शिवरहस्यविषयकथनम्

शिवरहस्यविषयकथनम्

(शिवरहस्यान्तर्गते ईशाख्ये) - जैगीषव्यस्कन्दसंवादे - स्कन्द उवाच । अनुक्रमणिकाध्यायमंशानां कथनं द्विजाः । तत्र तत्र महेशस्य कथाऽऽख्यानमनुत्तमम् ॥ १॥ महेशांशः प्रथमतो नामतश्चात्र विश्रुतः । जैगीषव्यप्रसादार्थं महादेवस्य चागमः ॥ २॥ गणानां देवसङ्घानां मम संवादकीर्तनम् । कैलासवर्णनं चैव द्वारगोपुरवर्णनम् ॥ ३॥ कैलासेश्वरपूजाया लिङ्गाध्यायस्य कीर्तनम् । कैलासस्य तपश्चर्या गाणपत्यप्रसादनम् ॥ ४॥ तन्मौलौ वसतिः शम्भोर्जिज्ञासाऽमरसत्तमे । ज्ञानार्थकथनं चैव आत्मलिङ्गस्य पूजनम् ॥ ५॥ प्रथमेऽंशे कथाख्यानमुक्तं देव्यै शिवेन हि । अष्टश्लोकसहस्रेण शिवेनोक्तोऽयमद्भुतः ॥ ६॥ द्वितीयांशो भवेन्नाम्ना कथितः श्रीशिवेन हि । देव्या तपःप्रसादं च मणिद्वीपोपवर्णनम् ॥ ७॥ चिन्तामणिगृहस्यात्रवर्णनं श्रीपुरस्य च । तस्मात्कैलासगमनं कामकामेश्वरत्मकम् ॥ ८॥ विग्रहं देवदेवस्य हिमाचलसमागमः । हिमाचलालोकनं च कैलासस्य शिवस्य तु ॥ ९॥ देव्याश्च प्रेषणं तत्र मनोन्मन्याः समुद्भवः । दुर्वाससो महिम्नश्च कथनं तत्प्रसादनम् ॥ १०॥ द्वितीयेऽंशे प्रकथितं महादेवेन तत्र हि । श्लोकानां त्रिसहस्रेण गौर्यै तत्र महामुने ॥ ११॥ तृतीयो हरसंज्ञोऽत्र त्रिणेत्रेणैव चाकथि । केदारदर्शनं तत्र व्यासस्यापि द्विजैः सह ॥ १२॥ गायत्र्यास्तपसः सिद्धिर्देव्यानयनकीर्तनम् । गणानां प्रेषणं चैव रुद्रस्तवनकीर्तनम् ॥ १३॥ वेदपादस्तवश्चापि चमकप्रार्थना तथा । तीर्थेशचन्दनस्यापि महात्म्यं मानसार्चनम् ॥ १४॥ श्रीशैलकीर्तनं चैव जनकस्य मुनेस्तथा । संवादो वै रत्ननिधेः पद्मावत्या प्रकीर्तितः ॥ १५॥ यमलोकस्य वृत्तान्तं नर्मदागङ्गयोर्वरम् । भस्मरुद्राक्षमाहात्म्यं व्रतस्य परिकीर्तनम् ॥ १६॥ राज्ञो यमस्य पुत्रैश्च शिवार्चनकथानकम् । शिवदुण्ढिचरित्रं च भागद्वयमिदं द्विजाः ॥ १७॥ त्रयस्त्रिंशत्सहस्रेण श्लोकैरंशः प्रकीर्तितः । चतुर्थः शिवसंज्ञोऽत्र कथितोऽस्ति शिवेन हि ॥ १८॥ नन्दिभृङ्ग्युपमन्यूनां गाणपत्यस्तुतिक्रमः । चतुः सहस्रतः प्रोक्तो ह्यंशो गौर्यै पिनाकिना ॥ १९॥ पञ्चमो भर्गसंज्ञो हि लिङ्गद्वादशवर्णनम् । वामदेवस्तुतिश्चैव नामसाहस्रकीर्तनम् ॥ २०॥ गङ्गद्वारप्रभासस्य प्रभावः पुष्करस्य च । षट्सहस्रेण कथितो देव्यै देवेन शम्भुना ॥ २१॥ शङ्कराख्यांशकः षष्ठः व्याससूत्रादिकीर्तनम् । श्रुतिसिद्धान्तराद्धान्तो ज्ञानयोगप्रकाशनम् ॥ २२॥ निदाघऋभुसंवादोऽविमुक्तानुवर्णनम् । पञ्चसाहस्रतः प्रोक्तः शिवायै श्रीशिवेन हि ॥ २३॥ उग्रो नाम्ना सप्तमांशः कथितः शिवकाशकृत् । सहस्रनामकथनं वैष्णवं तु महिम्नकम् ॥ २४॥ पुष्पदन्तमहिम्नश्च नाम्नामष्टोत्तरं शतम् । श्रीमद्दक्षिणकैलासशोणवृद्धाचलप्रभोः ॥ २५॥ श्रीमदभ्रसभायाश्च काञ्चीकुम्भेश्वरस्य च । मध्यार्जुनप्रभावं च कीर्तितं तत्र विस्तरात् ॥ २६॥ चतुर्दश सहस्रेण श्लोकानां तत्र शङ्करः । भीमाख्ययाऽष्टमांशोऽत्र कथितः शङ्करेण हि ॥ २७॥ कद्रूसुपर्णीसंवादः काश्यपस्य प्रसादनम् । अमृताहरणं तत्र नागभूषत्वमीशितुः ॥ २८॥ पाताललिङ्गमहिमा बिल्वोत्पत्तिः प्रकीर्तिता । चतुः सहस्रतः श्लोकैः प्रोक्तो देवेन तत्र हि ॥ २९॥ सदाशिवाख्यो नवमः कलिधर्मप्रबोधकः । भूतभव्यादिभक्तानां सुचरित्रकथाश्रयः ॥ ३०॥ सहस्रसप्तश्लोकेन सोंऽशः प्रोक्तः शिवेन हि । ईश्वराख्योऽत्र दशमः भस्मरुद्राक्षधारणात् ॥ ३१॥ रुद्रपञ्चाक्षरस्यापि शिवलिङ्गमहोदयः । शिवधर्मप्रशंसार्थाः शिवभक्तार्चने फलम् ॥ ३२॥ अष्टश्लोकसहस्रेण कथितोऽस्ति पिनाकिना । एकादशो महादेवः प्रोक्तोऽयं नामतो मुने ॥ ३३॥ आभिषेचनिकानां तु कालं पुष्पेषु वै फलम् । मासि मास्यर्चनस्यापि सोमवाराष्टमीषु च ॥ ३४॥ प्रदोषे च चतुर्दश्यां पूजने च फलं द्विज । षट्पञ्चाशद्देशमध्यस्थशिवक्षेत्रानुकीर्तनम् ॥ ३५॥ षट्सहस्रेण कथितः श्लोकैरत्र शिवेन हि । ईशाख्यो द्वादशांशोऽयं यत्र दक्षविनाशनम् ॥ ३६॥ उद्वाहश्च तथा शम्भोः स्कन्दोत्पत्यसुरार्दनम् । स्कन्दस्य च शिवस्यैव नामसाहस्रकीर्तनम् ॥ ३७॥ रुद्रस्तुतिर्वेदपादजयस्तुत्युपवर्णनम् । अविमुक्तप्रवेशं च जैगीषव्यस्य सत्तमाः ॥ ३८॥ अनुक्रमेण कथनं श्रवणे महिमाऽस्य हि । तथा पञ्चसहस्रेण श्लोकैरेष शिवोदितः ॥ ३९॥ शिवस्यैवं रहस्यार्थरत्नाकरमिदं मुने । प्रथमः षाष्टिकोऽध्यायो द्वितीयस्त्रिंशताकृतः ॥ ४०॥ तृतीयस्त्रिशतं माने त्रिधाभूतोऽयमुत्तमः । चतुर्थः पञ्चत्रिंशच्च चत्वारिंशच्च पञ्चमः ॥ ४१॥ षष्ठः पञ्चाशता प्रोक्तः सप्तमः पञ्चविंशतिः । शिवस्थानानुकथनः सप्तमो द्विशतात्मकः ॥ ४२॥ अष्टमस्त्रिंशदध्यायः षष्षष्टिर्नवमे द्विज । दशमस्त्रिंशतं प्रोक्तो मुने एकादशोऽपि हि ॥ ४३॥ पञ्चाशद् द्वादशांशोऽत्र ह्यध्यायाः परिकीर्तिताः ॥ ४४॥ ॥ इति शिवरहस्यान्तर्गते शिवरहस्यविषयकथनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । ईशाख्यः द्वादशमांशः । ३६ फलश्रवणकथनम् । १-४४ ॥ - .. shrIshivarahasyam . IshAkhyaH dvAdashamAMshaH . 36 phalashravaNakathanam . 1-44 .. Notes: Skanda स्कन्द details to Jaigīṣavya जैगीषव्य about the contents of the Twelve Sections - Dvādaśāṁśāḥ द्वादशांशाः of The ŚivaRahasyam शिवरहस्यम् that are named sequentially as Māheśaḥ/Māheshvaraḥ माहेशः/माहेश्वरः, Bhavaḥ भवः, Haraḥ हरः, Śivaḥ शिवः, Bhargaḥ भर्गः, Śaṅkaraḥ शङ्करः, Ugraḥ उग्रः, Bhīmaḥ भीमः, Sadāśivaḥ सदाशिवः, Īśvara ईश्वर, Mahādevaḥ महादेवः and Īśaḥ ईशः. The number of Chapters in each Aṁśa अंश has been mentioned too, some of which differ from those found in the referenced source publication. A description of the contents of the Twelve Sections - Dvādaśāṁśāḥ द्वादशांशाः of The ŚivaRahasyam शिवरहस्यम् given in the beginning of the Prathamāṃśaḥ प्रथमांशः can be accessed from one of the links below. Proofread by Ruma Dewan
% Text title            : Shivarahasyavishayakathanam
% File name             : shivarahasyaviShayakathanam.itx
% itxtitle              : shivarahasyaviShayakathanam (shivarahasyAntargatam)
% engtitle              : shivarahasyaviShayakathanam
% Category              : shiva, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ruma Dewan
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | IshAkhyaH dvAdashamAMshaH | 36 phalashravaNakathanam | 1-44 ||
% Indexextra            : (Scan, shivarahasyAbhAShaH)
% Latest update         : December 28, 2024
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org