शिवप्रोक्तं काशीवासफलोपदेशम्
(शिवरहस्यान्तर्गते उग्राख्ये)
(शिवपार्वतीसंवदे)
शिवः उवाच
काशीयं चञ्चलापाङ्गि सर्वदा सर्वदेहिनाम् ।
भुक्तिमुक्तिप्रदा तस्मात्सर्वे तिष्ठन्ति सर्वदा ॥ ६७९॥
सर्वदुःखप्रशमनी सर्वसौभाग्यदायिनी ।
काश्यां वासः प्रयत्नेन सेवनीयो मनीषिभिः ॥ ६८०॥
यस्यां काश्यां महादेवो भाति विश्वेश्वराभिधः ।
तस्यामस्यां शिवे काश्यां दुःखं नास्त्येव सर्वथा ॥ ६८१॥
सन्त्यत्र बहवः काश्यां मुक्तिमात्रार्थिनो नराः ।
ते मदीयाः शिवैतेभ्यो मुक्तिं दास्याम्यसंशयम् ॥ ६८२॥
मुक्तिकान्तां प्रयच्छामि यस्यां काश्यामहं शिवे ।
कर्मणा मनसा वाचा ये काशीवासनिर्भराः ॥ ६८३॥
तेभ्यो मुक्तिप्रदानार्थं प्रभुश्च प्रतिभूरहम् ।
पश्यैतान् शान्तहृदया शिवे मोक्षार्थमुत्सुकान् ॥ ६८५॥
एतादृशानां धन्यानां निन्यं मद्भक्तचेतसाम् ।
मुक्तिर्भवति निर्विघ्नं मत्प्रसादाद्वरानने ॥ ६८५॥
पश्यैनं(तं) जयगीषव्यं मदर्चनपरायणम् ।
मदर्चनार्थमायाति पूजासाधनपूर्वकम् ॥ ६८६॥
अतिवृद्धोऽयममलो नित्यं कालत्रयेस्पि माम् ।
समर्चयति बिल्वाद्यैः शिवलिङ्गस्वरूपिणम् ॥ ६८७॥
सर्वदा शिव काशीश महेश मृड शङ्कर ।
विश्वनाथेति नामानि जपत्ययमनाकुलः ॥ ६८८॥
एतानि पञ्चनामानि मम दिव्यानि शैलजे ।
काश्यामनेकलिङ्गानि स्थापितानि यथाविधि ॥ ६८९॥
काश्यां कृतान्यनेनैव लिङ्गदानानि भूरिशः ।
शैवानाहूय विधिवच्छैवेभ्यो भक्तिपूर्वकम् ॥ ६९०॥
॥ इति शिवरहस्यान्तर्गते शिवपार्वतीसंवदे शिवप्रोक्तं काशीवासफलोपदेशं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २९ शिवगौरीसंवादे काशीप्रभावकथनम् । ६७९-६९०॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 29 shivagaurIsaMvAde kAshIprabhAvakathanam . 679-690..
Notes:
Śiva शिव tells Pārvatī पार्वती about the merits of living in Kāśī काशी and points to Jaigīṣavya जैगीषव्य who has been living there for a long time. Śiva शिव also mentions about Divya Pañcanāmāni दिव्य पञ्चनामानि of Viśvanātha विश्वनाथ viz. Śiva शिव, Kāśīśa काशीश, Maheśa महेश, Mṛḍa मृड, Śaṅkara शङ्कर.
Proofread by Ruma Dewan