शिवक्षेत्रेषु सुन्दरकृता शिवस्तुतयः
(शिवरहस्यान्तर्गते सदाशिवाख्ये)
सुन्दरः उवाच ।
(कमलालये पञ्चलिङ्गानि)
आनन्देश सुनन्दित त्रिभुवने मन्दारवृन्दानत
पादाब्जोत्थमरन्दसुन्दरमहानन्दाम्बुवीचीस्थितः ।
मच्चित्ताख्यमिलिन्द एव नितरां पातुं तवाद्यादरा-
न्निन्दन्नर्थचतुष्टयं कलयते पुण्येन्दिरायाः पुरे ॥ ५॥
सिद्धेश सिद्धनिगमोत्तममौलिवाचा
मोचासदृक्षवचसा त्वयि विद्धि भावम् ।
मुग्धेन्दुसिद्धसुललामनिजाक्षसोम
मामद्य पाहि भवसिसिद्धिकरो महेश ॥ ७॥
अचलाधिपराजकन्या(यका)
कुचलीलायितवक्षसा विशाल ।
निटिलानलदग्धपुष्पबाण
अचलेशान नमामि ते पदाब्जम् ॥ ९॥
अहिकटकाति पाद देव मौलिकोटी
विलसद्गाङ्गजटोरुजूट पाहि ।
नटनेन निमग्न भूतल
करटित्वक्कृतचेल हाटकेश पाहि ॥ ११॥
चन्द्रापीडकचोरुमौलिमणिभा(सन्दीप्तजूटान्तर-
प्रोद्यद्) गाङ्गतरङ्गसम्भवलसद्रक्तोरुसद्धल्लक ।
तत्रत्योरुसमीरलोलितमहागन्धानुबन्धोद्यत-
दिग्वक्त्राणि परागितानि हि विभो पापापहन्तॄणि ते ॥ १३॥
त्वं शम्भुः काल्मलीकिः श्रुति गदितयशा बिल्मिनीबिल्वपूज्यो
वल्मीकोरुसुमध्यसंस्थित महालिङ्गत्वद(सम)द्राक्षिषम् ।
धन्यस्तेन सुरादिमान्यपदवीं प्राप्तां च मन्ये विभो
को वाऽन्यो हि समुद्दिधीर्षुरिह मां संसारसन्तारणे
(कोऽन्यो मां समुजीर्षुरेव भगवन्संसारसन्तारणे) ॥ १४॥
भव भूतपते भवोद्भवाद्य
विभवं भावुकमेव तेऽनुभवम् ।
भवसन्तरणाय शम्भवे
हर भर्गामल भीम भव्य पाहि ॥ १५॥
भर्गानङ्गविलोपिलोचन विभो गङ्गावतंसोज्ज्वल-
ज्ज्वालाक्षातुल जालकीलितपुरं सङ्कीलितं ते क्षणात् ।
घूर्णन्ती त्रिदशोरुघोरपटलीभूर्णिः दृशा ते विभो
सम्पूर्णं पुनरेव ते हर विभोऽपर्णापते पाहि माम् ॥ १६॥
गङ्गातुङ्गतरङ्ग(सङ्ग) सुमहामौले कुरङ्गाङ्कधृक्
मातङ्गत्वगलङ्कृताङ्ग भुजगाभोगाङ्गसङ्ग प्रभो ।
उक्षाङ्गस्थित दिव्यभस्मलसित गङ्गातरङ्गोल्लस-
त्त्यागाधीशमहोऽगजामुखकृपापाङ्गं भजे शङ्करम् ॥ ३५॥
मातङ्गानङ्गभङ्गं मुररिपुहृदयानन्दसन्दोहदं तं ।
कुन्देन्दुद्युतिरञ्जितं हृदि भजे त्यागाधिपं शङ्करम् ॥ ३६॥
मद्भागधेय नगजार्धकृताङ्गसङ्ग
सारङ्गरञ्जितकरं वरलिङ्गसङ्ग ।
हे नीलकण्ठ हृदये तव पद्मपादं
उल्लासतां हि भगवन् हर त्यागराज ॥ ३७॥
॥ इति शिवरहस्यान्तर्गते शिवक्षेत्रेषु सुन्दरकृता शिवस्तुतयः सम्पूर्णाः ॥
- ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः २३ महेश्वरप्रसादः । वावृत्तश्लोकाः ॥
- .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 23 maheshvaraprasAdaH . vAvRRittashlokAH ..
Notes:
Sundara सुन्दर; one of the sixty-three Nāyanāra-s, after being born in Pṛthvīloka पृथ्वीलोक, worships and eulogizes Śiva शिव at the several Śivakṣetra शिवक्षेत्र that had been enlisted for him to be at by Śiva शिव in order to be able to experience Śiva Sānnidhya शिव सान्निध्य. Among these, at Kamalālaya कमलालय, he prays at the Pañcaliṅgāni पञ्चलिङ्गानि; viz. Ānandeśa आनन्देश, Siddheśa सिद्धेश, Acaleśa अचलेश, Hāṭakeśa हाटकेश and Valmīkeśa वल्मीकेश. He also eulogizes Maheśvara महेश्वर stationed to the right of Valmīkeśa वल्मीकेश.
Proofread by Ruma Dewan