शुकयमसंवादे शिवलिङ्गार्चनमहिमवर्णनम्
अपारपुण्यनिधयो येन पुण्यैः समार्जिताः ।
तस्यैव तावद्विश्वासः शिवलिङ्गार्चने यम ॥ १॥
कल्पावसानपर्यन्तं धर्मैश्चेत् दिनयापनम् ।
तदा कथश्चिद्विश्वासो जायते शङ्करार्चने ॥ २॥
सुलभं पुण्यपुञ्जानां श्रीमृत्युञ्जयपूजनम् ।
अन्येषां दुर्लभं तावत् तदेव शिवपूजनम् ॥ ३॥
सुमेरुशिखरस्थानां चन्द्रेण सह संस्थितिः ।
पातालवासिनां सा तु दुलेभा स्यात् तथा खलु ॥ ४॥
अतः शिवाराधनेऽपि विघ्नाः सम्भावितास्ततः ।
तत्कार्यमप्रमादेन प्रमादे कुगतिर्भवेत् ॥ ५॥
अशाङ्करागारनारीनरनीरावलोकने ।
निमील्य लोचने पश्चात् कुर्यात् सूर्यविलोकनम् ॥ ६॥
अशाङ्करशरीराणि दृष्ट्वा नारकिणामिति ।
दृष्ट्वा भानुं विशिष्टश्चेत् दूरं भात्यपि धावति ॥ ७॥
शिवनेत्रत्वबुद्ध्येव कर्तव्यं भानुदर्शनम् ।
अन्यथा धीर्यदि ददा पुनर्नरकमश्नुते ॥ ८॥
ततः परं भस्मनाङ्ग सम्यगुद्धूल्य सादरम् ।
हरलिङ्गार्चनं कार्य कृत्वा मुक्तो भवेदघैः ॥ ९॥
उद्धूलितं भस्मनाङ्गं नवमेवोपजायते ।
भस्म पापशरीराणां भस्मीकरणसाधनम् ॥ १०॥
तत्पुण्यपरिपाकेन भस्माङ्ग उपयास्यति ।
तस्मादुद्धूलनेनान्यत् नवाङ्गमुपजायते ॥ ११॥
प्रविष्टा रोमकूपेषु शरीरस्थेषु कोटिशः ।
लिङ्गानि जनयत्येव तदन्ते भूतिमुत्तमाम् ॥ १२॥
मन्ये लिङ्गमयं कायं विभूत्युदधूलनान्मम ।
तदङ्गं चरलिङ्गं स्यादुत्तङ्गं चेतनाश्रयम् ॥ १३॥
अचेतनानि लिङ्गानि काश्मीरादीनि कोटिशः ।
सन्ति तत्पूजने तावत् न तावत् फलमश्नुते ॥ १४॥
प्रत्यक्षेण विरूपाक्षशाम्भवाकारमाश्रितः ।
गृह्णाति फलमन्नं वा नीरं वा पुष्पमेव वा ॥ १५॥
लिङ्गार्चकस्य महिमा तस्य लिङ्गार्चनस्य वा ।
वेदः कथञ्चिज्जानाति न विजानाति वा यमः ॥ १६॥
शाङ्कराग्रेसरस्याङ्गं विभूतिपरिवेष्टितम् ।
दृष्ट्वा भूतपतिस्तावत् नृत्यत्यम्बिकया सह ॥ १७॥
अभूतपूर्वमेवेदं चररिङ्गमिति शश्रुतम् ।
शैवाङ्गमुत्तमाङ्गं तु तस्य लिङ्गमनुत्तमम् ॥ १८॥
बहुद्वयप्रसारेण लिङ्गाकारतया परम् ।
उत्तमाङ्गं दृश्यमानं तस्य लिङ्गमिति स्मृतम् ॥ १९॥
अर्पितं चरलिङ्गेषु साक्षाद्भुक्तं महेश्वरः ।
ततः स्थावरलिङ्गेषु न तथा शिव सन्निधिः ॥ २०॥
रत्नलिङ्गं श्रुतिप्रोक्तं रत्नं शाम्भवपुङ्गवः ।
अतस्तदात्मकं लिङ्ग लिङ्गोत्तममिति स्मृतम् ॥ २१॥
यस्य शाम्भवलिङ्गेषु न भक्तिरुपजायते ।
तेन स्थावरलिङ्गेषु पूजा कार्या प्रयत्नतः ॥ २२॥
स्थावरस्यापि लिङ्गस्य पूजां कृत्वा ततः परम् ।
तदर्पितोपहारेण कर्तव्य हारतोषणम् ॥ २३॥
भुङ्क्ते हारमुखं प्राप्य सदारो हर इत्यपि ।
