नारदप्रोक्तं शिवलिङ्गार्चनमहिमानुवर्णनम्
प्रभावः शिवलिङ्गानामपारः तस्य वर्णनम् ।
न मया नामरैर्वापि वेदैरपि न शक्यते ॥ ३१॥
शिवलिङ्गप्रभावज्ञः कोऽपि लोकत्रये महान् ।
भविष्यति न वा नास्मन्मनस्तद्वर्णनक्षमम् ॥ ३२॥
न वाचां विषयस्तावल्लिङ्गवर्णनमित्यतः ।
वेदान्तास्तत्र विश्रान्ताः कृतान्तान्तककीर्तनात् ॥ ३३॥
यस्मिन् मतिर्यस्य भवेत् शिवलिङ्गावलोकने ।
स तावद्धन्य एवेति कालोऽयं सुतरामपि ॥ ३४॥
लिङ्गरूपं समासाद्य रमते गिरिजापतिः ।
लिङ्गरूपं प्रियं तस्य लिङ्गं गृह्णाति पूजनम् ॥ ३५॥
लिङ्गं मङ्गलदत्वेन येन ज्ञातं महात्मना ।
स मङ्गलापतिं याति तज्ज्ञानमतिदुर्लभम् ॥ ३६॥
लिङ्ग मङ्गलदं विदुर्मुनिवराः सर्वे सुराः किन्नराः
सिद्धाः किम्पुरुषा गणाश्च विविधाः शेषादयोऽप्यन्वहम् ।
तल्लिङ्गार्चनतत्पराः परमिदं लिङ्गं यतः सर्वदा
सर्वार्थप्रदमित्यवैम्यहमपि प्राग्जन्मपुण्यैर्नृप ॥ ३७॥
लिङ्गानामिदमुत्तमोत्तमतमं लिङ्गेषु तत्पूजया
साक्षात् पूजित एव तेन सदृशं लिङ्गं न भूमण्डले ।
तद्विल्वीनवपल्लवैरनुदिनं येनार्चितं सादरं
भक्त्या तत् सकृदेव वा स हि महान् मान्यो महेशप्रियः ॥ ३८॥
यः प्रातः प्रयतः प्रपश्यति मुहुर्लिङ्गं विभूत्या परं
पूतः सन् प्रणतः स्वतोऽपि परतो मुक्तो भवेत् पातकैः ।
तल्लिङ्गं विमलैर्जलैरभिनवैः बिल्वीदलैरर्चयन्
चर्चामेव न संसृतेः खलु करोत्याकल्पमन्तेऽपि वा ॥ ३९॥
लिङ्गाराधनपुण्यराशिरसकृत् वृद्धः प्रवृद्धः पुनः
संसारार्णवशोषकः खलु महापापौघविध्वंसकः ।
तेनैवामृततामुपैति स पुनः संसारवार्तारसं
न स्वप्नेऽपि स पश्यतीति स महान् लिङ्गार्चको भूपते ॥ ४०॥
लिङ्गार्चकेन सदृशो न महाध्वराणां कर्तापि तस्य तु फलं खलु तुल्यमेव ।
स्वर्गात्मकं शिवपदाम्बुजपूजकस्य तत्तावदिष्टमपि नेति वदन्ति सिद्धाः ॥ ४१॥
यो रम्भापरिरम्भणेऽपि शुनकीतुङ्गाङ्गसङ्गेऽपि वा
तुल्यत्वं मनुते शिवार्चनपरः स स्वर्गवाञ्छां कथम् ।
कर्तुं वा यतते विरक्तमनसां तत्राप्यपेक्षा कथं
मोक्षेच्छा परमस्ति तस्य सततं लिङ्गार्चकस्य ध्रुवम् ॥ ४२॥
लिङ्गाराधनमेव साधुमनसां तावद्धनं तद्धनं
सर्वेषां समपेक्षितं यदि भवेत् मुक्तोऽपि सर्वस्ततः ।
तस्मात् कस्यचिदेव भूरितपसां पुञ्जस्य तत्साधनं
तत्तावद्धनमक्षयं निधिमपेक्ष्यैवार्जितं सज्जनैः ॥ ४३॥
॥ इति शिवरहस्यान्तर्गते नारदप्रोक्तं शिवलिङ्गार्चनमहिमानुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः १०। ३१-४३ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 10. 31-43 ..
Notes:
Nārada नारद narrates to Magadharāja मगधराज, the merits of conducting worship of Śivaliṅga शिवलिङ्ग.
Proofread by Ruma Dewan