शिवकण्ठस्तुतिः
श्रीगणेशाय नमः ॥
पातु वो नीलकण्ठस्य कण्ठः श्यामाम्बुदोपमः ।
गौरीभुजलता यत्र विद्युल्लेखेव राजते ॥ १॥
पातु वः शितिकण्ठस्य तमालसदृशश्यामलो गलः ।
संसक्तपार्वतीबाहुसुवर्णनिकषोपलः ॥ २॥
कस्तूरेतिलकन्ति भालफलके देव्या मुखाम्भोरुहे
रोलम्बन्ति तमालवालमुकुलोत्तंसन्ति मौलिं प्रति ।
याः कर्णे विकचोत्पलन्ति कुचयोरंसे च कालागुरु-
स्थासन्ति प्रथयन्तु तास्तव शिवं श्रीकण्ठकण्ठत्विषः ॥ ३॥
कस्तूरीयन्ति भाले तदनु नयनयोः कज्जलीयन्ति कर्णप्रान्ते
नीलोत्पलीयन्त्युरसि मरकतालङ्कृतीयन्ति देव्याः ।
रोमालीयन्ति नाभेरुपरि॥॥ मध्ये ॥॥ लिने इञ्चोम्प्लेते।
कल्याणं कुर्युरेते त्रिजगति पुरुजित्कण्ठभासां विलासाः ॥ ४॥
इति शिवकण्ठस्तुतिः समाप्ता ।
Proofread by PSA Easwaran