शिवलिङ्गार्चने शिवस्तुतिः
(शिवरहस्यान्तर्गते ईश्वराख्ये)
अथ शिवध्यानम्
मूले कल्पद्रुमस्य द्रुतकनकनिभं हेमसिह्मासनस्थं
वामाङ्कारूढगौरीनिबिडकुचभराभोगगाढोपगूढम् ।
सर्वालङ्कारदीप्तं वरपरशुमृगाभीतिहस्तं त्रिणेत्रं
वन्दे चन्द्रार्धचूडं गुहगणपशिवाश्लिष्टपार्श्वं महेशम् ॥ १८-१९॥
अथ शिवस्तुतिः
नमो नाथात्मने तुभ्यं नमो बिन्दुकलात्मने ॥ ५३॥
अलिङ्गलिङ्गरूपाय रूपातीताय ते नमः ।
त्वं माता सर्वलोकानां त्वमेव जगतां पिता ॥ ५४॥
त्वं भ्राता त्वं सुहन्मित्रं त्वमेव प्रपितामहः ।
नमः सद्याय देवाय नमस्तत्पुरुषाय च ॥ ५५॥
अघोराय नमस्तेऽस्तु वामदेवाय ते नमः ।
ईशानाय नमस्तेऽस्तु देवदेवाय ते नमः ॥ ५६॥
शर्वाय क्षितिरूपाय शुद्धमात्राय ते नमः ।
नमः पशूनां पतये पावकायामितौजसे ॥ ५७॥
भीमाय वाक्स्वरूपाय शब्दरूपाय ते नमः ।
महादेवाय सोमाय अमृताय नमो नमः ॥ ५८॥
उग्राय यजमानाय नमोऽस्त्वाकाशमूर्तये ।
त्वदष्टमूर्तिभिर्व्याप्तं जगत्सर्वं चराचरम् ॥ ५९॥
मया ज्ञानतः शम्भो यत्कृतं पूजनं तव ।
तत्क्षमस्व महादेव शरणागतवत्सल ॥ ६०॥
॥ इति शिवरहस्यान्तर्गते ईश्वरप्रोक्तं शिवलिङ्गार्चनविध्युपदेशं २ सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ४६ । १८-१९, ५३.२-६०॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 46 . 18-19, 53.2-60..
Notes:
ŚivaDhyāna शिवध्यान and ŚivaStutiḥ शिवस्तुतिः for worship of Śiva शिव while conducting Śivaliṅgārcana शिवलिङ्गार्चन.
Proofread by Ruma Dewan