शिवलिङ्गार्चनफलम्

शिवलिङ्गार्चनफलम्

(शिवरहस्यान्तर्गते महादेवाख्ये) - शिवगौरीसंवादे - ईश्वर उवाच । का विवक्षास्ति ते सुभ्रु निःशङ्कं मे वदाग्रतः ॥ ३२॥ त्वं मे शक्तिः परा देवी त्वयाहं शक्तिमान् शिवे । त्वत्तेजसा जगद्व्याप्तं सदेवासुरमानुषम् ॥ ३३॥ रहस्यं वा प्रकाशं वा वदामि प्रमुदे त्वयि । त्वं मे शरीराधिकृता वद मे तं हृदि स्थितम् ॥ ३४॥ कुमार उवाच । इति शम्भोर्वचः श्रुत्वा गिरिजा हर्षनिर्भरा । समुह्यदश्रुपुलका प्राह कामारिमीश्वरी ॥ ३५॥ गिरिजा उवाच । देव देव महादेव शरणागतवत्सल । स्वानन्दराशिवाराशे कृपाराशे महेश्वर ॥ ३६॥ शिवार्चनविधानं मे कालतिथ्यृक्षके तव । लिङ्गेऽभिषेकसम्भारः फलपञ्चामृतैः कृतः ॥ ३७॥ पुष्पधूपादि दाने च दीपनैवेद्यकल्पनैः । धातुपात्रे तारतम्यमर्घ्यताम्बूलकल्पनम् ॥ ३८॥ तत्फले तारतम्यं च वद मे करुणार्णव । सूत उवाच । इत्यपर्णावचः श्रुत्वा सम्पूर्णहृदयः शिवः ॥ ३९॥ प्राह प्रमोदभरितः दृष्ट्वा तामद्रिकन्यकाम् । महादेवो महानन्दः परानन्दमहोदधिः ॥ ४०॥ ईश्वर उवाच । अये सुगिरिकन्यके तव सरोजराजाननं विलोक्य मुदमादितः प्रभृति पारसारं गतः । अनन्तमहिमास्पदं शिवरहस्यरत्नाकरं सुगोप्यमपि तद्वदे(?) शिवगणेषु तुष्टिप्रदम् ॥ ४१॥ प्रकाश्यमिदमेव ते मम हृदि प्रकृष्टं चिरं प्रतुष्टिदमिदं शिवे विहितसर्वधर्मैरपि । न यागशतकोटिभिर्विविधदानकोट्यापि वा तुरङ्गगजगोद्मैद्विजवरेषु दत्तैश्च किम् ॥ ४२॥ भक्तो मे यदि लिङ्ग तुङ्गविहितानङ्गाङ्गसङ्गोज्झितो गङ्गातुङ्गतरङ्गचञ्चलमना गङ्गतरङ्गाप्लुतः । भूयाद्भावुकभक्तिभावहृदयो भावो भवेऽप्यध्रुवे लिङ्गार्चासु निषक्तमुग्धहृदयो व्यक्तं स मुक्तिं गतः ॥ ४३॥ ॥ इति शिवरहस्यान्तर्गते शिवलिङ्गार्चनफलं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । महादेवाख्यः एकादशमांशः । अध्यायः १ । ३२-४३॥ - .. shrIshivarahasyam . mahAdevAkhyaH ekAdashamAMshaH . adhyAyaH 1 . 32-43.. Proofread by Ruma Dewan
% Text title            : Shivalingarchanaphalam
% File name             : shivalingArchanaphalam.itx
% itxtitle              : shivaliNgArchanaphalam (shivarahasyAntargatam)
% engtitle              : shivalingArchanaphalam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | mahAdevAkhyaH ekAdashamAMshaH | adhyAyaH 1 | 32-43||
% Indexextra            : (Scan)
% Latest update         : October 29, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org