श्रीशिवमङ्गलस्तोत्रम्
मङ्गलं भगवान् शम्भुर्मङ्गलं पुरशासनः ।
मङ्गलं सोमसूर्याग्निलोचनो मम मङ्गलम् ॥ १॥
यन्मङ्गलं कुमारस्य गिरिजाकल्पयत् पुरा ।
तारकं जेतुकामस्य तन्मे भवतु मङ्गलम् ॥ २॥
मङ्गलं पार्वतीनाथो मङ्गलं जाह्नवीधरः ।
मङ्गलं गिरिजा देवी मङ्गलं सर्वमङ्गलम्(ला) ॥ ३॥
गिरीन्द्रस्य च मेनायास्त्रैलोक्यस्य तपःफले ।
पार्वत्या जन्मदिवसे तन्मे भवतु मङ्गलम् ॥ ४॥
त्रिपुरं हन्तुकामस्य दिधक्षोरन्धकासुरम् ।
भवान्या यत्कृतं भर्तुस्तन्मे भवतु मङ्गलम् ॥ ५॥
ईश्वराज्ञानुयातस्य वीरभद्रस्य शूलिना ।
यत्कृतं मङ्गलं कार्यं तन्मे भवतु मङ्गलम् ॥ ६॥
हारभूषणकेयूरलीलाभुजगभूषयोः ।
शिवयोः सदृशोद्वाहे तन्मे भवतु मङ्गलम् ॥ ७॥
यः शिवो नामरूपाभ्यां या देवी सर्वमङ्गला ।
तयोः संसरणात् पुंसां सर्वतो जयमङ्गलम् ॥ ८॥
॥ इति श्रीशिवमङ्गलस्तोत्रं सम्पूर्णम् ॥
Proofread by Aruna Narayanan