शिवप्रोक्तं वृद्धाचलेश्वरक्षेत्रे शिवोपासकान् वर्णनम्

शिवप्रोक्तं वृद्धाचलेश्वरक्षेत्रे शिवोपासकान् वर्णनम्

(शिवरहस्यान्तर्गते) (शिवपार्वतीसंवादे) पुरा कश्यपकण्वाद्याः शिवतीर्थाटनोत्सुकाः । श्रीमद्वृद्धाचलं प्रापुर्दर्शनादेव मोक्षदम् ॥ ७॥ मणिमुक्तानदीं दृष्ट्वा कश्यपाद्या मुनीश्वराः । तत्तीरे बिल्ववृक्षांश्च ददृशुर्नवपल्लवान् ॥ ८॥ तत्र शैववरांश्चान्यानपश्यञ्छिवपूजकान् । भस्मोद्धूलितसर्वाङ्गान् त्रिपुण्ड्राङ्कितमस्तकान् ॥ ९॥ रुद्राक्षमालाभरणाञ्जटामण्डलमण्डितान् । शङ्करेति महेशेति शिवनामजपोत्सुकान् ॥ १०॥ नित्यमव्यभिचारेण मल्लिङ्गाकार्चनप्रियान् । अद्वैतं परमं ब्रह्म शिव एवेति वादिनः ॥ ११॥ श्रीमद्रुद्रजपासक्तान्पञ्चाक्षरपरायणान् । मणिमुक्तानदीं प्रापुस्ततस्ते मुनिपुङ्गवाः ॥ १२॥ तत्र ते चक्रिरे स्नानं मणिमुक्तानदीजले । उद्धूल्य भस्मनाङ्गानि ततस्ते मुनिपुङ्गवाः ॥ १३॥ त्रिपुण्ड्रधारणं चक्रुस्ततस्ते कश्यपादयः । अथ सम्पूजयामासुः शिवं मां लिङ्गरूपिणम् ॥ १४॥ ततः सर्वैर्मुनिवरैर्जप्तं पञ्चाक्षरं शिवे । ततस्ते बिल्वपत्राणि मणिमुक्ताजलानि च ॥ १५॥ गृहीत्वा मौनमासाद्य जग्मुर्वृद्धाचलेश्वरम् । ततो दृष्ट्वा मुनीन्द्रास्ते श्रीमद्वृद्धाचलेश्वरम् ॥ १६॥ सन्तोषं परमं जग्मुरान्दभरिता भृशम् । ततः सम्पूजयामासुः श्रीमद्दृद्धाचलेश्वरम् ॥ १७॥ रुद्रसूक्तैर्लिङ्गरूपमभिषित्र्य यथाक्रमम् । प्रदक्षिणनमस्कारांस्ततश्चक्रुर्मुनीश्वराः ॥ १८॥ ततः स्तुत्वातिभक्त्या ते शिवनामजपोत्सुकाः । पञ्चाक्षरजपं कृत्वा श्रौतन्यासपुरःसरम् ॥ १९॥ श्रीमद्रुद्रजपं कृत्वा तत्र तस्थुरचञ्चलाः । तदानीमागतो देवि गौतमोऽप्यरुणाचलात् ॥ २०॥ अगस्त्यः पूजयामास श्रीमद्वृद्धाचलेश्वरम् । ततस्तुष्टावं शुद्धात्मा गौतमो मामुमापतिम् ॥ २१॥ शैववर्येषु श‍ृण्वत्सु श्रोत्रानन्दकरं शिवे । ॥ इति शिवरहस्यान्तर्गते शिवप्रोक्तं वृद्धाचलेश्वरक्षेत्रे शिवोपासकान् वर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । उग्राख्यः सप्तमांशः । अध्यायः २३। ७-२१.१॥ - .. shrIshivarahasyam . ugrAkhyaH saptamAMshaH . adhyAyaH 23 . 7-21.1.. Notes: Śiva शिव continues to tell Pārvatī पार्वती about the Vṛddhācālakṣetra वृद्धाचलक्षेत्र and the River MaṇiMuktā मणिमुक्ता where several Munī-s मुनि and Ṛṣi-sऋषि including Kaśyapā कश्यप, Kaṇva कण्व, Agastya अगस्त्य and Gautama गौतम visited and performed worship of Vṛddhācaleshvara Śivaliṅga वृद्धाचलेश्वर शिवलिङ्ग in several ways including - observing Silence, proclaiming Śiva शिव as Advaita Paramabrahama अद्वैत परमब्रह्म, offering Bilvapatra बिल्वपत्र, ŚrīmadRudraJapa श्रीमद्रुद्रजप, reciting Rudrasūktam रुद्रसूक्तम् and Pañcākṣarī mantra पञ्चाक्षरी मन्त्र - while being adorned with Bhasma भस्म, Rudrākṣa रुद्राक्ष and Tripuṇḍra त्रिपुण्ड्र. Proofread by Ruma Dewan
% Text title            : Shivaproktam Vriddhachaleshvarakshetre Shivopasakan Varnanam
% File name             : shivaproktaMvRRiddhAchaleshvarakShetreshivopAsakAnvarNanam.itx
% itxtitle              : shivopAsakAnvarNanam vRiddhAchaleshvarakShetre shivaproktaM (shivarahasyAntargatam)
% engtitle              : shivaproktaM vRRiddhAchaleshvarakShetre shivopAsakAn varNanam
% Category              : shiva, shivarahasya, raksha, tIrthakShetra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | ugrAkhyaH saptamAMshaH | adhyAyaH 23| 7-21.1||
% Indexextra            : (Scan)
% Latest update         : June 16, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org