ऋषि अगस्त्यप्रोक्तं शिवपूजासाधनानि २ शिवार्चने पुष्पार्पणोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
पलाशपुष्पैर्यः कुर्याद्वसन्ते शङ्करार्चनम् ॥ १५३.२॥
देवेन्द्रत्वमवाप्नोति स्वर्गेशत्वाभिलाषुकः ।
ग्रीष्मे तु मल्लिकापुष्पैर्यः कुर्याच्छङ्करार्चनम् ॥ १५४॥
ब्रह्मत्वं समवाप्नोति ब्रह्मत्वं यदि वाञ्छति ।
वर्षर्तौ कुशपुष्पैर्यः पूजयिष्यति शङ्करम् ॥ १५५॥
स विष्णुत्वमवाप्नोति यदि विष्णुत्वमिच्छति ।
शरत्काले महादेवं यः पद्मैः पूजयिष्यति ॥ १५६॥
स सूर्यत्वमवाप्नोति यदि सूर्यत्वमिच्छति ।
अर्कपुष्पमहादेवं हेमन्तेऽयोऽर्चयिष्यति ॥ १५७॥
स चन्द्रत्वमवाप्नोति यदि चन्द्रत्वमिच्छति ।
शैशिरे करवीरैर्यः पूजयिष्यति शङ्करम् ॥ १५८॥
गाणपत्यमवाप्नोति गाणपत्यं यदीच्छति ।
उक्तर्तुषूक्तकुसुमैः शङ्करं योऽर्चयिष्यति ॥ १५९॥
त्रिकालमप्रमादेन स तदुक्तफलं भजेत् ।
बिल्वपत्रैः समभ्यर्च्य सर्वर्तुषु सदाशिवम् ॥ १६०॥
स्वाभीष्टफलमाप्नोति महादेवप्रसादतः ।
द्रोणपुष्पैः पूजनीयः कार्तिके मासि शङ्करः ॥ १६१॥
अर्कपुष्पैर्मार्गशीर्षे पूजनीयः सदाशिवः ।
पुष्ये पुनर्वसुपुष्पैः पूजनीयः सदाशिवः ॥ १६२॥
माघे धुत्तूरकुसुमैः पूजनीयो महेश्वरः ।
शमीपुष्पैः पूजनीयः फाल्गुने मासि शङ्करः ॥ १६३॥
चैत्रे पलाशकुसुमैः पूजनीयो मृडः प्रभुः ।
वैशाखे मल्लिकापुष्पैर्ज्येष्ठे कुन्दैर्नवंस्तथा ॥ १६४॥
आषाढे विरजापुष्पैः श्रावणे कुटजैरपि ।
पूज्यो भाद्रपदे काशैराश्विजे पारिजातकैः ॥ १६५॥
चैत्रे दमनकैश्चापि पूजनीयो यमान्तकः ।
तत्तत्समयजैः पुष्पैः वैशाखादिषु पल्लवैः ॥ १६६॥
यः पूजयति यत्नेन स मोक्षमधिगच्छति । १६७.१
॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं शिवपूजासाधनानि २ - शिवार्चने पुष्पार्पणोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । १५३.२-१६७।१॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 153.2-167.1..
Notes:
Ṛṣi Agastya ऋषि अगस्त्य delivers Upadeśa उपदेश (to Dvija द्विज) about Puṣpārpaṇa पुष्पार्पण during worship of Śiva शिव for each Ṛtu ऋतु and Māsa मास.
The Adhyāyaḥ 26 अध्यायः २६ has several other details about Śivapūjāsādhanāni शिवपूजासाधनानि.
Proofread by Ruma Dewan