श्रीशिवरक्षास्तोत्रम् अथवा अभयङ्करकवचम्

श्रीशिवरक्षास्तोत्रम् अथवा अभयङ्करकवचम्

श्री गणेशाय नमः ॥ अस्य श्रीशिवरक्षास्तोत्रमन्त्रस्य याज्ञवल्क्य ऋषिः ॥ श्री सदाशिवो देवता ॥ अनुष्टुप् छन्दः ॥ श्रीसदाशिवप्रीत्यर्थं शिवरक्षास्तोत्रजपे विनियोगः ॥ चरितं देवदेवस्य महादेवस्य पावनम् । अपारं परमोदारं चतुर्वर्गस्य साधनम् ॥ १॥ गौरीविनायकोपेतं पञ्चवक्त्रं त्रिनेत्रकम् । शिवं ध्यात्वा दशभुजं शिवरक्षां पठेन्नरः ॥ २॥ गंगाधरः शिरः पातु भालं अर्धेन्दुशेखरः । नयने मदनध्वंसी कर्णो सर्पविभूषण ॥ ३॥ घ्राणं पातु पुरारातिः मुखं पातु जगत्पतिः । जिह्वां वागीश्वरः पातु कंधरां शितिकंधरः ॥ ४॥ श्रीकण्ठः पातु मे कण्ठं स्कन्धौ विश्वधुरन्धरः । भुजौ भूभारसंहर्ता करौ पातु पिनाकधृक् ॥ ५॥ हृदयं शंकरः पातु जठरं गिरिजापतिः । नाभिं मृत्युञ्जयः पातु कटी व्याघ्राजिनाम्बरः ॥ ६॥ सक्थिनी पातु दीनार्तशरणागतवत्सलः । उरू महेश्वरः पातु जानुनी जगदीश्वरः ॥ ७॥ जङ्घे पातु जगत्कर्ता गुल्फौ पातु गणाधिपः । चरणौ करुणासिंधुः सर्वाङ्गानि सदाशिवः ॥ ८॥ एतां शिवबलोपेतां रक्षां यः सुकृती पठेत् । स भुक्त्वा सकलान्कामान् शिवसायुज्यमाप्नुयात् ॥ ९॥ ग्रहभूतपिशाचाद्यास्त्रैलोक्ये विचरन्ति ये । दूरादाशु पलायन्ते शिवनामाभिरक्षणात् ॥ १० ॥ अभयङ्करनामेदं कवचं पार्वतीपतेः । भक्त्या बिभर्ति यः कण्ठे तस्य वश्यं जगत्त्रयम् ॥ ११॥ इमां नारायणः स्वप्ने शिवरक्षां यथाऽऽदिशत् । प्रातरुत्थाय योगीन्द्रो याज्ञवल्क्यः तथाऽलिखत् ॥ १२॥ इति श्रीयाज्ञवल्क्यप्रोक्तं शिवरक्षास्तोत्रं अथवा अभयङ्करकवचं सम्पूर्णम् ॥
% Text title            : Shivarakshastotram or Abhayankarakavacham
% File name             : shivaraksha.itx
% itxtitle              : shivarakShAstotram athavA abhayaNkarakavacham
% engtitle              : shivaraxAstotram
% Category              : raksha, shiva, stotra, kavacha
% Location              : doc_shiva
% Sublocation           : shiva
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Indexextra            : (Scans 1, 2)
% Latest update         : November 24, 2006, January 19, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org