शिवपूजनमहिमा
शिवपूजनमुत्कृष्टं सर्वसिद्धिप्रदायकम् ।
तदेव न कृतं तस्य जन्म तावन्निरर्थकम् ॥ १७॥
शिवप्रसादलब्धानि धनधान्यादिकान्यतः ।
तैरर्चनं महेशस्य कृत्वा मुक्तिमवाप्नुयात् ॥ १८॥
तदीयमेव दत्वापि तस्मै भाग्यमनुत्तमम् ।
प्राध्यमित्येव यत्नेन कर्तव्यं शिवपूजनम् ॥ १९॥
विना न पुण्यपुञ्जेन भक्तिर्मृत्युञ्जयार्चने ।
अतः पुण्यात्मना नित्यं कर्तव्यं शिवपूजनम् ॥ २०॥
शिवार्चनेन विज्ञेयः पुण्यवानिति मानवः ।
तदभावेन विज्ञेयो महापातकवानिति ॥ २१॥
अतः स दूरतस्त्याज्यो यो नार्चयति शङ्करम् ।
तत्संयोगाभिलापाद्यैर्मानवः पापवान् भवेत् ॥ २२॥
येन केनापि रूपेण शरीरं प्राप्य मानवः ।
शिवार्चनपरो भूयात् स भूयः पुण्यवान् भवेत् ॥ २३॥
शिवार्चनपरो मर्त्यः प्रणतः संस्तुतः स्मृतः ।
हरत्यघान्यनन्तानि घोराणि विविधान्यपि ॥ २४॥
घोरपापवनस्यायं कुठारः शङ्करार्चकः ।
अतः सर्वप्रयत्नैश्च कर्तव्यं शिवपूजनम् ॥ २५॥
अतः परं त्वयोन्मादः परित्याज्यः प्रयत्नतः ।
शिवपूजां कुरु प्रीत्या तव मुक्तिर्भविष्यति ॥ २६॥
शरीरं शिवपूजायै यौवने दक्षमित्यतः ।
प्रयत्नेन महादेवं पूजयस्व यथोचितम् ॥ २७॥
स्नानं कुरु प्रयत्नेन शिवकुण्डे शिवोदके ।
उद्धूल्य भस्मनाङ्गानि त्रिपुण्ड्र च प्रयत्नतः ॥ २८॥
शिरोललाटवक्षःसु स्कन्धे च मणिबन्धने ।
कूर्परे नाभिदेशेच पार्श्वयोर्गण्डमण्डले ॥ २९॥
ऊरुप्रदेशे गुल्फेच त्रिपुण्ड्रं धारयेन्मुहुः ।
रुद्राक्षधारणं कार्यं द्वात्रिंशत् कण्ठमालया ॥ ३०॥
शिखायामेकमेव स्यात् द्विचत्वारिंशदुत्तमाः ।
रुद्राक्षाः शिरसा धार्याः कर्णयोर्द्वादश द्वयोः ॥ ३१॥
शतत्रयं तूपवीते बाह्वोः षोडश षोडश ।
चतुर्विंशति रुद्राक्षाः द्वयोस्तु मणिबन्धयोः ॥ ३२॥
अष्टोत्तरशतैरेव रुद्राक्षैर्जपमालिका ।
तया पञ्चाक्षरं जप्त्वा शैवः शिवमवाप्नुयात् ॥ ३३॥
त्रिभिराचमनं स्त्रीणां पुंसामिव यथाविधि ।
भवाद्यैर्नामभिर्यद्वा शिवपञ्चाक्षरेण वा ॥ ३४॥
पश्चात् कुशासने स्थित्वा यद्वा व्याघ्राजिनादिषु ।
उदङ्मुखः प्राङ्मुखो वा पूजयेद्गिरिजापतिम् ॥ ३५॥
पञ्चामृताभिषेकाद्यैः कर्पूरादिसमन्वितैः ।
जलैः फलोदकैरीशं आम्रादिकरसैरपि ॥ ३६॥
शुद्धोदकैः कवोष्णैर्वा शीतलैर्वा मनोहरैः ।
पश्चात् दुकूलवसनैः पूजयित्वा सदाशिवम् ॥ ३७॥
सुगन्धचन्दनेनापि पूजयेद्गिरिजापतिम् ।
बिल्वपत्रैरक्षतैश्च प्रफुल्लकुसुमैरपि ॥ ३८॥
मन्दारादिप्रसूनानां मालिकाभिः समर्चयेत् ।
पश्चाद्धूपय धूपैश्च दीपैः कर्पूरसम्भवैः ॥ ३९॥
ओदनैराज्यसंयुक्तैः शाकसूपसमन्वितैः ।
परमान्नैर्घृतयुतैः शर्कराराशिसंयुतैः ॥ ४०॥
लड्डुकैर्वटुकैराज्यैः अपूपैर्मण्डकादिभिः ।
भक्ष्यैर्लेह्येश्च चोष्यैश्च पेयैश्च विविधैरपि ॥ ४१॥
कदलीनारिकेलाद्यैः अपारैः फलमण्डलैः ।
इक्षुदण्डैश्च मण्डैश्च दधिक्षीररसोद्भवैः ॥ ४२॥
दध्योदनैश्च क्षीरैश्च दधिर्पूरैर्मनोरमैः ।
सुगन्धजलपूरैश्च नवेक्षुरसपूरकैः ॥ ४३॥
द्राक्षाराशिरसैरेता लवङ्गपरिवेष्टितैः ।
अन्यैरपि रसद्रव्यैः पूजयित्वा महेश्वरम् ॥ ४४॥
पश्चादाभरणं दद्यात् रत्नराशिविराजितम् ।
पुनर्वस्त्राणि रम्याणि रत्नछत्रादिकं तथा ॥ ४५॥
दर्पणं चारु व्यजनं चामीकरविराजितम् ।
चामरं पुष्पमालाश्च पताकाश्च मनोहराः ॥ ४६॥
देयं कर्पूरदीपानां नीराजनमनुत्तमम् ।
पश्चादास्वेदमीशाय प्रणतो नर्तनोत्सवैः ॥ ४७॥
रुद्राध्यायादिमन्त्राणां स्तोत्रैः शाम्भवशोभनैः ।
पुण्यैः शिवकथालापैः कालो नेयः प्रयत्नतः ॥ ४८॥
एवमासायमीशार्चा कर्तव्या मुक्तिकाङ्क्षिभिः ।
सायङ्काले विशेषेण पुनः पूजां समारभेत् ॥ ४९॥
उक्तैनैव प्रकारेण मोक्षदं शिवपूजनम् ।
लिङ्गरूपिणमीशानं प्रदोषे यस्तु पश्यति ॥ ५०॥
स वंशकोटिसंयुक्तः शिवलोकं प्रयच्छति ।
ब्रह्महत्यादिपापानां प्रलयाय प्रजायते ॥ ५१॥
॥ इति शिवरहस्यान्तर्गते शिवपूजनमहिमा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः १ -
याज्ञवल्क्यजनकसंवादे राजपुत्रेण राजपत्न्युपदेशवर्णनम् । १७-५१॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 1 -
yAjnavalkyajanakasaMvAde rAjaputreNa rAjapatnyupadeshavarNanam . 17-51..
Proofread by Ruma Dewan