शिवपूजास्तवः
प्रातश्शङ्करचिन्तनस्नपनसंसेकासुसंरोधनै-
स्सन्ध्यासंस्मृतिमार्जनाघशमनोपस्थानसन्तर्पणैः ।
द्वारस्यार्चनयागधामगतविघ्नोद्वासनाद्यैः प्रभो-
र्यश्श्रीमान्यजनं करोति भवतस्तस्यैव सिद्धिद्वयम् ॥ १॥
एकैवार्थत ईशशक्तिरमिता याऽनेकरूपा शिवा
कालोपाधिवशाद्द्विजास्त्वनुदिनं ब्राह्म्यादिरूपेण ताम् ।
ध्यायन्त्यत्र तु निर्मलात्मशिवयोस्सन्धिश्च शैवी परा
सन्ध्यातश्शिव एव साधकवरैर्ध्येयः सदा निर्मलः ॥ २॥
प्रातस्स्मरामि हृदयाब्जखमध्यसंस्थं
चन्द्रार्कमार्गविरहोदितचित्स्वरूपम् ।
ध्येयं सदा मुनिवरैरपवर्गसिद्ध्यै
विश्वात्मकं सदसदन्तमनन्तमीशम् ॥ ३॥
मध्यन्दिने शतसहस्रनिशाकराभं
विश्वेश्वरं परमकारणमप्रमेयम् ।
शम्भुं सदोदितममायवियत्स्वरूपं
कोदण्डमध्यनिलयं नियतं स्मरामि ॥ ४॥
ब्रह्माक्षरं निशिमुखेऽमृतसागराभं
विश्वाधिपं शिवमनूत्थितनादसंस्थम् ।
बोधामृतं करणकारणकार्यहीनं
तं ब्रह्मरन्ध्रनिलयं नियतं स्मरामि ॥ ५॥
तेजोनिधानमचलं शिवमर्धरात्रे
नित्यं निरस्तविषयैः परमार्थदृग्भिः ।
विज्ञेयमव्ययमचिन्त्यमभावनीय-
मुन्मन्यतीतविषयं सततं स्मरामि ॥ ६॥
क्ष्मादिग्रन्थ्यन्ततत्त्वक्रमनिहितपदाक्रान्तसंशुद्धविद्या
तत्त्वान्तव्यापिसादाशिवविशदपदं भावयन्नात्मरूपम् ।
शैवज्ञानप्रसिद्धप्रवरविधिगताशेषसत्कृत्यकारी
जीवं हृद्येव कुर्याद्रविशशिदहनव्योमशक्त्यन्तरस्थम् ॥ ७॥
आयामैश्श्वनस्य भौतिकमलं देहं कलाभिस्सुधीर्यः
पञ्चाध्वविसर्पिणीभिरनिशं संशोद्ध्य तच्छम्बरैः ।
मन्त्रालङ्कृतदेहभृन्निशि दिवा सन्ध्यासु सन्तोषय-
न्नर्चाहोमसमाधिभिश्शिवमसौ संयाति शैवं पदम् ॥ ८॥
य एष देवो महतो महीयानणोरणीयान्भवभीरुभिस्सः ।
ज्ञेयश्शिवस्सर्वगतस्शरीरे ध्येयस्स पूज्यश्शिवलिङ्गमध्ये ॥ ९॥
हृत्पद्माख्यशिवालये मनसिजे तत्कर्णिकाख्ये क्रिया-
पीठे ज्ञानमयं विशुद्धमनसा संस्थाप्य नादात्मना ।
लिङ्गं तच्च सुधामयेन पयसा संस्नाप्य सम्यक्पुन्ः
वैराग्येण च चन्दनेन वसुभिः पुष्पैरहिंसादिभिः ॥ १०॥
प्राणायामभवेन धूपविधिना चिद्दीपदानेन यः
प्रत्याहारमयेन सोमहविषा सौषुम्नजापेन च ।
तच्चित्ते बहुधारणाभिरमलध्यानोद्भवैर्भूषणै-
स्तत्साम्याणुनिवेदनेन यजते धन्यस्स एवामलः ॥ ११॥
