व्यासकृतं शिवसन्ततपूजनवर्णनम्

व्यासकृतं शिवसन्ततपूजनवर्णनम्

अविच्छिन्ना नीरधारा शिवलिङ्गे मनोहरा । कल्पनीया सैव धारा शिवसन्ततपूजनम् ॥ १॥ शिवसन्ततपूजायाः फलमप्युच्यते श‍ृणु । यस्य श्रवणमात्रेण तस्य भक्तिः प्रजायते ॥ २॥ जलधारा मुक्तिधारा पापधारापहारिणी । धारारूपाणि पापानि नश्यन्ति जलधारया ॥ ३॥ अविच्छिन्नानि पापानि जलाविच्छिन्नधारया । विनश्यन्तीति सा लिङ्गे कल्पनीया सदा द्विजैः ॥ ४॥ धर्मकाले विशेषेण जलधाराप्रकल्पनम् । शिवलिङ्गेषु कर्तव्यं तेन पापलयो भवेत् ॥ ५॥ अतः पापलयोद्योगः कर्तव्यो नीरधारया । शोधितं नीरमादाय सुगन्धद्रव्यसंयुतम् ॥ ६॥ पत्रैः फलैर्वा पुष्पैर्वा नवदुर्गाङ्कुरैरपि । जलैरपि प्रकुर्वन्ति मुनयः शिवपूजनम् ॥ ७॥ जलं दत्वा महेशाय यत्फलं समवाप्यते । तत्फलं केन वा सम्यग्वर्णनीयं नृपोत्तम ॥ ८॥ शिवार्चनेन सिद्ध्यन्ति सर्वे कामाः श्रुतिश्रुताः । अनायासेन मर्त्यानां शुभदं शिवपूजनम् ॥ ९॥ अपारकरुणासारसागरः शङ्करः परः । भक्त्या दत्तं फलं पत्रं गृह्णाति शुभदायकः ॥ १०॥ तस्य सम्पूर्णकामस्य नित्यानन्दस्य वस्तुतः । तोषो जलार्पणेनापि जायते तत् किलाद्भुतम् ॥ ११॥ प्रच्छिन्नान्यपि शुष्काणि बिल्वपत्राणि शङ्करः । गृह्णाति विपुलं भाग्यं दत्वा भक्ताय सादरम् ॥ १२॥ शिवस्य करुणासिन्धोर्महिमापि महान् खलु । स्वभक्तदयया गृह्णात्यम्बु पत्रं च किञ्चन ॥ १३॥ नाराधयन्ति सहसा करुणासागरं हरम् । न तरत्यपि संसारसागरं पातकाकरम् ॥ १४॥ भक्त्या देवशिरोमणिः सुरमणिर्द्वित्राणि पत्राणि वा नीरं वा कुसुमं फलं मणिमये लिङ्गेऽन्यलिङ्गेऽपि वा । दत्तं भस्मविभूषितेन कृपया गृह्णात्यनुग्राहको दातृत्वव्यसनात् प्रयच्छति महत् भाग्यं भवानीपतिः ॥ १५॥ ॥ इति शिवरहस्यान्तर्गते व्यासकृतं शिवसन्ततपूजनवर्णनं सम्पूर्णम् ॥ - ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४९। १०१-११५॥ - .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 49. 101-115.. Proofread by Ruma Dewan
% Text title            : Vyasakritam Shivasantatapujanavarnanam
% File name             : shivasantatapUjanavarNanaMvyAsakRRitam.itx
% itxtitle              : shivasantatapUjanavarNanaM vyAsakRitam (shivarahasyAntargatam)
% engtitle              : shivasantatapUjanavarNanaM vyAsakRitam
% Category              : shiva, pUjA, shivarahasya
% Location              : doc_shiva
% Sublocation           : shiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Ruma Dewan
% Description/comments  : shrIshivarahasyam | harAkhyaH tRitIyAMshaH | pUrvArdham | adhyAyaH 49| 101-115||
% Indexextra            : (Scan)
% Latest update         : May 6, 2023
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org