शिवरहस्यमहिमावर्णनम्
(शिवरहस्यान्तर्गते ईशाख्ये)
सूत उवाच ।
जैगीषव्यस्तदा श्रुत्वा षण्मुखात्सुरतायनम् ।
द्वादशांशसमायुक्तं गौर्यै यच्छङ्करोदितम् ॥ १॥
शिवं शिवरहस्याख्यमितिहासवरं मुदा ।
शिवानन्दकथासारं तारकं पापवारकम् ॥ २॥
पुण्यं स्वस्त्ययनं पुंसां श्रवणात्सर्वकामदम् ।
भव्यं दिव्यप्रशस्यं च पुत्रारोग्यप्रवर्धनम् ॥ ३॥
सनातनमिदं धर्म्यं शिवधर्मकथाश्रयम् ।
पशुपाशविमोकार्थं सर्वेषां शङ्करोदितम् ॥ ४॥
गौर्यैस्वहृदयं गोप्यं नाभक्ते प्रतिपादयेत् ।
आयुरारोग्यदं ह्येतत् इतिहासं शिवोदितम् ॥ ५॥
यथा शिवसमो देवो न भूतो न भविष्यति ।
तथा शिवरहस्यस्य तुल्यमन्यन्न विद्यते ॥ १४॥
विभूषणं भस्मनोऽन्यन्नास्ति न श्रूयते श्रुतौ ।
तथा शिवरहस्यस्य तुल्यमन्यन्न विद्यते ॥ १५॥
यथा त्रिपुण्ड्रात्परमं पावनं नैव विद्यते ।
तथा शिवरहस्यस्य तुल्यमन्यन्न विद्यते ॥ १६॥
यथा पञ्चाक्षरजपान्नास्ति पातकशोधनम् ।
तथा शिवरहस्यस्य तुल्यमन्यन्न विद्यते ॥ १७॥
यथा रुद्रजपादन्यन्नास्ति प्रीतिकरं विभो ।
तथा शिवरहस्यस्य तुल्यमन्यन्न विद्यते ॥ १८॥
यथा रुद्रार्चनाच्छ्रेष्ठं नास्ति वेदान्तसंस्तुतम् ।
तथा शिवरहस्यस्य तुल्यमन्यन्न विद्यते ॥ १९॥
यथोत्तमं शिवक्षेत्रमविमुक्तं श्रुतीरितम् ।
तथा शिवरहस्यस्य तुल्यमन्यन्न विद्यते ॥ २०॥
प्रदोषकालः कालेषु यथा शैवार्चने (शर्वार्चने) वरः ।
तथा शिवरहस्यस्य तुल्यमन्यन्न विद्यते ॥ २१॥
व्रतानां तु यथा श्रेष्ठं शिवरात्रिव्रतं बुधाः ।
तथा शिवरहस्यस्य तुल्यमन्यन्न विद्यते ॥ २२॥
वारव्रते यथा श्रेष्ठं सोमवारार्चनं द्विजाः ।
तथा शिवरहस्यस्य तुल्यमन्यन्न विद्यते ॥ २३॥
तिथ्यर्चने यथा श्रेष्ठा शम्भोः कालाष्टमी वरा ।
तथा शिवरहस्यस्य तुल्यमन्यन्न विद्यते ॥ २४॥
पर्वार्चने यथा श्रेष्ठा शम्भोर्नित्यं चतुर्दशी ।
तथा शिवरहस्यस्य तुल्यमन्यन्न विद्यते ॥ २५॥
त्रिणेत्रप्रीतिकृन्नित्यं यथाह्याद्रर्क्षमीश्वरि ।
तथा शिवरहस्यस्य तुल्यमन्यन्न विद्यते ॥ २६॥
पत्रेषु च यथा मुख्यं बिल्वपत्रं शिवार्चने ।
तथा शिवरहस्येन तुल्यमन्यन्न विद्यते ॥ २७॥
श्रुत्वैतद्भक्तिमाप्नोति शम्भोर्नित्यं विमुक्तये ।
तथा भस्मनि रुद्राक्षे शिवलिङ्गार्चने द्विजाः ॥ २८॥
पञ्चाक्षरे च रुद्राक्षे सोमवारार्चने यथा ।
शिवक्षेत्रनिवासेषु अविमुक्ते विशेषतः ॥ २९॥
शिवनाम्नि सदा भूयाद्भक्तिरस्य श्रवाद्द्विजाः ।
तया भक्त्या विमुच्यन्ते ससुरासुरमानवाः ॥ ३०॥
भक्तिप्रदमिदं पुण्यमितिहासोत्तमं वरम् ।
दिव्यं शिवरहस्याख्यं द्वादशांशसमुज्ज्वलम् ॥ ३१॥
यस्य तुल्यं न हि श्रेष्ठं पुराणं भारतं तथा ।
काव्यं रामायणं वापि संसारवरदुःखदम् ॥ ३२॥
न तानि भक्तिदान्याहुः शम्भोः शाम्भवसत्तमाः ।
भक्तिदं केवलं ह्येतच्छम्भुनोक्तमिदं शुभम् ॥ ३३॥
पुण्यं शिवरहस्याख्यं भक्तिसारमहोदयम् ।
भक्तैरेव सदा श्राव्यं अभक्तैर्न कदाचन ॥ ३४॥
सत्यं सत्यमिदं सत्यमेवं गौर्यै वदत्तदा (जगाद सः) ।
सावधानेन युष्मासु भक्तेषु प्रतिपादितम् ॥ ३५॥
यथा मृगेन्द्रसङ्काशो जम्बुकः किं (जम्बुको न) भविष्यति ।
तथा शिवरहस्यस्य साम्यमन्यन्न विद्यते ॥ ३६॥
पद्मरागसमं रत्नं काचखण्डो भवेत्किमु ।
तथा शिवरहस्यस्य साम्यमन्यन्न (सममन्यन्न) विद्यते ॥ ३७॥
यथा चन्दनसङ्काशः पारिभद्रो भविष्यति ।
तथा शिवरहस्यस्य साम्यमन्यन्न (सममन्यन्न) विद्यते ॥ ३८॥
उद्यद्युमणिसङ्काशः खद्योतो द्योतते किमु ।
तथा शिवरहस्यस्य साम्यमन्यन्न (सममन्यन्न) विद्यते ॥ ३९॥
किं रासभोऽश्वसङ्काशो भवेदेष प्रघोषवाक् ।
तथा शिवरहस्यस्य साम्यमन्यन्न (सममन्यन्न) विद्यते ॥ ४०॥
कनकाचलसङ्काशः पांसुपिण्डो भविष्यति ।
तथा शिवरहस्यस्य साम्यमन्यन्न (सममन्यन्न) विद्यते ॥ ४१॥
कोकिलाकाकलीलापं कुर्याद् ध्वाङ्क्षोऽतिरूक्षवाक् ।
तथा शिवरहस्यस्य साम्यमन्यन्न (सममन्यन्न) विद्यते ॥ ४२॥
॥ इति शिवरहस्यान्तर्गते शिवरहस्यमहिमावर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । ३७ मुनिसमागमः । १-४२ ॥
- .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . 37 munisamAgamaH . 1-42 ..
Notes:
Sūta सूत delineates the significance of the Itihāsa इतिहास text called The ŚivaRahasyam शिवरहस्यम्; that was spoken by Śiva शिव to Gaurī गौरी and narrated thus by Skanda स्कन्द to Jaigīṣavya जैगीषव्य.
Proofread by Ruma Dewan