चन्द्रस्राविसुधामयेन हविषा नाभिस्थकुण्डेऽनलं
सन्तर्प्येशमयं शिवास्पदगतव्योम्नि स्थिते सर्वगे ।
कन्दोद्भूतशिवाणुनादशिखया वृत्त्यात्मसंवेदनं
शैवे ज्योतिषि यः करोति पुरुषो मुक्तस्स एवाक्षयः ॥ १२॥
यथावदात्माश्रयवस्तुमन्त्रस्वायत्तलिङ्गादिषु शोधितेषु ।
सिद्धान्तमार्गस्थितसाधकानां त्वत्पूजनं नात्र विलोमतोऽस्तु ॥ १३॥
धारिकाभिधशक्तिबीजमनन्तपङ्कजकुड्मलं
पुण्यबोधविरागभूतिपदं विलोमचतुष्टयम् ।
गात्रकं छदनद्वयं कमलं सकेसरकर्णिकं
शक्तिमण्डलसङ्घयुक्तमहं नमामि शिवासनम् ॥ १४॥
पृथ्वीकन्दं कालतत्त्वान्तनालं लोकौघं तत्कण्टकं भावसूत्रम् । (लोकौट्टं)
ग्रन्थिग्रन्थिं शुद्धविद्यासरोजं विद्येशानारूढपत्राष्टकं च ॥ १५॥
वामादिशक्तिगतकेसरकर्णिकाढ्य-
मर्कादिबिम्बसहितं वरयोगपीठम् ।
तत्र स्थितं हृदयमन्त्रगतात्ममन्त्र
मूर्तिं च बिन्दुगतमीशमहं नमामि ॥ १६॥
तत्कन्दं शतकोटियोजनमितं नालं परार्धान्तकं
ग्रन्थिः कोटिपरार्धपश्चिमसहस्रोऽब्जं च तल्लक्षकम् ।
मूर्तिस्तस्य च कोटिरीश्वरमयी तस्यार्बुदस्यार्बुदा-
म्भोजं मन्त्रमयं सदाशिववपुस्तद्वानमेयस्शिवः ॥ १७॥
यस्यामौषधभूषणध्वनिमयी मूर्तिः परा बैन्दवी
ध्येया शङ्करमन्त्रतन्त्रनिरतैर्ज्ञानक्रियाङ्गी शिवा ।
सर्वैश्वर्यसुखप्रदा निरुपमा सादाशिवी निर्मला
नादाख्याय सदाशिवाय महते शान्ताय तस्मै नमः ॥ १८॥
ध्येयस्सदा गगनमण्डलमध्यवर्ती
निर्विघ्नशुद्धशिवयोगिहृदम्बुजस्थः ।
ईशोर्ध्वनिष्कलशिवान्तवपुस्सदेशो
बिन्दुस्स्वरोद्भवकलाभुवनेशगर्भः ॥ १९॥
योऽसावीशानमूर्धा नरमुखकमलोऽघोरहृद्वामगुह्य-
स्सद्योमूर्तिः पुरेशाननहृदयपदष्षड्विधाध्वस्वरूपः ।
भूताम्भोराशिसिद्धिस्मरभुजगकलाक्ल्लिप्तदेहः क्रियेच्छा
दृङ्मासार्धाम्बकं तं कबिलगतमहं नौमि विद्याशरीरम् ॥ २०॥
श्वेतासृक्कृष्णपीतस्फटिकशशिसुवर्णारुणालयग्निवर्णै-
र्ब्रह्माङ्गैर्व्यक्तमूर्तिर्भवहरशिवसंयोगतस्स्फाटिकाभः ।
ऐक्यान्मन्त्रार्थयोरित्यखिलशिवमतेष्वाह सर्वार्थहेतु-
र्वक्त्राणां वर्णभेदश्चिदचिदधिपतेश्चित्रमेतत्स्वरूपम् ॥ २१॥
ईशानेन वियन्मयेन धवलप्रख्येन सर्वप्रभो-
र्व्याप्तं वक्त्रचतुष्टयं पुरुषहृद्गुह्याजमन्त्रात्मकम् ।
तेनेदं धवलप्रभं शिवविदः पूर्वादिकाष्ठाभृतां
