शिवकेशवेशिपञ्चरत्नस्तोत्रम्
कलासु पूर्णा सकलासु पूर्णा
प्रयोगपूर्णाऽपि च योगपूर्णा ।
वाण्यापगा संस्कृतवर्णपूर्णा
तनोतु नो शं शिवकेशवेशी ॥ १॥
प्रपञ्चसाराऽखिलवेदसारा
सदुक्तिपुष्टाऽप्यसदुक्तिपेष्टा ।
धिया प्रभूताऽऽत्मधिया च पूता
तनोतु नो शं शिवकेशवेशी ॥ २॥
क्रियाविशुद्धा पदवाक्यशुद्धा
रसैः प्रसिद्धोपनिषत्सु श्रद्धा ।
सदा प्रबुद्धा स्वरसन्निबद्धा
तनोतु नो शं शिवकेशवेशी ॥ ३॥
सतां शरण्या स्वजनैर्वरेण्या
नमस्कृता निर्जरराजवेण्या ।
कृतारिलज्जा सुरसंघपूज्या
तनोतु नो शं शिवकेशवेशी ॥ ४॥
लसत्तरङ्गाभिनवा रसाढ्या
स्वसेवकेभ्यो शिवदानदक्षा ।
सतां विरक्त्युन्मुखमुक्तिदात्री
तनोतु नो शं शिवकेशवेशी ॥ ५॥
यो वै पुमान् पूरितभक्तियुक्तः
भजेत् प्रभाते शिवकेशवीं ताम् ।
वाण्यापगानुग्रहपूरितस्य
न तस्य वाणी स्खलिता कदापि ॥ ६॥
(स्तोत्रमिदं संस्कृतभाषापक्षे
गङ्गापक्षे च व्याख्यातुं शक्यते ।)
रव्हना - शङ्करनारायणः आनक्करा ।