शिवप्रोक्ता शिवपञ्चाक्षरीविद्यामहिमा
(शिवरहस्यान्तर्गते ईश्वराख्ये)
- शिवगौरीसंवादे -
शिव उवाच ।
आश्रित्य परमां विद्यां हृद्यां पञ्चाक्षरीं मम ॥ ४८॥
कलियुगे लब्धजन्मनाम् ।
भक्त्या च भावितात्मानो मुच्यन्ते कलिजा नराः ।
मनोवाक्लायजैर्दोषैर्वक्तुं स्मर्तुमगोचरैः ॥ ४९॥
दूषितानां कृतघ्नानां निर्दयानां खलात्मनाम् ।
लुब्धानां वक्रमनसामपि मत्प्रवणात्मनाम् ॥ ५०॥
मम पञ्चाक्षरी विद्या संसारभयतारिणी ।
मयैवमसकृद्देवि प्रतिज्ञातं धरातले ॥ ५१॥
पतितोऽपि विमुच्येत मद्भक्तो विद्ययानया
विद्यां हृद्यामविद्यां विजहति मुदितां गद्यपद्याक्षरां तां
उत्सिद्यैतामविद्या हृदिकुटिलतमोरोगविद्यां जपेद्यः ।
मुक्तिः प्राप्त्वैव सद्य शतगुणफलदां पर्णशद्यप्रसादा-
दुद्भिद्यन्त्वघमाद्यजन्ममरणं सद्यैव भेद्यं भवेत् ॥ ५२॥
॥ इति शिवरहस्यान्तर्गते शिवप्रोक्ता शिवपञ्चाक्षरीविद्यामहिमा सम्पूर्णा ॥
- ॥ श्रीशिवरहस्यम् । ईश्वराख्यः दशमांशः । अध्यायः ३४ । ४८.२-५२॥
- .. shrIshivarahasyam . IshvarAkhyaH dashamAMshaH . adhyAyaH 34 . 48.2-52..
Notes:
Upon being requested by Devī देवी; Śiva शिव describes the PañcākṣarīVidyā पञ्चाक्षरीविद्या (which pertains to the ŚivaPañcākṣaraMantra शिवपञ्चाक्षरमन्त्र i.e. Namaḥ Śivāya नमः शिवाय), that is especially useful in the Kaliyuga कलियुग as a means to Mukti मुक्ति.
Proofread by Ruma Dewan