वर्णानुग्रहहेतुतः प्रतिमुखं पीतादिवर्णं विदुः ॥ २२॥
ईशतत्पुरुषाघोरवामाजवदनं शिवम् ।
बालयौवनवृद्धस्त्रीनराकारं नमाम्यहम् ॥ २३॥
त्रिशूलखट्वाङ्गधरस्सशक्तिर्वराब्जहस्तोऽभयपाणिरीशः ।
सेन्दीवराहिर्डमरुप्रसक्तस्सबीजपूरस्सुभगोऽक्षसूत्री ॥ २४॥
बोधानन्दमयी विभोर्भवभयप्रध्वंसकृच्छक्तय-
स्तिस्रस्ताः परिणामतश्च विवृतिर्निश्शेषबीजस्य हि ।
तत्पूर्णं प्रकृतिः कलाद्यभिमुखी दीर्घाक्षसूत्रं मन-
श्शम्भोरस्त्रनिकाय आगमपरैर्ज्ञेयः परो नापरः ॥ २५॥
ईशानं सर्वासां विद्यानामीश्वरं च भूतानाम् ।
ब्रह्माधिपतिं ब्रह्मत्वान्निष्कलरूपं सदाशिवं नौमि ॥ २६॥
तत्पुरुषं भक्तानां शैवज्ञानप्रदं महादेवम् ।
रुद्रं शिवत्वसिद्ध्यै तत्त्वप्रेरकमहं वन्दे ॥ २७॥
अथघोरमघोरं पशुपाशनिराकरणं घोरघोरतरम् ।
सर्वस्माच्छरणमहं शर्वं बहुरूपिणं वन्दे ॥ २८॥
वामं ज्येष्ठं रौद्रं कलविकरणं बलविकरणं कान्तम् ।
बलप्रमथनं सर्वभूतदमनं मनोन्मनमहं वन्दे ॥ २९॥
सद्योजातं सर्वज्ञं प्रणतानां भवभयापहरम् ।
अतिभवयोजकममलं भवोद्भवं नौमि जगदधिपम् ॥ ३०॥
श्रीमन्मूलमनूत्थनादशिखया ब्रह्मादिसादाशिव-
स्थानत्यागगतिक्रमोर्ध्वविलसद्व्योमान्तसंस्थाय ते ।
बोधानन्दमयाय सर्वविभवे नित्याय विश्वात्मने
शुद्धायामलतेजसे च महते तस्मै परस्मै नमः ॥ ३१॥
चन्द्रयुग्मगुणार्धमात्रतदर्धतद्दलषोडश
व्द्युत्तरत्रिदशाब्धिषष्टिभुजङ्गमश्रवणक्षमा ।
दर्शनेषुकरांशभावमितोन्मनी परमासनं
यस्य तं प्रणतोऽस्मि निष्कलमव्ययं परमं शिवम् ॥ ३२॥
आदिपञ्चममृत्युभूषणचन्द्रखण्डगुणाश्रदृ-
ग्भानुगध्वनिसीरभास्करसेन्दुवृत्तहलाकृतिः ।
सांशुमत्रिशिखद्विबिम्बगतद्विकुब्जग उन्मना
(सांशुमत्त्रिशिखद्विबिम्बगतद्विकुब्जग)
पातु वस्सकलापरस्सकलाकलस्सकलस्शिवः ॥ ३३॥
निष्कलं शिवरुद्रपुद्गलभूषणार्धहिमांशुम-
द्रोधिदण्डतदन्तशक्तिचतुष्टयेश्वरयोगिनम् ।
शङ्करं वसुसागराङ्गुलचारिणं रसशून्यगं
सर्वमन्त्रपतिं प्रासादमहं नतोऽस्मि षडध्वगम् ॥ ३४॥
चिद्व्यक्तिसंस्थित्यवलोकरोधैर्मुद्रोत्तरैरङ्गशिवैकभावैः ।
पाद्याचमार्घ्यप्रसवप्रदानैस्त्वदर्चनं जन्मफलं महेश ॥ ३५॥
आवाहनं स्वात्मनि चित्प्रकाशस्तत्र स्थितिस्स्थापनमीश्वरस्य ।
सान्निध्यमात्मेश्वरसन्निधानं संरोधनं स्वस्य शिवे निरोधः ॥ ३६॥
