शिवपार्वतीसंवादे शिवरहस्यम्

शिवपार्वतीसंवादे शिवरहस्यम्

देवी - किं ते प्रियकरं शम्भो रहस्य तद्वदस्व मे । इति पृष्टो महादेवो जगाद जगदम्बिकाम् ॥ ४५॥ ईश्वरः - श्रृणु त्वममरेशानि रहस्यं मम शङ्करि । धर्मपञ्चकमित्याहुः पञ्चपातकनाशनम् ॥ ४६॥ श्रृणुष्वावहिता भूत्वा जगतां पापनुत्तये ॥ ४७॥ (पापनुत्तमम्) पचेलिमतपःफलैरमितजन्मसङ्घार्जितैः भवे भसितधारणे मतिरुदेति विश्वाधिके । त्रिपुण्ड्ररचनाक्रमः करगलादिफाले तथा उरोदरशिरःथले भवति भाग्यपूर्णे जने ॥ ४८॥ रुद्राक्षेति वदन्स्पृशन्नपि नरो जन्तुः स गोदानभाक् धृत्वा तच्छतकं महेन्द्रसदनं प्राप्येन्द्रसालोक्यगः । तत्साहस्रधरोऽपि तत्र दशकं तस्मादनन्ताक्षधृक्- ब्राह्मं वैष्णवमैश्वरं पदसुखं प्राप्येश्वरे लीयते ॥ ४९॥ पञ्चपातकविनाशनं परं पञ्चकोशविनिवारणं सदा । पञ्चवक्त्रकृपया शुभप्रदं पञ्चमन्त्रपरमं तथाक्षरम् ॥ ५०॥ कुम्भसम्भवमुखैर्मुनीश्वरैर्जम्भमारकमुखैरमरेन्द्रैः । कुम्भवक्त्रमुखरैर्गणेश्वरैर्दम्भनाशनकरं परं मनुम् ॥ ५१॥ जप्तमाप्तफलदं शुभाप्तये सप्तमन्त्रकृतधूलनादरैः । उप्तमुक्तिफलदं भवभूम्यां बीजमेकमनिशं शिवभक्तैः ॥ ५२॥ श्रीरुद्रं यजुषां गणेषु विहितं जप्त्वा परं प्रीतिमान् मुक्तः पातकसङ्घतो गिरिवराज्जाते स पुण्यैकभाक् । तन्नम्नां फलवादसूक्तिपरमैर्मन्त्रं जपन्मुक्तिभा- ग्भस्माभ्यक्ततनुस्तथा च शयितो यो भस्मनिष्ठो भवेत् ॥ ५३॥ यो रुद्राक्षविभूतिभूषणयुतो जप्त्वा प्रियो जायते यः पुण्ड्रान्तरधारिणे मतिरुमे नैवाप्नुयात् तत्फलम् । जप्त्वापि श्रुतिशेखरोत्तमपदान् ज्ञात्वापि तस्यार्थकं लिङ्गेषु प्रथितं सदापचितिजं पुण्यं न हि प्राप्नुयात् ॥ ५४॥ पुन्नागनागवकुलार्जुनचम्पकैश्च मन्दारपाटलकदम्बकवर्णिकारैः । जम्ब्वाम्रदाडिमसुगन्धिशमीशमीक- लोध्रोद्भवैश्च बकुलैः करवीरपुष्पैः ॥ ५५॥ पद्मार्कैः कनकैस्तथा दमनकैर्बन्धूककोकैर्वकैः कुन्दैर्जातिकुसुम्भसम्भवसुमैः सन्मल्लिकासम्भवैः । अङ्कोलैर्गिरिमल्लिकादिकुसुमैः सप्तारिजातादिभिः नन्द्यावर्तमरुत्वकैश्च तुलसीसद्द्रोण दूर्वाङ्कुरैः ॥ ५६॥ विष्णुक्रान्त कुशापमार्गजलदैः काशैस्तथैवार्जुनैः । कापित्थैरघहारिपत्रकबरैर्यः पञ्चवक्त्रार्चनम् । पञ्चब्रह्मनमांसि यस्य वदने सद्यः स मुक्तो भवेत् ॥ ५७॥ सहस्रनीलोत्पलमालया शिवं समुल्लसच्चारुशशाङ्कमौलिम् । मुदा मुकुन्दाजविमृग्यमौलिपादाम्बुजं पूजयिता स धन्यः ॥ ५८॥ यो बिल्वोत्तममालयाऽनुदिवसं मन्दारमालादिभि- र्लिङ्गं मङ्गलमेतदद्य सुमनःसौरभ्यगन्धायितम् । पश्यन् नश्वरपातकोत्थशमनाद् व्याघातभीतिं हरे- न्निर्गुण्डीशुकपत्रबिल्वजदलैः सद्भावलिङ्गोद्भवैः ॥ ५९॥ वसन्तनवमल्लिकाकुसुमदिव्यमालादिभिः दिनान्तसमयोल्लसन्मधुरगन्धजाजीसरैः । महेशजनिमार्चनं प्रकुरुते प्रदोषेतु यः (महेशकृतमर्चनं) स चादिभिषगुत्तमप्रिय अघौघतूलानलः ॥ ६०॥ ब्रह्मा शैलभवं हरिन्मणिभवं विष्णुर्निशानायको मुक्ताजालमयं प्रवालजमुमा ताम्रोद्भवं भानुमान् । हैरण्यं धनदस्तथैव वरुणः श्रीचन्द्रकान्तोद्भवं वह्निश्चान्नमयं सुपित्तलभवं वायुश्च नीलं हरिः ॥ ६१॥ अन्ये सर्वमरुद्गणाश्च दितिजा गन्धर्वविद्याधरा यक्षा राक्षसकिन्नरोरगगणा रुद्रा मुनीनां गणाः । चित्रं चारु महेशलिङ्गममलं सम्पूजयन्त्यादरा- द्बिल्वीकोमलपल्लवैर्दिविषदो मन्दारमालादिभिः ॥ ६२॥ उत्फुल्लरक्तकमलैरमलैः कदम्बैर्नीलोत्पलैर्विकसितैः कुमुदैश्च नित्यम् ॥ ६३॥ मालूरप्रभवैर्नवारुणदलैर्दूर्वाङ्कुरैः शङ्करं लिङ्गेऽभ्यर्च्य भवेदनेकविभवैर्युक्तस्तथा मुक्तिभाक् । सायं कुन्दमरन्दबन्धुरलसद्गन्धौघगन्धीकृतै- र्दिग्वातैर्विपिनप्रफुल्लसुमनोधूलिप्रभाभासुरैः ॥ ६४॥ शर्वाणीरमणार्चनैः कृतमतिर्मन्दारमालादिभिः भस्माभ्यक्ततनुर्भवेत् स सुभगो भावोऽपि कश्चित् कलौ ॥ ६५॥ प्राल्यैर्मध्वाज्यदुग्धप्रभवदधिघटैर्नारिकेलेक्षुसारैः रम्भाजम्बीरचूतप्रभवफलरसैः पानसोद्धूतकोशैः । श्रीखण्डद्रवसारसागरमहाकर्पूरखण्डद्रवैः पाटीरैर्मृगनाभिजातसुरसैः सच्छर्करापूरकैः ॥ ६६॥ आसिच्यालिम्प्य गन्धैर्मृदुतरवसनावेष्टनैर्वेष्टयित्वा नेपथ्यैर्मणिकल्पितैः सुमनसां भारैश्च बिल्वीदलैः । अभ्यर्च्याभूष्य धूमैरगरुपरिमलामोदितैर्दीपजालैः नैवेद्यैर्बहुभक्षभोज्यसहितैस्ताम्बूलनीराजनैः ॥ ६७॥ कुन्देन्दुप्रतिमानचारणगणैः छत्रैश्च मुक्ताफलोद्दाम- स्वर्णपरिष्कृतैर्व्यजनजामोदोत्थवातार्पणैः । आदर्शैरतिनिर्मलैर्मृदुलकैः सद्वाद्यभेदोत्थितध्वानैः प्रक्रमसंस्तवप्रणमनैर्नृत्यैश्च गेयैरपि ॥ ६८॥ लिङ्गं मङ्गलमङ्गलापतिमहासान्निध्यहेतुस्थले वारं वारमघौघनाशनकरं पुण्ये प्रदोषेऽपि च । सम्पूज्यालोक्य पुण्यैर्जनिशवतिततैः किं वदामीशतुल्यः स्कन्दो नन्दिश्च भृङ्गिर्गिरिशकरुणया धन्यधन्यः स एव ॥ ६९॥ ॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवादे शिवरहस्यम् ॥ - ॥ श्रीशिवरहस्यम् । भर्गाख्यः पञ्चमांशः । अध्यायः ३। ४५-६९॥ - .. shrIshivarahasyam . bhargAkhyaH panchamAMshaH . adhyAyaH 3. 45-69.. Notes: Shiva describes to Devi, the DharmaPanchaka (the five signifiers of ShaivaDharma). The shloka numbers are maintained per the referenced source text. Proofread by Ruma Dewan
% Text title            : Shivaparvatisamvade Shivarahasyam
% File name             : shivapArvatIsaMvAdeshivarahasyam.itx
% itxtitle              : shivapArvatIsaMvAde shivarahasyam (shivarahasyAntargatA)
% engtitle              : shivapArvatIsaMvAde shivarahasyam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | bhargAkhyaH panchamAMshaH | adhyAyaH 3| 45-69||
% Indexextra            : (Scan)
% Latest update         : June 18, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org