ऋषि अगस्त्यप्रोक्तं शिवपूजासाधनानि ३ शिवार्चने द्रव्याद्यर्पणोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
सुगन्धाभ्ररसेनेशं सार्द्राष्टम्यां प्रयत्नतः ॥ १६७.२॥
योऽभिषिञ्चति रुद्रेण स मोक्षमधिगच्छयति ।
क्षीरेण प्रतिभूतायां प्रस्थेनेशं प्रयत्नतः ॥ १६८॥
योऽभिषिञ्चति रुद्रेण स मोक्षमधिगच्छयति ।
नवग्रहप्रीतिकरैर्नवभिर्धान्यकैः शिवम् ॥ १६९॥
योऽभिषिञ्चति रुद्रेण स मोक्षमधिगच्छयति ।
भस्मनाप्यतिशुद्धेन श्रौतेन गिरिजेश्वरम् ॥ १७०॥
योऽभिषिञ्चति रुद्रेण स मोक्षमधिगच्छयति ।
धूपयिष्यति यो धूपैरुत्तमैः शिवसन्निधौ ॥ १७१॥
स सर्वपापनिर्मुक्तः शिवलोकं प्रयास्यति ।
दीपमालां गोघृतेन यः करोति शिवालये ॥ १७२॥
स सर्वपापनिर्मुक्तः शिवलोकं प्रयास्यति ।
सापूपं स्वादुचित्रान्नं यः शिवाय निवेदयेत् ॥ १७३॥
स सर्वपापनिर्मुक्तः शिवलोकं प्रयास्यति ।
भेरीमद्दलवाद्यैश्च घोषयेद्यः शिवालये ॥ १७४॥
स सर्वपापनिर्मुक्तः शिवलोकं प्रयास्यति ।
वीणादिध्वनिभिर्यस्तु ध्वनयेच्छिवमन्दिरे ॥ १७५॥
स सर्वपापनिर्मुक्तः शिवलोकं प्रयास्यति ।
माघमासि महेशाय यः कुर्याद्घृतकम्बलम् ॥ १७६॥
स सर्वपापनिर्मुक्तः शिवलोकं प्रयास्यति ॥ १७७॥
॥ इति शिवरहस्यान्तर्गते ऋषि अगस्त्यप्रोक्तं शिवपूजासाधनानि ३ - शिवार्चने द्रव्याद्यर्पणोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २६ कुम्भघोणमहिमानुवर्णनम् । १६७.२-१७७॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 26 kumbhaghoNamahimAnuvarNanam . 167.2-177..
Notes:
Ṛṣi Agastya ऋषि अगस्त्य delivers Upadeśa उपदेश (to Dvija द्विज) about the merits of various Dravyārpaṇa द्रव्यार्पण during worship of Śiva शिव, including that of the Ghṛtakambalam घृतकम्बलम् procedure that is specified for Māgha māsa माघ मास and finds detailed mention in the Kāmika Āgama कामिक आगम.
The Adhyāyaḥ 26 अध्यायः २६ has several other details about Śivapūjāsādhanāni शिवपूजासाधनानि.
Proofread by Ruma Dewan