शिवप्रोक्तं वृद्धाचलक्षेत्रवर्णनम्
(शिवरहस्यान्तर्गते उग्राख्ये)
शिवे वृद्धाचलं नाम क्षेत्रमस्ति मदात्मकम् ।
तस्य स्मरणमात्रेण मुच्यते पापकोटिभिः ॥ १॥
तद्ब्रह्मोपेन्द्रचन्द्रेन्द्रप्रमुखैः सेव्यते सदा ।
मणिमुक्ता नदी तत्र प्रवहत्यतिनिर्मला ॥ २॥
तत्तीरे कोटिशः सन्ति मुनयो ब्रह्मवादिनः ।
तत्तीरे सन्त्यसङ्ख्याता बिल्ववृक्षाश्च शोभने ॥ ३॥
स्नात्वादौ मणिमुक्तायां श्रीमद्वृद्धाचलेश्वरम् ।
यः पूजयति बिल्वाद्यैः स मद्रूपं प्रयास्यति ॥ ४॥
पर्वतेन्द्रसुते यो मां मणिमुक्तानदीजलैः ।
भिषिच्यार्चयेद्भक्त्या स मद्रूपो भविष्यति ॥ ५॥
वृद्धाचलेश्वरं भक्त्या पूजयित्वा नमन्ति ये ।
ते सर्वेऽपि भविष्यन्ति मम पारिषदाः प्रिये ॥ ६॥
॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं वृद्धाचलक्षेत्रवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २३। १-६॥
- .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . 1-6..
Notes:
Śiva शिव tells Pārvatī पार्वती about the Vṛddhācālakṣetra वृद्धाचलक्षेत्र and the River MaṇiMuktā मणिमुक्ता that flows through it - having multitudes of Bilva Trees बिल्ववृक्षाः along its banks. He highlights the merits of bathing in that river and worshiping Him in that kṣetra क्षेत्र as Vṛddhācāleśvara वृद्धाचलेश्वर.
Proofread by Ruma Dewan