शिवप्रोक्तं मध्यार्जुनक्षेत्रमहिमानुवर्णनम्
(शिवरहस्यान्तर्गते उग्राख्ये)
शिवः
मध्यार्जुनाभिधं क्षेत्रमेकमस्ति वरानने ।
तत्र सम्पूज्य मां देवा मुनयश्च वसन्ति हि ॥ १॥
मध्यार्जुनेशं यः पश्येन्निशि भस्मविभूषणः ।
समर्चयेच्च भक्त्या यः स मुक्तोभवति ध्रुवम् ॥ २॥
अत्र यः कृत्तिकायोगे कार्तिक्यां यत्नपूर्वकम् ।
सम्पूजयति मां भक्त्या स मुक्तो भवति ध्रुवम् ॥ ३॥
तत्र यत्नेन मद्भक्तं सुवर्णाभरणादिभिः ।
यः पूजयेत्स संसारान्मुक्तो भवति सर्वथा ॥ ४॥
अत्र पातार्द्रसंयुक्त सप्तमी भानुवासरे ।
यो मां समर्चयेद्भक्त्या स मुक्तो भवति ध्रुवम् ॥ ५॥
यस्तु कृष्णलमात्रं वा सुवर्णं भस्मधारिणे ।
ददाति परया भक्त्या स मुक्तो भवति ध्रुवम् ॥ ६॥
मध्यार्जुने तपस्तप्तं बहुभिर्मुनिभिः पुरा ।
अविमुक्तमिदं प्राप्तं मुक्त्यर्थं कमलानने ॥ ७॥
सार्धलक्षसहस्राणां मुनीनामूर्ध्वरेतसाम् ।
वासस्थलमभूत्पूर्वं श्रीमध्यार्जुनकं शिवे ॥ ८॥
॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं मध्यार्जुनक्षेत्रमहिमानुवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २७ मध्यार्जुनमहिमानुवर्णनम् । १-८॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 27 madhyArjunamahimAnuvarNanam . 1-8..
Notes:
Śiva शिव describes to Pārvatī पार्वती about the Madhyārjuna Śivakṣetra मध्यार्जुन शिवक्षेत्र, and the merits of worshiping Him there during specific times like nighttime; Kṛittikāyoga कृत्तिकायोग during Kārtika month कार्तिक मास and PātĀrdrasaṁyukta BhānuSaptamī पातार्द्रसंयुक्त भानुसप्तमी.
Proofread by Ruma Dewan