शिवपञ्चाक्षर-वन्दना
ॐ नमः शिवाय ।
नमोऽस्तु ते त्र्यम्बक ! विश्वमूर्त्ते !
नगेन्द्रजा-कान्तमजं भजेऽहम् ।
नटेश्वरं त्वां वर-शूलहस्तं
नतोऽस्मि देवासुर-वृन्द-वन्द्यम् ॥ १॥
मस्ते मृगाङ्को वितनोति कान्तिं
मन्दाकिनी नन्दति पुण्यतोया ।
महेश्वरं राम-नुतं नतोऽहं
मनोज-नाशिन् ! सुदया विधेया ॥ २॥
शिवा-समेतं शितिकण्ठ-देवं
शिवं हि मृत्युञ्जयमाश्रितोऽहम् ।
शिवेतरं नाशय शङ्कर ! त्वं
शिरेण शम्भो ! प्रणमामि शर्वम् ॥ ३॥
वामाङ्ग-शोभां तनुते भवानी
वाद्यं मनोज्ञं डमरुः प्रियं ते ।
वाञ्छाफलं भक्तजनाय दत्से
वाराणसीधाम-पते ! नमस्ते ॥ ४॥
यमस्य भीतिं हरसे हरस्त्वं
यं नौति लोकश्चरणारविन्दे ।
यस्य प्रसादात् समवाप्यते शं
यज्ञस्वरूपं शिवमीश ! वन्दे ॥ ५॥
पञ्चाक्षर-वन्दनेयं महादेव-मुदावहा ।
पापहा सौख्यदा नित्यं पठतो लभ्यते शुभम् ॥ ६॥
इति श्रीहरेकृष्ण-मेहेर-विरचिता शिवपञ्चाक्षर-वन्दना सम्पूर्णा ।
-- रचयिता - डाॅ हरेकृष्ण-मेहेरः
(इयं वन्दना ``स्तवार्चन-स्तवकम्'' इति स्तोत्रकाव्यस्य अन्तर्गता ।
Copyright - Dr. Harekrishna Mehera