श्रुतिः श्रुता ततो हारं हारा हारोदरं विदुः ॥ २४॥
हारमाहारमास्वाद्य हारोऽपि हरतामियात् ।
ततो हारो हरः साक्षात् तदा हारोदरं च सः ॥ २५॥
येषां न हाररूपेण लिङ्गेषु न दृढा मतिः ।
तेनार्चनीयं तल्लिङ्गं स्थावरं गिरिगह्वरे ॥ २६॥
हारान्तःकरणाकारगुहामाश्रित्य शङ्करः ।
तिष्ठतीत्यवगन्तव्यं सा गुहा वेदबोधिता ॥ २७॥
तस्यां गुहायां संविष्टमम्बिकारमणं प्रभुम् ।
स्मृत्वा हर्षाश्रुधाराभिः धीरो हारोऽमृतो भवेत् ॥ २८॥
यथाधिकारं लिङ्गार्चां कृत्वा पापैर्विमुच्यते ।
यथाविभवमेतस्य पूजा कार्या विशेषतः ॥ २९॥
शिव एव यदा इष्टः चिदानन्दघनस्तदा ।
तदर्चनपरो भूयात् न लिङ्गार्चनतत्परः ॥ ३०॥
शिवसन्निधिरित्येव लिङ्गपूजा विधीयते ।
स चेत् सन्निहितः साक्षात् कार्यं तस्यैव पूजनम् ॥ ३१॥
अतः प्रकृतपापस्य नाशायापि प्रयत्नतः ।
शिवलिङ्गार्चनं कार्यं तन्नाशस्तेन जायते ॥ ३२॥
पापदावानलस्यायं शिवलिङ्गार्चनाम्बुदः ।
विनाशको भवत्येव सभाग्यानां भवेत्खलुः ॥ ३३॥
अतः परं कालकालपूजया कालयापनम् ।
कर्तव्यं कालनिलयं कालकालं स्मरन् व्रज ॥ ३४॥
-इत्युक्तं तद्वचः शृत्वा तत्कृतं लिङ्गपूजनम् ।
तत्साधनानि दृष्ट्वापि यमः प्राह शुकं प्रति ॥ ३५॥ -
-धन्योऽसि भाग्यवानेकः भवान् लोके शुकाधुना ।
सर्वलोकोपकाराय शिवपूजा तवेदृशी ॥ ३६॥ -
शिवपूजासाधनानां साधनं तपसां फलम् ।
एतावतैव तपसा सर्वेषां कृतकृत्यता ॥ ३७॥
त्वया जन्मार्जितानन्ततपोरूपेण केवलम् ।
लिङ्गार्चनं कृतमिदं सर्वसाधनलिद्विदम् ॥ ३८॥
लोचनानां फलमिदं शिवलिङ्गविलोकनम् ।
अर्चितस्यास्य लिङ्गस्य दर्शनं तु विशेषतः ॥ ३९॥
शिवाराधनसामग्री दृष्टा सेयं मुहुर्मुहुः ।
तनोति परमानन्दं सेयमत्यद्भुता खलु ॥ ४०॥
न शिवार्चनसामग्रीप्रभावस्यापि वर्णनम् ।
अपाररसनाभिर्वा शक्यते कर्तुमेकदा ॥। ४१॥
कल्पिता रचना सेयं त्वया शङ्करमन्दिरे ।
अपारतपसामेव रचना फलमश्नुते ॥ ४२॥
जन्म ते सफलं माता धन्या धन्यः पिता तव ।
शाम्भवस्य त्वया सङ्गात् धन्य मामपि मन्महे ॥ ४३॥
भुवनेषु न कुत्रापि दृष्टः शाम्भपुङ्गवः ।
एतादृशः शिवरतो दुलभः खलु सर्वदा ॥ ४४॥
धन्यं नेत्रयुगं धन्यं धन्यं मम करद्वयम् ।
शिवपूजनमामग्रीकरणालोकनादरात् ॥ ४५॥
एतादृशमहादेवपूजया परयाऽनया ।
फलं शङ्करपादाब्ज मकरन्दतया मतम् ॥ ४६॥
॥ इति शिवरहस्यान्तर्गते शुकयमसंवादे शिवलिङ्गार्चनविधानवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः १७। २८-११४ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 17. 28-114 ..
Proofread by Ruma Dewan