व्यासकृतं शिवसन्ततपूजनवर्णनम्
अविच्छिन्ना नीरधारा शिवलिङ्गे मनोहरा ।
कल्पनीया सैव धारा शिवसन्ततपूजनम् ॥ १॥
शिवसन्ततपूजायाः फलमप्युच्यते शृणु ।
यस्य श्रवणमात्रेण तस्य भक्तिः प्रजायते ॥ २॥
जलधारा मुक्तिधारा पापधारापहारिणी ।
धारारूपाणि पापानि नश्यन्ति जलधारया ॥ ३॥
अविच्छिन्नानि पापानि जलाविच्छिन्नधारया ।
विनश्यन्तीति सा लिङ्गे कल्पनीया सदा द्विजैः ॥ ४॥
धर्मकाले विशेषेण जलधाराप्रकल्पनम् ।
शिवलिङ्गेषु कर्तव्यं तेन पापलयो भवेत् ॥ ५॥
अतः पापलयोद्योगः कर्तव्यो नीरधारया ।
शोधितं नीरमादाय सुगन्धद्रव्यसंयुतम् ॥ ६॥
पत्रैः फलैर्वा पुष्पैर्वा नवदुर्गाङ्कुरैरपि ।
जलैरपि प्रकुर्वन्ति मुनयः शिवपूजनम् ॥ ७॥
जलं दत्वा महेशाय यत्फलं समवाप्यते ।
तत्फलं केन वा सम्यग्वर्णनीयं नृपोत्तम ॥ ८॥
शिवार्चनेन सिद्ध्यन्ति सर्वे कामाः श्रुतिश्रुताः ।
अनायासेन मर्त्यानां शुभदं शिवपूजनम् ॥ ९॥
अपारकरुणासारसागरः शङ्करः परः ।
भक्त्या दत्तं फलं पत्रं गृह्णाति शुभदायकः ॥ १०॥
तस्य सम्पूर्णकामस्य नित्यानन्दस्य वस्तुतः ।
तोषो जलार्पणेनापि जायते तत् किलाद्भुतम् ॥ ११॥
प्रच्छिन्नान्यपि शुष्काणि बिल्वपत्राणि शङ्करः ।
गृह्णाति विपुलं भाग्यं दत्वा भक्ताय सादरम् ॥ १२॥
शिवस्य करुणासिन्धोर्महिमापि महान् खलु ।
स्वभक्तदयया गृह्णात्यम्बु पत्रं च किञ्चन ॥ १३॥
नाराधयन्ति सहसा करुणासागरं हरम् ।
न तरत्यपि संसारसागरं पातकाकरम् ॥ १४॥
भक्त्या देवशिरोमणिः सुरमणिर्द्वित्राणि पत्राणि वा
नीरं वा कुसुमं फलं मणिमये लिङ्गेऽन्यलिङ्गेऽपि वा ।
दत्तं भस्मविभूषितेन कृपया गृह्णात्यनुग्राहको
दातृत्वव्यसनात् प्रयच्छति महत् भाग्यं भवानीपतिः ॥ १५॥
॥ इति शिवरहस्यान्तर्गते व्यासकृतं शिवसन्ततपूजनवर्णनं सम्पूर्णम् ॥
- ॥ श्रीशिवरहस्यम् । हराख्यः तृतीयांशः । पूर्वार्धम् । अध्यायः ४९। १०१-११५॥
- .. shrIshivarahasyam . harAkhyaH tRRitIyAMshaH . pUrvArdham . adhyAyaH 49. 101-115..
Proofread by Ruma Dewan