नमोऽस्तु संज्ञानहृदे भवाय नमो गुणैश्वर्यविशिष्टमूर्तये ।
नमोऽपराधीनवशित्वरूपशिखाय तेजः कवचात्मने नमः ॥ ३७॥
नमः पशूनां मलकृतनक्षमासहप्रतापास्त्रधराय शूलिने ।
नमोऽविकाराय षडङ्गमूर्तये सदाशिवायामृतरूपिणे नमः ॥ ३८॥
स्वभावशुद्धस्य शिवस्य पाद्यमाचाममात्मीयविशुद्धिहेतोः ।
अर्घ्यप्रदानं कुसुमार्पणं च सदेशधामाप्तिनिमित्तमेतत् ॥ ३९॥
स्नानं स्वात्ममलापहं शुभमयैर्गन्धैस्समालेपनं
सद्वस्त्राभरणं सुगन्धिकुसुमैर्मालाभिरभ्यर्चनम् ।
सालङ्कारसदाशिवस्य विधिवद्धूपप्रदानं त्वणो-
र्भोगार्थं हि सदेशधाम्नि विमलं दीपं शिवज्ञानदम् ॥ ४०॥
शुचीशरक्तपानिलेन्द्रमृत्युकेन्दुसंस्थितान्
पयोधरार्कवातवह्निसन्निभानिनेक्षणान् ।
युगाननान्वराभयत्रिशूलशक्तियुक्करान्
नमश्शिवाङ्गसम्भवान्हृदादिमन्त्रविग्रहान् ॥ ४१॥
भोगाङ्गार्चनमात्मनश्शिवगुणप्राप्त्यर्थमैक्यं प्रभो-
रङ्गानां पुनरर्चकस्य शिवसंयोगाय शुद्धात्मनः ।
तृप्तस्यान्ननिवेदनाम्बुमुखवासादिप्रदानं मन-
स्तृप्त्यर्थं शिवभावमङ्गलकरं चित्रं तवार्चाफलम् ॥ ४२॥ (तत्रार्चाफलम्)
पवित्रभूतस्य पवित्रदानं तापत्रयघ्नं सकलार्थसिद्ध्यै ।
जपश्च भक्त्या प्रणतिश्शिवस्य ब्रह्मेन्द्रविष्ण्वादिपदत्वहेतुः ॥ ४३॥
अर्चने सकलं जपे सकलाकलं सततोदितं
निष्कलं सकलाध्वगं परिपूर्णमात्मसमर्पणे ।
व्योम्नि सुस्फटिकप्रभं भवने कलासहितं हरं
यो हि वेत्ति परं शिवं शिव एव सोऽस्त्र न संशयः ॥ ४४॥
भूयःपूजनमीशसन्निधिकरं सम्प्रार्थनं स्वेशयो-
रन्योन्यं त्ववलोकनाय भुवने भोगाय सादाशिवे ।
ईशाग्न्यर्चनमर्पणं क्षपयितुं बन्धत्रयं कर्मणो-
ज्ञेयं स्वात्मनिवेदनं परशिवे स्थित्यर्थमेवात्मनः ॥ ४५॥
अशुद्धतत्त्वौघबहिष्क्रियार्थे (आर्थं)
पराङ्मुखार्घ्ये परमेश्वरस्य । (पराङ्मुखार्घ्यं)
यस्मिन्नवस्थानकरं विसर्गे (विसर्गं)
कुर्वन्स शैवं पदमभ्युपेति ॥ ४६॥
विप्रोत्तुङ्गश्चोलदेशी च सूरि-
श्शम्भोः पूजास्तोत्रमेतत्पवित्रम् ।
सिद्धान्तज्ञो ज्ञानशम्भुश्शिवोक्त्या
चक्रे भक्त्या भुक्तये मुक्तये च ॥ ४७॥
इति ज्ञानशम्भुशिवाचार्यप्रणीतः शिवपूजामूलश्लोकस्समाप्ताः ।
Encoded by Dominic Goodall
Proofread by Dominic Goodall, Ruma Dewan