मा वाप्यनुमीतवांस्तव विभो कस्ते सदृक्षो गुणः ।
कामं मे शिवकामसुन्दरि भृशं सम्पूरयेताम्बिके
मद्भावं विनिवेदयाशु गिरिजे श्रीव्योमकेशाय तु ॥ ५५॥
त्वं माता जगतां जनित्रि स पिता विश्वेश्वरो मेऽधुना
तस्मात्त्वत्पदभक्तिभावमतुलं त्वं देहि विश्वेश्वरि ।
इत्युक्त्वा प्रणनाम शम्भुपदयोः सानन्दवार्धौ सदा
मग्नः शम्भुसलीललास्य विलसल्लोकेऽनुलोकोत्तरम् ॥ ५६॥
॥ इति शिवरहस्यान्तर्गते शिवक्षेत्रेषु सुन्दरकृता शिवशिवास्तुतयः सम्पूर्णाः ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः २१ (चित्)सभादर्शनम् । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 21 (chit)sabhAdarshanam . vAvRRittashlokAH ..
Notes:
Sundara सुन्दर; one of the sixty-three Nāyanāra-s, after being born in Pṛthvīloka पृथ्वीलोक, worships and eulogizes Śiva शिव and Śivā शिवा at the several Śivakṣetra शिवक्षेत्र that had been enlisted for him to be at by Śiva शिव in order to be able to experience Śiva Sānnidhya शिव सान्निध्य.
Proofread by Ruma Dewan