आदिशेषकृतं शिवसहस्रनामस्तोत्रम्

आदिशेषकृतं शिवसहस्रनामस्तोत्रम्

(शिवरहस्यान्तर्गते सदाशिवाख्ये) - जैगीषव्यस्कन्दसंवादे स्कन्दप्रोक्तम् - स्कन्दः उवाच । (शेषाशेषमुखोद्गीतां नामसारावलीमिमाम् । हाटकेशोरुकटकभूतेनकहीन(न्द्र)केण तु ॥ १॥ सहस्रनाम यत्प्रोक्तं तत्ते वक्ष्याम्यहं श‍ृणु । धन्यं मान्यं महामन्युप्रीतिदायकमुत्तमम् ॥ २॥ नान्येषु दापनीयं ते न देयं वेदमीदृशम् । पञ्चास्य हृदयाशास्यमनुशास्यामि ते हृदि ॥ ३॥) ऋषिरस्यादिशेषो वै देवो देवोमहेश्वरः । सर्वत्र विनियोगोऽस्य कर्मस्वपि सदा द्विज । ध्यानं तस्यानुवक्ष्यामि त्वमेकाग्रमनाः श‍ृणु ॥ ४॥ - - अथ ध्यानम् । ध्यायेदिन्दुकलाधरं गिरिधनुं सोमाग्निभालोज्ज्वलं वैकुण्ठोरुविपाठबाणसुकरं देवं रथेऽधिष्ठितम् । (वैकुण्ठोरुविपाठबाणसुकरं ह्युर्वीरथाधिष्ठतम्) । वेदाश्वं विधिसारथिं गिरिजया चित्तेऽनुसन्दध्महे नानाकारकलाविलासजगदान्ददिसम्पूर्तये ॥ ५॥ - - जपोपदेशम् । एवं ध्यात्वा महादेवं नाम्नां साहस्रमुत्तमम् । प्रजपेन्नियतो मन्त्री भस्मरुद्राक्षभूषणः ॥ ६॥ लिङ्गमभ्यर्चयन्वापि बिल्वकोमलपल्लवैः । पङ्कजैरुत्पलैर्वापि प्रसादाय महेशितुः ॥ ७॥ अष्टम्यां वा चतुर्दश्यां पर्वस्वपि विशेषतः । यं यं कामं सदाचित्ते भावयेत्तं तमाप्नुयात् ॥ ८॥ - - अथ शिवसहस्रनामस्तोत्रम् । ॐ गङ्गाधरोऽन्धकरिपुः पिनाकी प्रमथाधिपः । भव ईशान आतार्योऽनेकधन्यो महेश्वरः ॥ ९॥ महादेवः पशुपतिः स्थाणुः सर्वज्ञ ईश्वरः । विश्वाधिकः शिवः शान्तो विश्वात्मा गगनान्तरः ॥ १०॥ परावरोऽम्बिकानाथः शरदिन्दुकलाधरः । गणेशतातो देवेशो भववैद्यः पितामहः ॥ ११॥ तरणस्तारकस्ताम्रो प्रपञ्चरहितो हरः । विनायकस्तुतपदः क्ष्मारथो नन्दिवाहनः ॥ १२॥ गजान्तको धनुर्धारी वीरघोषः स्तुतिप्रियः । प्रजासंहरणो चण्डताण्डवो मन्मथान्तकः ॥ १३॥ शिपिविष्टः शाश्वतात्मा मेघवाहो दुरासदः । आनन्दपूर्णो वर्षात्मा रुद्रः संहारकारकः ॥ १४॥ भगनेत्रप्रमथनो नित्यजेताऽपराजितः । महाकारुणिकः श्वभ्रुः प्रसन्नास्यो मखान्तकः ॥ १५॥ घनाभकण्ठो गरभुक् बभ्रुशो वीर्यवर्धनः । प्रकटस्तवनो मानी मनस्वी ज्ञानदायकः ॥ १६॥ कन्दर्पसर्पदर्पघ्नो विषादी नीललोहितः । कालान्तको युगावर्तः सङ्क्रन्दनसुनन्दनः ॥ १७॥ दीनपोषः पाशहन्ता शान्तात्मा क्रोधवर्धनः । कन्दर्पो विसलच्चन्द्रो लिङ्गाध्यक्षो गजान्तकः ॥ १८॥ वैकुण्ठपूज्यो विश्वात्मा त्रिणेत्रो वृषभध्वजः । जह्नुजापतिरीशानः स्मशाननिलयो युवा ॥ १९॥ पार्वतीजानिरूह्याढ्यो नाट्यविद्यापरायणः । सामवेदप्रियो वैद्यो विद्याधिपतिरीश्वरः ॥ २०॥ कुमारजनको मारमारको वीरसत्तमः । कम्बलाश्वतरोद्गारिसुफणोत्कृष्टकुण्डलः ॥ २१॥ आनन्दवनवासोऽथ अविमुक्तमहेश्वरः । ओङ्कारनिलयो धन्वी केदारेशोऽमितप्रभः ॥ २२॥ नर्मदालिङ्गनिलयो निष्पापजनवत्सलः । महाकैलासलिङ्गात्मा वीरभद्रप्रसादकृत् ॥ २३॥ कालाग्निरुद्रोऽनन्तात्मा भस्माङ्गो गोपतिप्रियः । वेदाश्वः कञ्जजाजानिनेत्रपूजितपादुकः ॥ २४॥ जलन्धरवधोद्युक्तदिव्यचक्रप्रदायकः । वामनो विकटो मुण्डस्तुहुण्डकृतसंस्तुतः ॥ २५॥ फणीश्वरमहाहारो रुद्राक्षकृतकङ्कणः । वीणापाणिर्गानरतो ढक्कावाद्यप्रियो वशी ॥ २६॥ विशालवक्षाः शैलेन्द्रजामाताऽमरसत्तमः । हृत्तमोनाशको बुद्धो जगत्कन्दार्दनो बली ॥ २७॥ पलाशपुष्पपूज्याङ्घ्रिः पलाशनवरप्रदः । सागरान्तर्गतो घोरः सद्योजातोऽम्बिकासखः ॥ २८॥ वामदेवः सामगीतः सोमः सोमकलाधरः । निःसीम महिमोदारो दु(दा)रिताखिलपातकः ॥ २९॥ तपनान्तर्गतो धाता धेनुपुत्रवरप्रदः । बाणहस्तप्रदो नेता नमुचेर्वीर्यवर्धनः ॥ ३०॥ नागाजिनाङ्गो नागेशो नागेशवरभूषणः । अगेशशायी भूतेशो गणकोलाहलप्रियः ॥ ३१॥ प्रसन्नास्योऽनेकबाहुः शूलधृक् कालतापनः । कालप्रमथनः कूर्ममहाखर्पटधारकः ॥ ३२॥ नारसिंहजिनधरो महालाङ्गलधृग्बली । ककुदोन्मथनो हेतुरहेतुः सर्वकारणः ॥ ३३॥ कृशानुरेतसोत्फुल्ल भालनेत्रोऽमरारिहा । मृगबालधरो धन्वी शक्रबाहुविभञ्जकः ॥ ३४॥ दक्षयज्ञप्रमथनः प्रमथाधिपतिः शिवः । शतावर्तो युगावर्तो मेघावर्तो दुरासदः ॥ ३५॥ मनोजवो जातजनो वेदाधारः सनातनः । पाण्डरागोः(ङ्गो)गोऽजिनाङ्गः कर्मन्दिजनवत्सलः ॥ ३६॥ चातुर्होत्रो वीरहोता शतरुद्रीयमध्यगः । भीमो रुद्र उदावर्तो विषमाक्षोऽरुणेश्वरः ॥ ३७॥ यक्षराजनुतो नाथो नीतिशास्त्रप्रवर्तकः । कपालपाणिर्भगवान्वैय्याघ्रत्वगलङ्कृतः ॥ ३८॥ मोक्षसारोऽध्वराध्यक्ष ध्वजजीवो मरुत्सखः । आरुणेय(अरुणेथ)स्त्वगध्यक्षो कामनारहितस्तरुः ॥ ३९॥ बिल्वपूज्यो बिल्वनीशो हरिदश्वोऽपराजितः । बृहद्रथन्तरस्तुत्यो वामदेव्यस्तवप्रियः ॥ ४०॥ अघोरतर रोचिष्णुर्गम्भीरो मन्युरीश्वरः । कलिप्रवर्तको योगी साङ्ख्यमायाविशारदः ॥ ४१॥ विधारको धैर्यधुर्यः सोमधामान्तरस्थितः । शिपिविष्टो गह्वरेष्टो ज्येष्ठो देवः कनिष्ठकः ॥ ४२॥ पिनाकहस्तोऽवरजो दुन्दुभ्यो वर्ष्परैष्म्यकः । कवची च निषङ्गी च रथघोषोऽमितप्रभः ॥ ४३॥ कालञ्जरो दन्दशूको विदर्भेशो गणातिगः । गभस्तीशो मुनिश्रेष्ठो महर्षिः संशितव्रतः ॥ ४४॥ कर्णिकारवनावासी करवीरसुमप्रियः । नीलोत्पलमहास्रग्वी करहाटपुरेश्वरः ॥ ४५॥ शतर्चनः परानन्दो ब्राह्मणार्च्योपवीतवान् । बली बालप्रियो धर्मो हिरण्यपतिरप्पतिः ॥ ४६॥ यमप्रमथनोष्णीषी चक्रहस्तः पुरान्तकः । वसुषेणोऽङ्गनादेहः कौलाचारप्रवर्तकः ॥ ४७॥ तन्त्राध्यक्षो मन्त्रमयो गायत्रीमध्यगः शुचिः । वेदात्मा यज्ञसम्प्रीतो गरिष्ठः पारदः कलिः ॥ ४८॥ ऋग्यजुःसामरूपात्मा सर्वात्मा क्रतुरीश्वरः । हिरण्यगर्भजनको हिरण्याक्षवरप्रदः ॥ ४९॥ दमिताशेषपाषण्डो दण्डहस्तो दुरासदः । दूर्वार्चनप्रियकरो रन्तिदेवोऽमरेश्वरः ॥ ५०॥ अमृतात्मा महादेवो हरः संहारकारकः । त्रिगुणो विखना वाग्मी त्वङ्मांसरुधिरांशकः ॥ ५१॥ वत्सप्रियोऽथ सानुस्थो विष्णुरक्तप्रियो गुरुः । (वपप्रियो वसानिष्ठो विष्णुरक्तप्रियो गुरुः ।) किरातवेषः शोणात्मा रत्नगर्भोऽरुणेक्षणः ॥ ५२॥ सुरासवबलिप्रीतस्तत्पूर्षो(ऽ)गन्धदेहवान् । व्योमकेशः कोशहीनः कल्पनारहितः क्षमी ॥ ५३॥ सहमानश्च विव्याधी स्फटिकोपलनिर्मलः । मृत्युञ्जयो दुराध्यक्षो भक्तिप्रीतो भयापहः ॥ ५४॥ गन्धर्वगानसुप्रीतो विष्णुगर्भोऽमितद्युतिः । ब्रह्मस्तुतः सूर्यनेत्रो वीतिहोत्रोऽर्जुनान्त(ङ्ग)कः ॥ ५५॥ गर्वापहारको वाग्मी कुम्भसम्भवपूजितः । मलयो विन्ध्यनिलयो महेन्द्रो मेरुनायकः ॥ ५६॥ पार्वतीनायकोऽजय्यो जङ्गमाजङ्गमाश्रयः । कुरुविन्दोऽरुणो धन्वी अस्थिभूषो निशाकरः ॥ ५७॥ (कुरुविन्दारुणो धन्वी अस्थिभूषो निशाकरः) ॥ ५७॥ समुद्रमथनोद्भूतकालकूटविषादनः । सुरासुरेन्द्रवरदो दयामूर्तिः सहस्रपात् ॥ ५८॥ कारणो वीरणः पुत्रीजन्तुगर्भो गरादनः । श्रीशैलमूलनिलयः श्रीमदभ्रसभापतिः ॥ ५९॥ दक्षिणामूर्तिरनघो जलन्धरनिपातनः । दक्षिणो यजमानात्मा दीक्षितो दैत्यनाशनः ॥ ६०॥ कल्माषपादपूज्याङ्घ्रिरतिदो तुरगप्रियः । उमाधवो दीनदयो दाता दान्तो दयापरः ॥ ६१॥ श्रीमद्दक्षिणकैलासनिवासो जनवत्सलः । दर्भरोमावलोन्नेता तामसोऽन्नविवर्धनः (तामसस्तनुवर्धनः) ॥ ६२॥ नमस्कारप्रियो नाथ आनन्दात्मा सनातनः । तमालनीलसुगलः कुतर्कविनिवारकः ॥ ६३॥ कामरूपः प्रशान्तात्मा कारणानां च कारणः । तृणपाणिः कान्तिपरो मणिपाणिः कुलाचलः ॥ ६४॥ कस्तूरीतिलकाक्रान्तभालो भस्मत्रिपुण्ड्रवान् । वारणाङ्गालङ्कृताङ्गो महापापनिवारणः ॥ ६५॥ प्रकाशरूपो गुह्यात्मा बालरूपो बिलेशयः । भिक्षुप्रियो भक्ष्यभोक्ता भरद्वाजप्रियो वशी ॥ ६७॥ कर्मण्यस्तारको भूतकारणो यान हर्षदः । (कर्मण्यो नारकोद्भूत कारणो यान हर्षदः ।) (कर्मण्यो नारकोद्धर्त्ता तरुणो यान हर्षदः ।) वृषगामी धर्मगोप्ता कामी कामाङ्गनाशनः ॥ ६८॥ कारुण्यो वाजरूपात्मा निर्धर्मो ग्रामणीः प्रभुः । (निधर्मो) अरण्यः पर्शुहस्तश्च सौनिको मेघवाहनः ॥ ६९॥ कुमारगुरुरानन्दो वामनो वाग्भवो युवा । स्वर्धुनीधन्यमौलिश्च तरुराजो महामनाः ॥ ७०॥ कणाशनस्ताम्रघनो मयप्रीतोऽजरामरः । कौणपारिः (गाणगारिः) भालनेत्रो वर्णाश्रमपरायणः ॥ ७१॥ पुराणवृन्दसम्प्रीत इतिहासविशारदः । समर्थो नमिताशेषदेवो द्योतकरः फणी ॥ ७२॥ कर्षको लाङ्गलेशश्च मेरुधन्वा प्रजापतिः । उग्रः पशुपतिर्गोप्ता पवमानो विभावसुः ॥ ७३॥ उदावसुर्वीतराग उर्वीशो वीर्यवर्धनः । ज्वालमालोऽजिताङ्गश्च वैद्युदग्निप्रवर्तकः ॥ ७४॥ कमनीयाकृतिः पाता आषाढो(ढः)षण्ढवर्जितः । (षण्डवर्जितः) पुलिन्दरूपः पुण्यात्मा पुण्यपापफलप्रदः ॥ ७५॥ गार्हपत्यो दक्षिणाग्निः सभ्यो वसथभृत्कविः । द्रुम आहवनीयश्च तस्करोऽथ मयस्करः ॥ ७६॥ शङ्करो वारिदोऽवार्यो वातचक्रप्रवर्तकः । कुलिशायुधहस्तश्च विकृतो जटिलः शिखी ॥ ७७॥ सौराष्ट्रवासी देवेड्यः सह्यजातीरसंस्थितः । महाकायो वीतभयो गणगीतो विशारदः ॥ ७८॥ तपस्वी तापसाचार्यो द्रुमहस्तोज्ज्वलत्प्रभुः । किन्दमो मङ्कणप्रीतो जातुकर्णिस्तुतिप्रियः ॥ ७९॥ वेनो वैन्यो विशाखश्चाऽकम्पनः सोमधारकः । उपायदो दारिताङ्गो नानागमविशारदः ॥ ८०॥ काव्यालापैककुशलो मीमांसावल्लभो ध्रुवः । तालमूलनिकेतश्च बिल्वमूलप्रपूजितः ॥ ८१॥ वेदाङ्गो गमनोऽगम्यो गव्यप्रीतः फलादनः । गङ्गातीरस्थितो लिङ्गी अलिङ्गो रूपसंश्रयः ॥ ८२॥ श्रान्तिहा पुण्यनिलयः पललाशोऽर्कपूजितः (पलाशोऽर्कपूजितः) । महेन्द्रविष्णुजनको ब्रह्मतातस्तुतोऽव्ययः ॥ ८३॥ कर्दमेशो मतङ्गेशो विश्वेशो गन्धधारकः । विशालो विमलो जिष्णुर्जयशीलो जयप्रदः ॥ ८४॥ दारिद्र्यमथनो मन्त्री शम्भुः शशिकलाधरः । शिंशुमारः शौनकेज्यः श्वानपः श्वेतजीवदः ॥ ८५॥ मुनिबालप्रियोऽगोत्रो मिलिन्दो मन्त्रसंस्थितः । काशीशः कामिताङ्गश्च वल्लकीवादनप्रियः ॥ ८६॥ हल्लीसलास्यनिपुणः सल्लीलो वल्लरीप्रियः । महापारद संवीर्यो वह्निनेत्रो जटाधरः ॥ ८७॥ आलापोऽनेकरूपात्मा पुरुषः प्रकृते(प्रकृतिः) परः । स्थाणुर्वेणुवनप्रीतो रणजित्पाकशासनः ॥ ८८॥ नग्नो निराकृतो धूम्रो वैद्युतो विश्वनायकः । विश्वाधिकः शान्तरवः शाश्वतः सुमुखो महान् ॥ ८९॥ अणोरणुः श्वभ्रगतः अवटेशो नटेश्वरः । चित्रधामा चित्रभानुर्विचित्राकृतिरीश्वरः ॥ ९०॥ इन्द्रोऽजोऽमूर्तिरूपात्मा अमूर्तो वह्निधारकः । अपस्मारहरो गुप्तो योगिध्येयोऽखिलादनः ॥ ९१॥ नक्षत्ररूपः क्षत्रात्मा क्षुत्तृष्णाश्रमवर्जितः । असङ्गो भूतहृदयो वालखिल्यो मरीचिपः ॥ ९२॥ पञ्चप्रेतासनासीनो योगिनीगणसेवितः । नानाभाषानुचरितो (वचनो) नानादेशसमाश्रयः ॥ ९३॥ वृन्दारकगणस्तुत्यः पुरन्दरनतिप्रियः । प्रघसो विघसाशी च (चाप्य) अन्नाधिपतिरन्नदः ॥ ९४॥ पन्नगाभरणो योगी गुरुर्लोकैकनायकः । विराजो विश्वतो धर्मी बभ्रुशो बाहुकप्रियः ॥ ९५॥ प्रधाननिपुणो मित्रो ह्यूर्ध्वरेता महातपाः । कुरुजाङ्गलवासी च नित्यतृप्तो निरञ्जनः ॥ ९६॥ हिरण्यगर्भो भूतादिस्वराट् सम्राराड्विराड्वटुः । पटहध्वनिसम्प्रीतो नतमुक्तिप्रदायकः ॥ ९७॥ फलप्रदः भालनेत्रः फणीश्वरमहाङ्गधृक् । वास्तुपो वासवो वात्यो वर्मभिद्वसनोज्ज्वलः ॥ ९८॥ मीढुष्टमः शिवतमो वसुः शिवतरो बली । निधनेशो निधानेशः पुरुजिद्राष्ट्रवर्धनः ॥ ९९॥ अयुतायुः शतायुश्च प्रमितायुः शताध्वरः । सहस्रश‍ृङ्गो वृषभ उरुगायोरुमीढुकः ॥ १००॥ गन्ता गमयिता गाता गरुत्मान् गीतवर्धनः । रागरागिणिकाप्रीतस्तालपाणिर्गदापहः ॥ १०१॥ देवेशः खण्डपरशुः प्रचण्डतरविक्रमः । उरुक्रमो महाबाहुर्हेतिधृक्पावकादनः ॥ १०२॥ गणिकानाट्यनिरतो विमर्शो वावदूककः । कलिप्रमथनो धीरो धीरोदात्तो महाहनुः ॥ १०३॥ क्षयद्वीरोमुञ्जकेशः कल्मलीकी सुरोत्तमः । वज्राङ्गो वायुजनको ह्यष्टमूर्तिः कृपाकरः ॥ १०४॥ प्रहूतः परमोदारः पञ्चाक्षरपरायणः । कर्कन्धुः कामदहनो मलिनाक्षो जडाजडः ॥ १०५॥ कुबेरपूजितपदो महातक्षककङ्कणः । शङ्खणो मधुरारावो मृडः सस्पिञ्जरोऽजरः (शष्पिञ्जरोऽजरः) ॥ १०६॥ मार्गो मार्गप्रदो मुक्तो विजितारिः परोवरः । प्रणवार्थो वेदमयो वेदान्ताम्बुज भास्करः ॥ १०७॥ सर्वविद्याधिपः सौम्यो यज्ञेशः क्षेत्रनायकः । पापनाशकरो दिव्यो गोभिलो गोपरो गणः ॥ १०८॥ गणेशपूजितपदो ललिताम्बामनोहरः । कक्षवासो महोक्षाङ्को निस्तमस्तमवर्जितः (निस्तमः स्तोमवर्जितः) ॥ १०९॥ निःसीममहिमोदारः प्रभामूर्तिः प्रसन्नवाक् । स्तोभप्रीतो भारभूतो भूभारहरणः स्थिरः ॥ ११०॥ क्षराक्षरधरो धर्ता सागरान्तर्गतो वशी । रम्यो रस्यो रजस्योऽथ प्रवाह्यो वैद्युतोऽनलः ॥ १११॥ सिकत्यो वाद्य उर्वर्यो मेध्य ईध्रिय वाक्पटुः । प्रपञ्चमायारहितः कीर्तिदो वीर्यवर्धनः ॥ ११२॥ कालचक्रान्तरहितो नित्यानित्योऽथ चेतनः । गर्वोन्नतो भटाकारो मृगयुर्भवहा भवः ॥ ११३॥ शङ्गः शताङ्गः शीताङ्गो नागाङ्गो भस्मभूषणः । त्रियम्बकोऽम्बिकाभर्ता नन्दिकेशः प्रसादकृत् ॥ ११४॥ चण्डीशवरदो दिव्यो मायाविद्याविशारदः । मृगाङ्कशेखरो भव्यो गौरीपूज्यो दयामयः ॥ ११५॥ प्रमाथनोऽविकथनो गर्गो वीणाप्रियः पटुः । वर्णी वनस्थो यतिराट् गूढगर्भो विरोचनः ॥ ११६॥ शबरो बर्बरो धौम्यो विराड्रूपः स्थितिप्रदः । महाकारुणिको भ्रान्तिनाशकः शोकहा प्रभुः ॥ ११७॥ अशोकपुष्पपूज्याङ्घ्रिर्मणिभद्रो धनेश्वरः । अमृतेशो द्रुतगतिस्तगरोऽर्जुनमध्यगः ॥ ११८॥ दमो विरोधहृत्कान्तो नीतिज्ञो विष्णुपूजितः । सुमप्रियो वातमयो वरीयान्कर्मठो यमः ॥ ११९॥ दिगम्बरो(रः) शममयो धूमपः शुक्रगर्भकः । अट्टहासो तल्पशयो आसीनो धावमानकः ॥ १२०॥ तुराषाण्मेघमध्यस्थो विपाशातीरसंस्थितः । कुलोन्नतः कुलीनश्च व्यवहारप्रवर्तकः ॥ १२१॥ केतुमालो हरिद्राङ्गो द्रापिः पुष्पमयो भृगुः । विशोषकोर्वीनिरतस्त्वग्जातो रुधिरप्रियः ॥ १२२॥ अकैतवहृदावासः क्षपानाथ क(कु)लाधरः । नक्तञ्चरोदिवाचारी दिव्यदेहो विनाशकः ॥ १२३॥ कदम्बवनमध्यस्थो हरिद्रागोर्मिमध्यगः । यमुनाजलमध्यस्थो जालकोऽजमखो वसुः ॥ १२४॥ वसुप्रदो वीरवर्यः शूलहस्तः प्रतापवान् । खड्गहस्तो मण्डलात्मा मृत्युर्मृत्युजिदीश्वरः ॥ १२५॥ लङ्कावासो मेघमालो गन्धमादनसंस्थितः । भैरवो भरणो भर्ता भ्रातृव्यो नामरूपगः ॥ १२६॥ अव्याकृतात्मा भूतात्मा पञ्चभूतान्तरोऽस्मयः । अहनन्यः शब्दमय कालाधार कलाधरः ॥ १२७॥ भृगुतुङ्गश्चीरवासी(साः) कैवर्तोनायकोऽर्धकः । करेणुपो गन्धमदश्चाम्पेयकुसुमप्रियः ॥ १२८॥ भद्रदश्चर्मवसनो वैराजस्तोत्रकारकः । सुमप्रीतः सामगीती उर्जो वर्चः कुलेश्वरः ॥ १२९॥ ककुद्मान् पीतवसनो वध्येशो नारदःपिता । क्रव्यादनो नीतिमयो धर्मचक्रप्रवर्तकः ॥ १३०॥ शष्यः फेन्यो विनीर्णेता कङ्कणोनासिको ? शलः । एणाङ्कः शलभाकारः शालूरो ग्रामसंस्थितः ॥ १३१॥ महाविशेषकथनो वारितीरास्थितोऽचलः । कृपीटयोनिः शान्तात्मा गुणवान् ज्ञानवाञ्छुचिः ॥ १३२॥ सर्वपापहरोऽलिङ्गो भगमालो प्रतारणः । आनन्दधन आतार्य इरिण्योऽथप्रपथ्यकः ॥ १३३॥ गङ्गातीरस्थितो देवो ह्यविमुक्तसमाश्रयः । महाश्मशाननिलयो वलयो वालिपूजितः ॥ १३४॥ करन्धमो व्रात्यवर्यो मानवो जीवकोऽशठः । कर्मदेवमयो ब्रह्मा ऋतं सत्यं महेश्वरः ॥ १३५॥ सुमङ्गलः सुखमयो ज्ञानानन्दो मिताशनः । मनोमयः प्राणमयो विज्ञानात्मा प्रसादनः ॥ १३६॥ आनन्दमयकोशात्मा धामा सीमाथ भूमकः । सदाशिवो विशिष्टात्मा वसिष्ठार्चितपादुकः ॥ १३७॥ नीलग्रीवः सैन्यपालो दिशानाथो नतिप्रियः । केशवोन्मथनो मौनी मधुसूदनसूदनः ॥ १३८॥ उदुम्बरकरो डिम्भो बम्भरः पिञ्छिलस्तलः । मूलस्तालकरो वर्ण्योऽपर्णादः प्राणनाशकः ॥ १३९॥ अपर्णापतिराशास्यो सम्पूर्णः पूर्णरूपवान् । दीपमालो जाङ्गलिको वैतुण्डस्तुण्डकः प्रियः ॥ १४०॥ ऊलूकः कलविङ्कोऽथ शुकनादप्रसादकृत् । जैगीषव्यतपःप्रीतो रावणेन्द्रबलार्दनः ॥ १४१॥ मार्कण्डेयमहामृत्युनाशको ज्ञानधारकः । अहर्गणक्रियातीतः सर्पप्रीतोऽनिलाशनः ॥ १४२॥ वेगाधारो धैर्यधनो धनधान्यप्रदायकः । नाद्यो वैद्यो वाद्यरतो गद्यपद्यस्तुतोद्युकः ॥ १४३॥ भेरीभाङ्कारनिरतो मृगचर्मविधायकः । पुण्यकीर्तिः पुण्यलभ्यो मोहनास्त्रविशारदः ॥ १४४॥ कैलासशिखरावासः पारिजातवनाश्रयः । ईला(डा, लां)दिरवसम्प्रीतो माहेन्द्रस्तुतिहर्षितः ॥ १४५॥ यूपवाटो भारवह कोमलाङ्गो जनाश्रयः । विश्वामित्रप्रियो बालः पाकयज्ञरतः सुखी ॥ १४६॥ वामाचारप्रियोन्नेता शक्तिहस्तो दुरासदः । सर्वाकारः शाश्वतात्मा वाङ्मनोदूरगो हरः ॥ १४७॥ - - फलश्रुतिः । इत्येतन्नामसाहस्रं शेषाशेषमुखोद्गतम् । शम्भोर्दिव्यं मुनिश्रेष्ठ श्रवणात्पापनाशनम् ॥ १४८॥ सर्वान्कामानवाप्नोति शिवार्चनपरायणः । त्वमेभिर्मुनिमुख्यैश्च श‍ृण्वन्भक्तिमवाप्नुयाः ॥ १४९॥ कुमारी पतिमाप्नोति निर्धनो धनवान्भवेत् । जयार्थी जयमाप्नोति क्षयद्वीरप्रसादतः ॥ १५०॥ ॥ इति शिवरहस्यान्तर्गते आदिशेषकृतं शिवसहस्रनामस्तोत्रं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । सदाशिवाख्यः नवमांशः । अध्यायः २ सहस्रनामकथनम् । १-१५०॥ - .. shrIshivarahasyam . sadAshivAkhyaH navamAMshaH . adhyAyaH 2 sahasranAmakathanam . 1-150.. Notes: Skanda स्कन्द narrates to Jaigīṣavya जैगीषव्य; the ŚivaSahasranāma शिवसहस्रनाम composed by ĀdiŚeṣa आदिशेष. He mentions about the specific time periods for the ŚivaSahasranāma Japa शिवसहस्रनाम जप; viz. Aṣṭamī अष्टमी, Caturdaśī चतुर्दशी and the Parva-s पर्वाणि. The latter imply Pañcaparva-s पञ्चपर्वाणि; that include Sūrya Saṅkrānti सूर्य सङ्क्रान्ति, Amāvasyā अमावस्या, Pūrṇimā पूर्णिमा, Kṛṣṇa Aṣṭami कृष्ण अष्टमी and Kṛṣṇa Caturdaśī कृष्ण चतुर्दशी. The referred source publications were found to have several errors - many of which have been fixed. The readers need to use due discretion. Nāmāvaliḥ नामावलिः derived from this Stotram स्तोत्रम् can be accessed from the respective link given below. Proofread by Ruma Dewan
% Text title            : Adisheshakritam Shivasahasranama Stotram
% File name             : shivasahasranAmastotramshivarahasya9p2.itx
% itxtitle              : shivasahasranAmastotram (AdisheShakRitaM shivarahasyAntargatam navamAMshe adhyAya 2 gaNgAdharo.andhakaripuH pinAkI pramathAdhipan)
% engtitle              : AdisheShakRitaM shivasahasranAmastotram
% Category              : shiva, shivarahasya, sahasranAma, stotra
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Sivakumar Thyagarajan, DPD, Ruma Dewan
% Description/comments  : shrIshivarahasyam | sadAshivAkhyaH navamAMshaH | adhyAyaH 2 sahasranAmakathanam | 1-150|| See corresponding nAmAvalI
% Indexextra            : (Scans 1, 2, nAmAvalI)
% Latest update         : September 22, 2026
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org