शिवकिङ्कराप्रोक्ता शिवलिङ्गस्पर्शमहिमा
(शिवरहस्यान्तर्गते उग्राख्ये)
शिवकिङ्करा ऊचुः
ये समर्चितगौरीशास्ते यान्ति शिवसन्निधिम् ।
येऽनभ्यर्चितगौरीशा निरये तान्निपातय ॥ ३०३॥
अतस्तनुक्षये स्पृष्टं शिवलिङ्गं द्विजोत्तमैः ।
तैरीशकृपया लभ्यं गाणपत्यं न संशयः ॥ ३०४॥
कर्तव्यः शिवलिङ्गस्य स्पर्शः प्राणात्ययक्षणे ।
तेन नश्यन्ति पापानि गाणपत्यं च लभ्यते ॥ ३०७॥
शिवलिङ्गं शिवाकारं यः स्पृशेदन्वहं मुदा ।
तस्य सद्यः प्रणश्यन्ति महापातककोटयः ॥ ३०८॥
दुर्लभः शिवलिङ्गस्य स्पर्शो मुक्तिप्रदायकः ।
शिवलिङ्गाभिसंस्पर्शो भूरिपुण्यतपःफलम् ॥ ३०९॥
शिवलिङ्गस्य माहात्म्यं तत्स्पर्शस्यापि वस्तुतः ।
शङ्करो वेद सर्वज्ञस्तदन्यो न कदाचन ॥ ३१०॥
शिवलिङ्गं शिवाकारं सर्ववेदान्तसंस्तुतम् ।
तदेव परमं पूज्यं ब्राह्मणाद्यैर्मुमुक्षुभिः ॥ ३११॥
ज्ञानमोक्षप्रदं दिव्यं शिवलिङ्गं शिवात्मकम् । ३१२.१
॥ इति शिवरहस्यान्तर्गते शिवकिङ्कराप्रोक्ता शिवलिङ्गस्पर्शमहिमा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । वावृत्तश्लोकाः॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . vAvRRittashlokAH..
Notes:
Śivakiṅkarāḥ शिवकिङ्कराः speak about the merits of Śivaliṅga Sparṣa शिवलिङ्ग स्पर्श.
Proofread by Ruma Dewan