नन्दिकेशप्रोक्तं शिवपूजनविज्ञानम्
नन्दिकेशः -
विज्ञानं शिवपूजनेन स यतो विज्ञानदः शङ्करो
विज्ञानात्मक एव तेन परमानन्दोऽपि संवर्धते ।
मुक्तिः शङ्करपूजया भवति सा सर्वामयध्वंसने
शक्ता सा सकलार्थदाननिपुणा पुण्यैः परं जायते ॥ ३७॥
नश्यन्त्यामयकोटयः खलु महादेवार्चनात् केवलं
तन्नाशाय तदेव तावदधुना शक्तं तदेवामृतम् ।
तत्तावन्मम जीवनं जनिजरानाशापहारोद्यतं तत्तावत्
सुकृतात्मनां हृदि सदा भात्येव भानुप्रभम् ॥ ३८॥
सद्यः शिवाराधनभानुनैव मोहान्धकारप्रलयः प्रजातः ।
स जातु नोत्तिष्ठति सर्वथाऽपि नष्टः कथं वा पुनरुत्थितः स्यात् ॥ ३९॥
मोहं नाशयतीति नाद्भुतमिदं संसाररोगक्षयं
शर्वाराधिनतस्तथा सति मुहुः संसारबीजक्षयः ।
तत् कर्तुं क्षणमेव पर्वतलये शक्तः स कालानलः
किं तत्पर्वतशुष्कपर्णविलये शक्तो न सर्वात्मना ॥ ४०॥
विन्ध्याकारमहाघकोटिविलयः सद्यः शिवाराधनात्
नूनं जायत इत्यपारमहिमा कालान्तकः संस्मृतः ।
तावत् पापकुलक्षयाय स परं शक्तस्ततः किं तया
किं विश्वेश्वरपूजयापि फलमित्येवाभिमानो मम ॥ ४१॥
येनानामयतां प्रयाति मनुजः तद्दुर्लभं देहिनां
पुण्याभावविनिश्चयेन सुकृताम्भोधिप्रवृद्ध्या परम् ।
लिङ्गाराधनधीभवत्यपि पुनः सा वर्धते सर्वथा
तत्पूजानिरतात्मनां सुकृतिनां सर्वात्मना सर्वथा ॥ ४२॥
श्रीरुद्रो भिषजां भिषक्तम इति ख्यातः श्रुतः प्रस्मृतः
संसारामयनाशनाय सहसा शक्तः स जन्मादिकम् ।
दुःखं नाशयति स्मृतोऽपि सुतरां दृष्टः स कष्टापहः
कस्तेनापि समः सुरेषु स सुराराध्यः सुराधीश्वरः ॥ ४३॥
सुराधीश्वराय प्रणामः कृतश्चेत् महेशाय संसारदुःखापहारः ।
भवत्येव सद्यस्ततस्तावदेव (सद्यः कुतस्तावदेत्)प्रभावैर्भवक्लेशलेशावकाशः ॥ ४४॥
प्रणामोद्यमेनापि संसारनाशः प्रणामेन दुःखप्रणाशः कथं वा ।
अतः शङ्कराय प्रणामो विधेयः स वेदैकबोध्यः स विज्ञानरूपः ॥ ४५॥
॥ इति शिवरहस्यान्तर्गते नन्दिकेशप्रोक्तं शिवपूजनविज्ञानं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । उत्तरार्धम् । अध्यायः १९। ३७-४८ ॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . uttarArdham . adhyAyaH 19. 37-48 ..
Proofread by Ruma Dewan